________________
127
हारीता: कोकिलाश्चाषाः, बकचातकखञ्जनाः । शकुनिचटकागृद्धाः, सुगृहश्येनसारिकाः ।। १०० ।। शतपत्रभरद्वाजाः, कुम्भकाराश्च टिट्टिभाः । दुर्गाकौशिकदात्यूहप्रमुखा लोमपक्षिणः ॥ १०१ ॥ वल्गुलीचर्मचटिका, आटिर्भारुण्डपक्षिणः । समुद्रवायसा जीवंजीवाद्याश्चर्मपक्षिणः ॥ १०२ ॥ समुद्गवत्संघटितौ, येषामुड्डयनेऽपि हि । पक्षौ स्यातां ते समुद्गपक्षिणः परिकीर्तिताः ॥ १०३ ॥ अवस्थानेऽपि यत्पक्षौ, ततो ते विततच्छदाः । इमौ स्तः पक्षिणां भेदौ, द्वौ बाह्यद्वीपवार्धिषु ॥ १०४ ॥ संमूच्छिमा गर्भजाश्चेत्यमी स्युर्द्विविधाः समे । विना ये गर्भसामग्री, जाताः संमूर्च्छिमाश्च ते ।। १०५ ।। तथा गर्भादिसामग्ग्रा, ये जातास्ते हि गर्भजाः । आसालिकान्विना संमूर्च्छिमा एव हि ते ध्रुवम् ॥ १०६ ॥ यत्तु सूत्रकृताङ्गे आहारपरिज्ञाध्ययने आसालिका गर्भतया उक्ताः ते तत्सदृशनामानो विजातीयैव संभाव्यन्ते । अन्यथा प्रज्ञापनादिभिः सह विरोधापत्तेः ॥
अपर्याप्ताश्च पर्याप्ताः, प्रत्येकं द्विविधा इमे । एवं पञ्चाक्षतिर्यञ्चः सर्वेऽपि स्युश्चतुर्विधाः ॥ १०७ ॥ इति भेदाः ॥ १ ॥
विकलाक्षवदुक्तानि, स्थानान्येषां जिनेश्वरैः । तत्तत्स्थानविशेषस्तु, स्वयं भाव्यो विवेकिभिः ॥ १०८ ॥ इति स्थानानि ॥ २ ॥
पञ्च पर्याप्तयोऽमीषां, पर्याप्तिं मानसीं विना । संमूच्छिमानामन्येषां पुनरेता भवन्ति षट् ॥ १०९ ॥ असंज्ञिनोऽमनस्का यत्प्रवर्त्तन्तेऽशनादिषु । आहारसंज्ञा सा ज्ञेया, पर्याप्तिर्न तु मानसी ॥ ११० ॥ अथवाऽल्पं मनोद्रव्यं, वर्त्ततेऽसंज्ञिनामपि । प्रवर्त्तन्ते निवर्त्तन्ते, तेऽपीष्टानिष्टयोस्ततः ॥ १११ ॥ संमूच्छिमानां प्राणाः स्युर्नवान्येषां च ते दश । इति पर्याप्तयः ॥ ३॥
लक्षाश्चतस्रो योनीनामेषां सामान्यतः स्मृताः ।। ११२ ।। इति योनिसंख्याः ॥ ४ ॥ एवं संमूच्छिमगर्भोद्भवभेदाविवक्षया । लक्षाणि कुलकोटीनामेषामित्याहुरीश्वराः ॥ ११३ ॥ अध्यर्धानि द्वादशैव, भवन्ति जलचारिणाम् । खचराणां द्वादशाथ, चतुष्पदाङ्गिनां दश ।। ११४ ।। दशैवोरगजीवानां, भुजगानां नवेति च । एषां सार्धत्रिपञ्चाशल्लक्षाणि कुलकोटयः ॥ ११५ ॥ इति कुलसंख्या ॥ ५ ॥
विवृता योनिरेतेषां संमूर्च्छिमशरीरिणाम् । गर्भजानां भवत्येषां योनिर्विवृतसंवृता ॥ ११६ ॥ संमूच्छिमानां त्रैधेयं, सचित्ताचित्तमिश्रका । गर्भजानां तु मिश्रैव, यदेषां गर्भसम्भवे ।। ११७ ।। जीवात्मसात्कृतत्वेन, सचित्ते शुक्रशोणिते । तत्रोपयुज्यमानाः स्युरचित्ताः पुद्गलाः परे ।। ११८ ।। संमूच्छिमानां त्रिविधा, शीतोष्णमिश्रभेदतः । गर्भजानां तिरश्चां तु भवेन्मित्रैव केवलम् ॥ ११९ ॥
,