________________
126
इति चतुष्पदाः ॥ भुजोरःपरिसर्पत्वात्, परिसर्पा अपि द्विधा । तत्रोर:परिसश्चि, चतुर्धा दर्शिता जिनैः ॥७७ ॥ अहयोऽजगरा आसालिका महोरगा इति । अहयो द्विविधा दर्वीकरा मुकुलिनस्तथा ॥ ७८ ॥ दर्वीकरा फणभृतो, या देहावयवाकृतिः । फणाभावोचिता सा स्यात्, मुकुलं तद्युताः परे ॥ ७९ ॥ दर्वीकरा बहुविधा, दृष्टा दृष्टजगत्त्रयैः । आशीविषा दृष्टिविषा, उग्रभोगविषा अपि ॥ ८ ॥ लालाविषास्त्वग्विषाश्च, श्वासोच्छ्वासविषा अपि । कृष्णसर्पाः स्वेदसर्पाः, काकोदरादयोऽपि च ॥ ८१ ॥ तत्र चआशीर्दष्ट्रा विषं तस्यां, येषामाशीविषा हि ते । जम्बूद्धीपमितं देहं, विषसात्कर्तुमीश्वराः ॥ ८२ ॥ शक्तेविषय एवायं, भूतं भवति भावि नो । तादृक्शरीरासम्पत्त्या, पञ्चमाङ्गेऽर्थतो ह्यदः ॥ ८३ ॥ घोणसाद्या मुकुलिन, इत्येवमहयो द्विधा । एकाकारा अजगरा, आसालिकानथ ब्रुवे ॥ ८४ ॥ अन्तर्मनुष्यक्षेत्रस्य, केवलं कर्मभूमिषु । काले पुनर्युगलिनां, विदेहेष्वेव पञ्चसु ॥८५ ॥ चयर्धचक्रिरामाणां, महानृपमहीभृताम् । स्कन्धावारनिवेशानां, विनाशे समुपस्थिते ॥ ८६ ॥ एवं च-नगरग्रामनिगमख्नेटादीनामुपस्थिते । विनाशे तदधः सम्मूर्च्छन्त्यासालिकसंज्ञकाः ॥ ८७ ॥ अङ्गलासंख्यभागाङ्गाः, प्रथमोत्पन्नका अमी । वर्धमानशरीराश्चोत्कर्षाद् द्वादशयोजना: ॥ ८ ॥ बाहल्यपृथुलत्वाभ्यां, ज्ञेयास्तदनुसारतः । अज्ञानिनोऽसंजिनश्च, ते मिथ्यादृष्टयो मताः ॥ ८ ॥ उत्पन्ना एव ते नश्यन्त्यन्तर्मुहर्त्तजीविता: । नष्टेषु तेषु तत्स्थाने, गर्ता पतति तावती ॥ ९० ॥ भयङ्कराऽथ सा गर्ता, राक्षसीव बुभुक्षिताः । क्षिप्रं ग्रसति तत्सर्वं, स्कन्धावारपुरादिकम् ॥ ९१ ॥ उक्तं जीवसमासे तु, स्युरेते बीन्द्रिया इति । शरीरोत्कर्षसाधावेद तत्वं तु केवली ॥ ९२ ॥ महोरगा बहुविधाः, केचिदङ्गुलदेहकाः । तत्पृथक्त्वाङ्गकाः केचिद्धितस्तितनवः परे ॥ ९३ ॥ एवं रत्निकुक्षिचापैोजनैस्तच्छतैरपि । पृथक्त्ववृद्ध्या यावत्ते, सहस्रयोजनाङ्गकाः ॥ ९४ ॥ स्थले जलेऽपि विचरन्त्येते स्थलोद्भवा अपि । नरक्षेत्रे न सन्त्येते, बाह्यद्वीपसमुद्रगाः ॥ ९५ ॥ इत्युरःपरिसर्पाः ॥ वक्ष्ये भुजपरिसास्ते त्वनेकविधाः स्मृताः । नकुला: सरटा गोधा, ब्राह्मणीगृहगोधिकाः ॥ ९६ ॥ छुच्छंदरीमूषकाच, हालिनीजाहकादयः । एवं स्थलचरा उक्ता, उच्यन्ते खचरा अथ ॥ ९७ ॥ ते चतुर्धा लोमचर्मसमुद्गविततच्छदाः । तत्र हंसाः कलहंसाः, कपोतकेकिवायसाः ॥ ९८ ॥ ढङ्काः काश्चक्रवाकाश्चकोरक्रौञ्चसारसाः । कपिञ्जला: कुर्कुटाश्च शुकतित्तिरलावकाः ॥ ९९ ॥
१. गृहगोलिकाः इत्यपिपाठः