SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ 116 जघन्यादुत्कर्षतश्च, वायोर्यटैक्रियं वपुः । स्यात्तदप्यलङ्गलासंख्यभागमात्रावगाहनम् ॥ २२८ ॥ अङ्गलासंख्यांशमानं, प्रत्येकद्रोर्जघन्यतः । उत्कर्षतो योजनानां, सहस्रं साधिकं वपुः ॥ २२९ ॥ उत्सेधाङ्गुलनिष्पन्नसहस्रयोजनोन्मिते । जलाशये यथोक्ताङ्गाः, स्युलताकमलादयः ॥ २३० ॥ प्रमाणाङ्गलमानेषु, यानि वार्धिहृदादिषु । भौमान्येवान्जानि तानि, विरोध: स्यान्मिथोऽन्यथा ॥ २३१ ॥ तद्यथाउद्वेधः क्व समुद्राणां, प्रमाणाङ्गुलजो महान् । क्च लघून्यजनालानि, मितान्यौत्सेधिताङ्गलैः ॥ २३२ ॥ किंच-शाल्यादिधान्यजातीनां, स्यान्मूलादिषु सप्तसु । धनुःपृथक्त्वप्रमिता, गरीयस्यवगाहना ॥ २३३ ॥ उत्कृष्टैषां बीजपुष्पफलेषु त्ववगाहना । पृथक्त्वमङ्गलानां यत्, प्रोक्तं पूर्वमहर्षिभिः ॥ २३४ ॥ “मूले कन्दे खंधे, तया य साले पवालपत्ते य । सत्तसुवि धणुपुहुत्तं, अंगुल पुप्फफलबीए” ॥ इति भगवती शतक २१ वृत्तौ, तत्सूत्रेऽपि, “सालि कल अयसि, वंसे इख्नु दब्भे अ अब्भ तुलसी य । अद्वैते दसवग्गा, असीति पुण होति उद्देसा” ॥ एकैकस्मिन् वर्ग मूलादयो दशदशोद्देशका इत्यर्थः ॥ सर्वेऽमी शालिवज्ज्येष्ठामिहापेक्ष्यावगाहनाम् । शाल्यादयोऽमी सर्वेऽब्दपृथक्त्वपरमायुषः ॥ २३५ ॥ किंच-“तालेगट्ठिय बहुबीयगा य, गुच्छा य गुम्मवल्ली य । छ दसवग्गा एए, सष्टुिं पुण होति उद्देसा” । तालादीनां ज्येष्ठावगाहना मूलकन्दकिशलेषु । चापपृथक्त्वं पत्रेऽप्येवं, कुसुमे तु करपृथक्त्वं सा ॥ २३६ ॥ स्कन्धशाखात्वचासु स्यात्, गव्यूतानां पृथक्त्वकम् । अङ्गुलानां पृथक्त्वं च, सा भवेत्फलबीजयोः ॥ २३७ ॥ तालादीनां च मूलादिपञ्चकस्य स्थितिर्गुरुः । दशवर्षसहस्राणि, लघ्वी चान्तर्मुहूर्तिकी ॥ २३८ ॥ प्रवालादिपञ्चकस्य, त्वेषामुत्कर्षत: स्थितिः । नव वर्षाणि लघ्वी तु, प्राग्वदान्तर्मुहूर्तिकी ॥ २३९ ॥ तालादयश्च 'तालेतमाले' इत्यादिगाथायुग्मतः ज्ञेयाः ॥ एकास्थिकबहुबीजकवृक्षाणामाम्रदाडिमादीनाम् । मूलादेः दशकस्यावगाहना तालवस्थितिश्चापि ॥ २४० ॥ गुच्छानां गुल्मानां, स्थितिरुत्कृष्टावगाहना चापि । शाल्यादिवदवसेया, वल्लीनां स्थितिरपि तथैव ॥ २४१ ॥ वल्लीनां च फलस्यावगाहना स्यात्पृथक्त्वमिह धनुषाम् । शेषेषु नवसु मूलादिषु तालप्रभृतिवद् ज्ञेया ॥ २४२ ॥ एवं च-अङ्गलासंख्यांशमानमेकाक्षाणां जघन्यतः । उत्कर्षतोऽङ्गमधिकं, योजनानां सहस्रकम् ॥ २४३ ॥ तत्रापि-देहः सूक्ष्मनिगोदानामङ्गलासंख्यभागकः । सूक्ष्मानिलाग्न्यम्बुभुवामसंख्येयगुणः क्रमात् ॥ २४४ ॥ वाय्वादीनां बादराणां, ततोऽसंख्यगुणः क्रमात् । बादराणां निगोदानामसंख्येयगुणस्ततः ॥ २४५ ॥ स्वस्वस्थाने तु सर्वेषामङ्गुलासंख्यभागता । अङ्गुलासंख्यभागस्य, वैचित्र्यादुपपद्यते ॥ २४६ ॥ पर्याप्तानां बादरणां, मरुतां यत्तु वैक्रियम् । जघन्यादुत्कर्षतश्च, तदप्येतावदेव हि ॥ २४७ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy