SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ 124 यदान दीर्घकालिकी नापि, दृष्टिवादोपदेशिकी । स्याद्धेतुवादिकी ह्येषां, न तया संज्ञिता पुनः ॥ ४० ॥ इति संज्ञिता ॥ २३ ॥ केवलं क्लीबवेदाश्च मिथ्यादृष्टय एव ते । सम्यग्दृशो ह्यल्पकालं, विद्युज्योतिर्निदर्शनात् ॥ ४१ ॥ सास्वादनाख्यसम्यक्त्वे, किञ्चित् शेषे मृतिं गताः । विकलाक्षेषु जायन्ते, ये केचित्तदपेक्षया ॥ ४२ ॥ अपर्याप्तदशायां स्युः, सम्यग्दृशोऽपि केचन । पयाप्तत्वे तु सर्वेऽपि, मिथ्यादृष्टय एव ते ॥ ४३ ॥ इति वेदः दृष्टिश्च ॥ २४-२५ ॥ मतिश्रुताभिधं ज्ञानद्वयं सम्यग्दृशां भवेत् । मत्यज्ञानश्रुताज्ञाने, तेषां मिथ्यात्विनां पुनः ॥ ४४ ॥ इति ज्ञानम् ॥ २६ ॥ अचक्षुर्दर्शनोपेता, द्वित्र्यक्षाश्चतुरिन्द्रियाः । सचक्षुर्दर्शनाचक्षुर्दर्शनाः कथिता जिनैः ॥ ४५ ॥ इति दर्शनम् ॥ २७ ॥ स्युः साकारोपयोगास्ते, ज्ञानाज्ञानव्यपेक्षया । निराकारोपयोगास्ते, दर्शनापेक्षया पुनः ॥ ४६॥ इत्युपयोगः ॥ २८ ॥ द्विवक्रस्त्रिक्षणान्तश्च, संभवत्येषु विग्रहः । ततस्तत्रैकसमयं, व्यवहारादनाहतिः ॥४७॥ निश्चयात्तु द्विसमया, स्यादनाहारिता किल । विग्रहे विकलाक्षाणामाहारकत्वमन्यदा ॥ ८ ॥ एते प्रागोजआहारास्तत: पर्याप्तभावतः । लोमाहाराः कावलिकाहारा अपि भवन्त्यमी ॥ ४९ ॥ सचित्ताचित्तमिश्राख्य, एषामाहार इष्यते । अन्तर्मुहूर्तमुत्कृष्टमाहारस्यान्तरं मतम् ॥ ५० ॥ इत्याहारः ॥ २९ ॥ पर्याप्तानां गुणस्थानमेतेषामुक्तमादिमम् ॥ अपर्याप्तानां तदाद्यं, द्वितीयमपि जातुचित् ॥५१॥ इति गुणाः ॥ ३० ॥ औदारिकः काययोगस्तन्मिश्रः कार्मणस्तथा । वागसत्यामृषा चेति, योगाश्चत्वार एष्यमी ॥ ५२ ॥ इति योगा: ॥ ३१ ॥ एकस्मिन् प्रतरे सूच्योऽङ्गुलसंख्यांशकायति । तावन्तो द्वित्रिचतुरिन्द्रियाः पर्याप्तका: पृथक् ॥ ५३॥ एकस्मिन् प्रतरे सूच्योऽङ्गुलासंख्यांशकायति । अपर्याप्ता दित्रिचतुरक्षास्तावन्त ईरिताः ॥ ५४॥ उक्तं च- “पज्जत्तापज्जत्ता, बितिचउ अस्सन्निणो अवहरति । अंगुलसंखासंखप्पएसभइयं पुढो पयरं" ॥ इति मानम् ॥ ३२ ॥ सर्वस्तोका: चतुरक्षाः, पर्याप्ता: परिकीर्तिताः । पर्याप्तद्रीन्द्रियास्तेभ्योऽधिकास्तेभ्यस्त्रिखास्तथा ॥.५५ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy