SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ 125 असंख्येयगुणास्तेभ्योऽपर्याप्तचतुरिन्द्रियाः । त्रिद्धीन्द्रिया अपर्याप्तास्ततोऽधिकाधिकाः क्रमात् ॥ ५६ ॥ इत्यल्पबहुत्वम् ॥ ३३ ॥ इमे प्रतीच्यामत्यल्पाः, प्राच्यां विशेषतोऽधिकाः । दक्षिणस्यामुत्तरस्यामेभ्योऽधिकाधिका: क्रमात् ॥ ५७ ॥ अल्पतां बहुतां चानुसरन्त्येतेऽम्बुकायिनाम् । प्रायो जलाशयेष्वेषां, भूम्नोत्पत्तिः प्रतीयते ॥ ५८ ॥ व्यक्षाः पूतरशङ्खाद्याः, स्युः प्रायो बहवो जले । शेवालादौ च कुन्थ्वाद्या, भृङ्गाद्याश्वाम्बुजादिषु ॥ ५९॥ इति दिगपेक्षयाऽल्पबहुत्वम् ॥ ३४ ॥ अल्पमन्तर्मुहूर्तं स्यात्, कालोऽनन्तोऽन्तरं महत् । वनस्पत्यादिषु स्थित्वा, पुनर्विकलताजुषाम् ॥ ६० ॥ इत्यन्तरम् ॥ ३६ ॥ पञ्चेन्द्रियजीवस्वरूपम् ॥ तिर्यञ्चो मनुजा देवा, नारकाश्चेति तात्त्विकैः । स्मृता पञ्चेन्द्रिया जीवाश्चतुर्धा गणधारिभिः ॥ ६१ ॥ त्रिधा पञ्चाक्षतिर्यञ्चो, जलस्थलनचारिणः । अनेकधा भवन्त्येते, प्रतिभेदविवक्षया ॥ ६२ ॥ दृष्टा जलचरास्तत्र, पञ्चधा तीर्थपार्थिवैः । मत्स्याश्च कच्छपा ग्राहा, मकरा शिशुमारकाः ॥ ६३ ॥ तत्रानेकविधा मत्स्याः, श्लक्ष्णास्तिमितिमिङ्गलाः । नक्रास्तण्डुलमत्स्याश्च, रोहिताः कणिकाभिधाः ॥ ६४ ॥ पीठपाठीनशकुलाः, सहस्त्रदंष्ट्रसंज्ञकाः । नलमीना उलूपी च, प्रोष्ठि च मद्गुरा अपि ॥६५॥ चटाचटकराश्चापि, पताकातिपताकिका: । सर्वे ते मत्स्यजातीया, ये चान्येऽपि तथाविधाः ॥ ६६ ॥ कच्छपा द्विविधा अस्थिकच्छपा मांसकच्छपाः । ज्ञेया संज्ञाभिरेताभिः ग्राहा: पञ्चविघा पुनः ॥ ६७ ॥ ॥ दिली, वेढला, सुद्धला, पुलगा, सीसागारा इति ॥ द्विविधा मकरा: शोण्डा, मट्टा अति विभेदतः । एकाकाराः शिशुमाराः, सर्वेऽमी जलचारिणः ॥ ६८ ॥ इति जलचराः ॥ चतुष्पदाः परिसर्पा, इति स्थलचरा द्विधा । चतुष्पदाश्चतुर्भेदैस्तत्र प्रोक्ता विशारदैः ॥ ६९ ॥ केचिदेकनुराः केचिद्, द्विखुरा अपरे पुनः । गण्डीपदाश्च सनख्नपदा अन्ये प्रकीर्तिताः ॥ ७० ॥ अभिन्नाः स्युः खुरा येषां, ते स्युरेकनुराभिधाः । गर्दभाश्वादयस्ते तु, रोमन्थं रचयन्ति न ॥७१॥ भिन्ना येषां खुरास्तेस्युढिखुरा बहुजातयः । महिषा गवया उष्ट्रा, वराहच्छगलैडकाः ॥७२॥ रुरवः शरभाश्चापि, चमरा रोहिषा मृगाः । गोकर्णाद्या अमी सर्वे, रोमन्थं रचयन्ति वै ॥७३॥ स्यात्पद्मकर्णिका गण्डी, तद्वद्येषां पदाश्च ते । हस्तिगण्डकखड्गाद्या, गण्डीपदाः प्रकीर्तिताः ॥७४ ॥ इत्युत्तराध्ययनवृत्तौ ॥ प्रज्ञापनावृत्तौ तु—“गण्डी सुवर्णकाराधिकरणस्थानमिति” ॥ येषां पदा नखैर्दीधैंः, संयुताः स्युः शुनामिव । तीर्थंकरैस्ते सनखपदा इति निरूपिताः ॥७५ ॥ सिंहा व्याघ्रा दीपिनश्च, तरक्षा ऋक्षका अपि । शृगाला: शशकाश्चित्राः, श्वानश्चान्ये तथाविधाः ॥७६ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy