SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ 120 असंख्येयगुणास्तेभ्यः, स्युर्बादरनिगोदकाः । तेभ्यो भूकायिकास्तेभ्यश्चापस्तेभ्यश्च वायवः ॥ ३०० ॥ तेभ्योऽनन्तगुणा: स्थूलाः, स्युर्वनस्पतिकायिका: । सामान्यतो बादराश्चाधिका: पर्याप्तकास्ततः ॥ ३०१ ॥ स्वस्वजातीयपर्याप्तकेभ्योऽसंख्यगुणाधिका: । अपर्याप्ताः स्वजातीयदेहिनः परिकीर्तिताः ॥ ३०२ ॥ यद्बादरस्य पर्याप्तकस्यैकैकस्य निश्रया । असंख्येया: अपर्याप्ता: तज्जातीयाः भवन्ति हि ॥ ३०३ ॥ तथोक्तं प्रज्ञापनायाम् । “पज्जत्तगनिस्साए अपज्जत्तगा वक्कमन्ति । जत्थ एगो तत्थ नियमा असंखेज्जा" । इत्यल्पबहुत्वम् ॥ ३३ ॥ सर्वस्तोका दक्षिणस्यां, भूकाया दिगपेक्षया । उदक् प्राक् च ततः प्रत्यक्, क्रमात्विशेषतोऽधिका: ॥ ३०४ ॥ उपपत्तिश्चात्रयस्यां दिशि घनं तस्यां, बहवः क्षितिकायिकाः । यस्यां च शुषिरं तस्यां, स्तोका एव भवन्त्यमी ॥ ३०५ ॥ दक्षिणस्यां च नरकनिवासा भवनानि च । भूयांसि भवनेशानां, प्राचुर्यं शुषिरस्य तत् ॥ ३०६ ॥ अल्पा उदिच्यां नरका, भवनानीति तत्र ते । घनप्राचुर्यतोऽनल्पा:, स्युर्याम्यदिगपेक्षया ॥ ३०७ ॥ प्राच्यां रविशशिदीपसद्भावात् घनभूरितः । उत्तरापेक्षया तत्र, बहवः क्षितिकायिकाः ॥ ३०८ ॥ प्राक्प्रतीच्यो: रविशशिदीपसाम्येऽपि गौतमः । दीपोऽधिकः प्रतीच्यां स्यात्ततस्तेऽत्राधिकाः स्मृताः ॥ ३०९ ॥ ननु प्रतीच्यामधिको, द्वीपो यथाऽस्ति गौतमः । तथाऽत्र सन्त्यधोग्रामाः, सहस्रयोजनोण्डताः ॥ ३१० ॥ तत्वातपूरितन्यायात्, घनस्य शुषिरस्य च । साम्यात् पृथ्वीकायिकानां, प्रत्यक् प्रचूरता कथम् ॥ ३११ ॥ अत्र उच्यतेयथा प्रत्यगधोग्रामास्तथा प्राच्यामपि ध्रुवम् । ग दिसंभवोऽस्त्येव, किञ्च द्वीपोऽपि गौतमः ॥ ३१२ ॥ वक्ष्यमाणोच्छ्रयायामव्यासः प्रक्षिप्यते धिया । यद्यधोग्रामशुषिरे, तदप्येषोऽतिरिच्यते ॥ ३१३ ॥ एवं च घनबाहुल्यात्, प्रतीच्यां प्रागपेक्षया । पृथ्वीकायिकबाहुल्यं, युक्तमेव यथोदितम् ॥ ३१४ ॥ भवन्त्यप्यकायिका: स्तोका: पश्चिमायां तत: क्रमात् । प्राच्यां याम्यामुदीच्यां च, विशेषेणाधिकाधिकाः ॥ ३१५ ॥ उपपत्तिश्च अत्रप्रतीच्यां गौतमद्वीपस्थाने वारामभावतः । सर्वस्तोका जिनैरुक्ता, युक्तमेवाम्बुकायिकाः ॥ ३१६ ॥ पूर्वस्यां गौतमदीपाभावाद्विशेषतोऽधिकाः । दक्षिणस्यां चन्द्रसूर्यदीपाभावात्ततोऽधिकाः ॥ ३१७ ॥ उदीच्यां मानससरः, सद्भावात्सर्वतोऽधिकाः । अस्ति ह्यस्यां तदसंख्ययोजनायतविस्तृतम् ॥ ३१८ ॥ याम्युदीच्योर्वहिकाया:, स्तोकाः प्रायो मिथ: समा: । अग्न्यारंभकबाहुल्यात्, प्राच्या संख्यगुणाधिका: ॥ ३१९ ॥ तत: प्रतीच्यामधिका, वहयाद्यारंभकारिणाम् । ग्रामेष्वधोलौकिकेषु, बाहुल्याद्धरणीस्पृशाम् ॥ ३२० ॥ पूर्वस्यां मरुतः स्तोकास्ततोऽधिकाधिका मताः । प्रतीच्यामुत्तरस्यां च, दक्षिणस्यां यथाक्रमम् ॥ ३२१ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy