________________
118
इति समुद्घात: ॥ १२ ॥ बादरक्षितिनीराणि, प्रत्येकान्यद्रुमा अपि । मृत्वोत्पद्यन्तेऽखिलेषु, तिर्यक्ष्वेकेन्द्रियादिषु ॥ २६३ ॥ पञ्चाक्षेष्वपि तिर्यक्षु, गर्भसंमूच्छजन्मसु । नरेष्वपि द्विभेदेषु, संख्येयायुष्कशालिषु ॥ २६४ ॥ गच्छतो वद्विवायू तु, सर्वेष्वेषु नरान्विना । तत: पूर्व द्विगतयोऽमी त्वेकगतयः स्मृताः ॥ २६५ ॥ इति गतिः ॥ १३ ॥ एकद्वित्रिचतुरक्षाः, पञ्चाक्षाः संख्यजीविनः । तिर्यञ्चो मनुजाश्चैव, गर्भसंमूर्छनोद्भवाः ॥ २६६ ॥ अपर्याप्ताश्च पर्याप्ताः, सर्वेऽप्येते सुरास्तथा । भवनव्यन्तरज्योतिष्काघकल्पद्धयोद्भवाः ॥ २६७ ॥ मृत्वा प्रत्येकविटपिबादरक्षितिवारिषु । आयान्ति तेषु देवास्तु, पर्याप्तेष्वपरेषु न ॥ २६८ ॥ अपर्याप्तेषु त्रिष्वेषु, निगोदाग्न्यनिलेषु च । उत्पद्यन्ते च पूर्वोक्ताः, प्राणिनो निर्जरान्विना ॥ २६९ ॥ निर्जरोत्पत्तियोग्यानामुक्तः प्रत्येकभूरुहाम् । विशेषः पञ्चमाङ्गस्यैकविंशादिशतद्धये ॥ २७० ॥ शाल्यादिधान्यजातीनां, पुष्पे बीजे फलेषु च । देव उत्पद्यतेऽन्येषु, न मूलादिषु सप्तसु ॥ २७१ ॥ कोरण्टकादिगुल्मानां, देव: पुष्पादिषु त्रिषु । उत्पद्यते न मूलादिसप्तके किल शालिवत् ॥ २७२ ॥ इक्षुवाटिकमुख्यानां, मूलादिनवके सुरः । उत्पद्यते नैव किन्तु, स्कन्धे उत्पद्यते परम् ॥ २७३ ॥
इक्षुवाटिकादयस्त्वमी पञ्चमाङ्गे प्रायो रूढिगम्या: पर्वकविशेषाः ॥ “अह भंते उक्नुवाडियवीरण-इक्कड़-भामास-संवत्त-सत्तवन्न-तिमिर-सेसय-चोरग-तलाण एएसिणं जे जीवा मूलत्ताए वक्कमंति, एवं जहेव वंसवग्गे तहेव एत्थावि मूलादीया दसउद्देसगा ॥ नवरं । खंधुद्देसए देवो
उववज्जइ चत्तारिलेसाओ" ॥ तालप्रभृतिवृक्षाणां, तथैकास्थिकभूरुहाम् । तथैव बहुबीजानां, वल्लीनामप्यनेकधा ॥ २४ ॥ उत्पद्यते प्रवालादिष्वेव पञ्चसु निर्जर: । न मूलादिपञ्चकेऽथ, नोक्तशेषवनस्पतौ ॥ २७५ ॥
तथोक्तम् । “पत्तपवाले पुप्फे फले य बीए य होइ उववाओ । रुक्नेसु सुरगणाणं
पसत्थरसवण्णगंधेसु” ॥ इति भगवतीद्वाविंशशतवृत्तौ ॥ एकसामयिकीसंख्योत्पत्तौ च मरणेऽपि च । विज्ञेया सूक्ष्मवन्नास्ति, विरहोऽत्रापि सूक्ष्मवत् ॥ २७६ ॥ इत्यागतिः ॥ १४ ॥ विपद्यानन्तरभवे, तिर्यक्पञ्चाक्ष्यतां गताः । सम्यक्त्वं देशविरतिं, लभन्ते भूदकद्रुमाः ॥ २७७ ॥ विपद्यानन्तरभवे, प्राप्य गर्भजमर्त्यताम् । सम्यक्त्वं विरतिं मोक्षमप्याप्नुवन्ति केचन ॥ २७८ ॥ विपद्यानन्तरभवे, न लभन्तेऽग्निवायवः । सम्यक्त्वमपि दुष्कर्मतिमिरावृतलोचनाः ॥ २७९ ॥ इत्यनन्तराप्तिः ॥ १५ ॥ पृथ्व्यम्बुकायिका मुक्ति, यान्त्यनन्तरजन्मनि । चत्वार एकसमये, षड् वनस्पतिकायिकाः ॥ २८० ॥