________________
119
इति समयेसिद्धिः ॥ १६ ॥ पृथ्व्यम्बुप्रत्येकतरुष्वाद्यलेश्याचतुष्टयम् । आद्यं लेश्यात्रयं साधारणद्रुमाग्निवायुषु ॥ २८१ ।। चतुर्थलेश्यासम्भवस्तु एवम्तेजोलेश्यावतां येषु, नाकिनां गतिसंभवः । आद्यमन्तर्मुहूर्तं स्यात्तेजोलेश्याऽपि तेषु वै ॥ २८२ ॥ इति लेश्या ॥ १७ ॥ एषां स्थूलक्षमादीनामाहारः षड्दिगुद्भवः । स्थूलानिलस्य त्रिचतुःपञ्चदिसंभवोऽप्यसौ ॥ २८३ ॥ इत्याहारदिक् ॥ १८ ॥ एकोनविंशतितमादीन्येकादश सूक्ष्मवत् । द्वाराणि स्थूलपृथ्व्यादिजीवानां जगुरीश्वरः ॥ २८४ ॥ आद्यं गुणस्थानमेषु, मतं सिद्धान्तिनां मते । कर्मग्रन्थमते त्वाद्यं, तवयं भूजलद्रुषु ॥ २८५ !) स्युस्तथा स्थूलमरुतां, योगा: पञ्च यतोऽधिकौ । एषां वैक्रियतन्मिश्री, त्रयोऽन्येषां च पूर्ववत् ॥ २८६ ॥ एवं द्वाराणि १९-३१ ॥ अङ्गलासंख्यांशमाना, यावन्तोऽशा भवन्ति हि । एकस्मिन् प्रतरे सूचीरूपा लोके घनीकृते ॥ २८७ ॥ तावन्तः पर्याप्ता निगोदप्रत्येकतरुधराश्चाप: । स्युः किञ्चिन्यूनावलिघनसमयमितास्त्वनलजीवा: ॥ २८८ ॥
अत्र च
यद्यपि पूर्वार्धाक्ताश्चत्वारस्तुल्यमानकाः प्रोक्ताः । तदपि यथोत्तरमधिकाः, प्रत्येतव्या असंख्यगुणाः ॥ २८९ ॥ उक्तोऽङ्गुलासंख्यभागो, य: सूचीखण्डकल्पने । तस्यासंख्येयभेदत्वात्, घटते सर्वमप्यदः ॥ २९० ॥ घनीकृतस्य लोकस्यासंख्येयभागवर्तिषु । असंख्यप्रतरेषु स्युः, यावन्तोऽभ्रप्रदेशकाः ॥ २९१ ॥ तावन्तो बादराः पर्याप्तकाः स्युः वायुकायिकाः । इदं प्रज्ञापनावृत्तावाद्याङ्गविवृतौ त्विदम् ॥ २९२ ॥ सुसंवर्तितलोकैकप्रतरासंख्यभागकैः । प्रदेशैः पमिताः स्थूलापर्याप्तक्ष्माम्बुवायवः ॥ २९३ ॥ क्षेत्रपल्योपमासंख्यभागप्रदेशसम्मिताः । पर्याप्ता बादरहविर्भुजः प्रोक्ता: पुरातनैः ॥ २९४ ॥ संवर्तितचतुरस्रीकृतलोकश्रेण्यसंख्यभागगतैः । वियदंशैः पर्याप्तास्तुल्या: प्रत्येकतरुजीवा: ॥ २९५ ॥ संवर्तित चतुरस्रीकृतस्य लोकस्य यः प्रतर एकः । तदसंख्यभागखांशप्रमिता: पर्याप्तबादरनिगोदा: ॥ २९६ ॥ अतःपरं तु ग्रंथद्धयेऽपि तुल्यमेव ॥ बादराः स्थावराः सर्वेऽप्येते पर्याप्तकाः पुनः । स्युः प्रत्येकमसंख्येयलोकाभ्रांशमिताः खलु ॥ २९७ ॥ लोकमानाभ्रखण्डानामनन्तानां प्रदेशकैः । तुल्याः स्थूलानन्तकायजीवा: प्रोक्ता जिनेश्वरैः ॥ २९८ ॥ इति मानम् ॥ ३२ ॥ पर्याप्ता: बादरा: सर्वस्तोकाः पावककायिकाः । असंख्येयगुणास्तेभ्यः, प्रत्येकधरणीरुहः ॥ २९९ ॥