SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ 123 एवमग्रेऽपि-संख्येयदिनरूपा च, पर्याप्तत्रीन्द्रियाङ्गिनाम् । पर्याप्तचतुरक्षाणां, संख्येयमासरूपिका ॥ २५ ॥ इति कायस्थितिः ॥ ८ ॥ कार्मणं तैजसं चौदारिकमेतत्तनुत्रयम् । इति देहाः ॥ ९ ॥ केवलं हुंडसंस्थानमेतेषां परिकीर्तितम् ॥ २६ ॥ इति संस्थानम् ॥ १० ॥ योजनानि द्वादशेषां, त्रिगव्यूत्येकयोजनम् । क्रमाज्ज्येष्ठा तनुर्लज्यङ्गलासंख्यलवोन्मिता ॥ २७ ॥ आहुश्च–“बारसजोअणा संखो तिकोस गुम्मी य जोअणं भमरो” इति ॥ इत्यङ्गमानम् ॥ ११ ॥ [बृहत्संग्रहणी गा. २९६] वेदनोत्थः कषायोत्थो, मरणान्तिक इत्यपि । विकलेन्द्रियजीवानां, समुद्घाता अमी त्रयः ॥ २८ ॥ इति समुद्घाताः ॥ १२ ॥ पृथ्व्याया: स्थावराः पञ्च, दीन्द्रियाद्यास्त्रयः पुनः । संख्येयजीविनः पञ्चेन्द्रियतिर्यग्नरा अपि ॥ २९ ॥ स्थानकेषु दशस्वेषु, गच्छन्ति विकलेन्द्रिया: । दशभ्य एवैतेभ्यश्चोत्पद्यन्ते विकलेन्द्रियाः ॥ ३० ॥ न देवनारकासंख्यजीवतिर्यग्नरेषु च । एषां गमागमौ तस्मात्, द्विगता न्यागता इति ॥ ३१ ॥ उपपातच्यवनयोर्विरहो दीन्द्रियादिषु । अन्तर्मुहूर्त्तमुत्कृष्टो, जघन्यः समयावधिः ॥ ३२ ॥ उत्पद्यन्ते विपद्यन्ते, चैकेन समयेन ते । एको द्वौ वा त्रयः संख्या, असंख्या विकलेन्द्रियाः ॥ ३३ ॥ इति गत्यागती ॥ १३-१४ ॥ लब्ध्या नृत्वादिसामग्री, केचिदासादयन्त्यमी । यावद्दीक्षां भवे गम्ये, न तु मोक्षं स्वभावतः ॥ ३४ ॥ इत्यनन्तराप्तिः ॥ १५ ॥ एकस्मिन् समये सिद्धिर्विकलानां न सम्भवेत् । ग्रामो नास्ति कुत: सीमा, मोक्षो नास्तीति सा कुतः ॥ ३५ ॥ इत्येकसमयसिद्धिः ॥ १६ ॥ कृष्णा नीला च कापोतीत्येषां लेश्यात्रयं स्मृतम् । इति लेश्या ॥ १७ ॥ त्रसनाड्यन्तरे सत्त्वादाहार: षड्दिगुद्भवः ॥ ३६ ॥ इत्याहारदिक् ॥ १८ ॥ एषां संहननं चैकं, सेवार्तं परिकीर्तितम् । इति संहननम् ॥ १९ ॥ मानमायाक्रोधलोभाः, कषाया एषु वर्णिताः ॥ ३७ ॥ इति कषायाः ॥ २० ॥ आहारप्रमुखाः संज्ञाश्चतस्र एषु दर्शिताः । इति संज्ञाः ॥ २१ ॥ यक्षाणां स्पर्शनं जीढत्याख्यातमिन्द्रियं द्वयम् ॥ ३८ ॥ तत् त्र्यक्षचतुरक्षाणां, क्रमाद् घ्राणेक्षणाधिकं । इतीन्द्रियम् ॥ २२ ॥ असत्त्वाद्ध्यक्तसंज्ञानां, ते निर्दिष्टा असंजिनः ॥ ३९ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy