________________
115
अपर्याप्तानां पञ्चानामप्येषां स्याद्भवस्थिति: । अन्तर्मुहूर्त्तप्रमिता, जघन्यापरमाऽपि च ॥ २०८ ॥ इति भवस्थितिः ॥ ७ ॥ स्थूलक्ष्मादीनां चतुर्णा, स्थूलद्वैधवनस्य च । सप्ततिः कोटिकोट्योऽभ्भोधीनां कायस्थिति: पृथक् ॥ २०९ ॥ ओघतो बादरत्वे सा, बादरे च वनस्पतौ । उत्सर्पिण्यवसर्पिण्योः, यावत्यः ता ब्रवीम्यथ ॥ २१० ॥ अङ्गलासंख्यांशमाननभःस्थाभ्रदेशकैः । प्रतिक्षणं हृतैर्याः स्युः, तावती: ता विचिन्तय ॥ २११ ॥ निगोदे त्वोघत:सूक्ष्मबादरत्वाविवक्षया । द्वौ पुद्गलपरावती, साद्धौ कायस्थिति भवेत् ॥ २१२ ॥ पर्याप्तत्वे क्षमादीनां, प्रत्येकं कायसंस्थितिः । संख्येयाब्दसहस्रात्मा, वहेः संख्यदिनात्मिका ॥ २१३ ॥ विशेषश्चात्रपर्याप्तत्वे बादराया:, क्षिते: कायस्थितिर्भवेत् । वत्सराणां लक्षमेकं, षट्सप्ततिसहस्रयुक् ॥ २१४ ॥ तथाहिभवेदष्टभवान् यावत्, ज्येष्ठायुः क्षितिकायिकः । ज्येष्ठायुष्कक्षितित्वेनोत्पद्यमान: पुन: पुन: ॥ २१५ ॥ यदुक्तं भगवत्याम्-“भवादेसेणं जहण्णेणं दोभवग्गहणाइं, उक्कोसेणं अट्ठभवग्गहणाई” ॥ इति ॥ स्थितिरुत्कर्षतश्चैकभवे प्रोक्ता क्षमाऽङ्गिनाम् । द्वाविंशतिसहस्राब्दलक्षणा परमर्षिभिः ॥ २१६ ॥ अष्टभिर्गुणने चास्पा, भवत्येव यथोदितम् । षट्सप्ततिवर्षसहस्राधिकं वर्षलक्षकम् ॥ २१७ ॥ षट्पञ्चाशद्वर्षसहस्राण्येव जलकायिनाम् । स्युश्चतुर्विंशतीरात्रिंदिवानि वहिकायिनाम् ॥ २१८ ॥ स्युश्चतुर्विंशतिवर्षसहस्राण्यनिलाङ्गिनाम् । अशीतिश्च सहस्राणि, वर्षाणां वनकायिनाम् ॥ २१९ ॥ एषु सर्वेषु परमा, लब्ध्यपर्याप्ततास्थितिः । अन्तर्मुहूर्त्तप्रमिता, वच्मि तत्रापि भावनाम् ॥ २२० ॥ क्षमाद्यन्यतरत्वेनोत्पद्य यद्यल्पजीवितः । असकृत्कोप्यपर्याप्त, एव याति भवान्तरम् ॥ २२१ ॥ भवांश्च तादृशान् कांश्चित्, कुर्यादन्तर्मुहूर्त्तकान् । तैर्लघ्वन्तर्मुहूतैश्च, स्याद् गुर्वन्तर्मुहूर्त्तकम् ॥ २२२ ॥ अन्तर्मुहूर्त्तमानाच, सर्वा एता जघन्यतः । प्ररूपिता: श्रुते कायस्थितय: पुरुषोत्तमैः ॥ २२३ ॥ इति कायस्थितिः ॥ ८ ॥
औदारिकं सतैजसकामणमेतद्धपुस्त्रय ह्येषाम् । मरुतां च वैक्रियायं, चतुष्टयं संभवेद्धपुषाम् ॥ २२४ ॥ इति देहाः ॥ ९॥ मसूरचन्द्रसंस्थानं, बादराणां भुवां वपुः । जलानां स्तिबुकाकारं, सूच्योघाकृति तेजसाम् ॥ २२५ ॥ मरुतां तद् ध्वजाकारं, द्वैधानामपि भूरुहाम् । स्युः शरीराण्यनियतसंस्थानानीति तद्विदः ॥ २२६ ॥ इति संस्थानम् ॥ १० ॥ असंख्येयोऽङ्गुलस्यांशः, मादीनां देहसंमिति: । जघन्यादुत्कर्षतश्च, स एव हि महान् भवेत् ॥ २२७ ॥