________________
विशेषतश्च - निगोदपवनाग्न्यम्बुभुवः पञ्चाप्यमी द्विधा । सूक्ष्माश्च बादरास्तेऽपि, पर्याप्तान्यभिदा द्विधा ॥ २४८ ॥ एवं विंशतिरप्येते, जघन्योत्कृष्टभूघना । जाताश्चत्वारिंशदेवमथ प्रत्येकभूरुहः ॥ २४९ ॥ पर्याप्तापर्याप्तहीनोत्कृष्टभूघनभेदतः । चतुर्धे वं चतुश्चत्वारिंशदेकेन्द्रियाङ्गिनः ॥२५० ॥ अथावगाहनास्वेषां, तारतम्यमितीरीतम् । पञ्चमाङ्गैकोनविंशशतोद्देशे तृतीयके ॥ २५१ ॥ अपर्याप्तनिगोदस्य, स्यात्सूक्ष्मस्यावगाहना । सर्वस्तोका ततोऽष्टानामसंख्येयगुणा: क्रमात् ॥ २५२ ॥ अपर्याप्तानिलाग्न्यम्बुभुवां सूक्ष्मगरीयसां । ततोऽपर्याप्तयोः स्थूलानन्तप्रत्येकभूरुहोः ॥ २५३ ॥ असंख्येयगुणे तुल्ये, मिथोऽवगाहने लघू । तत: सूक्ष्मनिगोदस्य, पर्याप्तस्यावगाहना ॥ २५४ ॥ असंख्येयगुणा लघ्वी, क्रमात्ततोऽधिकाधिके । अपर्याप्तपर्याप्तस्योत्कृष्टे तस्यावगाहने ॥ २५५ ॥ ततः सूक्ष्मवायुवढ्यम्भोभुवां स्युर्यथाक्रमम् । पर्याप्तानां जघन्याऽपर्याप्तानां च गरीयसी ॥ २५६ ॥ पर्याप्तानां तथोत्कृष्टा, क्रमेणासंख्यसंगुणा । विशेषाभ्यधिका चैव, विशेषाभ्यधिका पुनः ॥ २५७ ॥ एवं स्थूलानिलाग्न्यम्भःपृथ्वीनिगोदिनामपि । प्रत्येकं त्रितयी भाव्याऽवगाहनाभिदां क्रमात् ॥ २५८ ॥ इत्येकचत्वारिंशत्स्युः, किलावगाहनाभिदः । पर्याप्तस्थूलनिगोदज्येष्ठावगाहनावधिः ॥ २५९ ॥ पर्याप्तप्रत्येकतरोर्लज्यसंख्यगुणा ततः । तस्यापर्याप्तस्य गुर्वी, स्यादसंख्यगुणा तत: ॥ २६० ॥ ततोऽसंख्यगुणा तस्य, पर्याप्तस्यावगाहना । सातिरेकं योजनानां, सहस्रं सा यतो भवेत् ॥ २६१ ॥
यत्तु श्रीजिनवल्लभसूरिभिः स्वकृतदेहाल्पबहुत्वोद्धारे अपर्याप्तप्रत्येकतरूकृष्टावगाहनात: पर्याप्ततरूत्कृष्टावगाहना विशेषाभ्यधिका उक्ता, तत् चिन्त्यम् । अङ्गलासंख्येयभागमानापर्याप्तप्रत्येकतरुत्कृष्टावगाहनात: सातिरेकयोजनसहस्रमानाया: पर्याप्तप्रत्येकतरुत्कृष्टावगाहनाया: विशेषाधिकत्वस्यासंगत्वात्, भगवतीसूत्रेण सह विरोधाच्च । तथा च तद्ग्रंथ:
“पत्तेअसरीरबादरवणस्सइकाइयस्स पज्जत्तगस्स जहण्णिआ ओगाहणा असंखेज्जगुणा । तस्स चेव अपज्जत्तगस्स उक्कोसिआ ओगाहणा असंख्रिज्जगुणा । तस्स चेव पज्जत्तगस्स उक्कोसिया ओगाहणा असंख्रिज्जगुणा" । इति भगवती शतक १९ तृतीययोद्देशके ॥ भावार्थस्तु यंत्रकात् ज्ञेयः ॥ - अत्र जीवभेदा: चतुश्चत्वारिंशत् । अवगाहना भेदाश्च त्रिचत्वारिंशदेव । अपर्याप्तबादरनिगोदजघन्यावगाहनाया अपर्याप्तप्रत्येकवनस्पतिजघन्यावगाहनायाश्च मिथस्तुल्यत्वात् ॥ अत एव कोष्ठका: चतुश्चत्वारिंशदङ्गास्त्रिचत्वारिंशदेव । पञ्चमैकचत्वारिंशयोः कोष्ठयोर्दशकस्यैव सद्भावात् । इति
ध्येयम् ॥ इत्यङ्गमानम् ॥ ११ ॥ एषां त्रयः समुद्घाता, आया: स्युर्वेदनादयः । मादीनां तेऽनिलानां तु, चत्वारः स्युः सवैक्रियाः ॥ २६२ ॥