SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ 114 योनीनां दशलक्षाणि, स्युः प्रत्येकमहीरुहाम् । साधारणतरुणां च, योनिलक्षाश्चतुर्दश ॥ १९१ ॥ इति योनिः ॥ ४ ॥ द्वादश सप्त त्रीणि च, सप्ताष्टाविंशतिश्च लक्षाणि । कुलकोटीनां पृथ्वीजलाग्न्यनिलभूरुहां क्रमतः ॥ १९२ ॥ एवं च सप्तपञ्चाशल्लक्षाणि कुलकोटयः । एकेन्द्रियाणां जीवानां, संग्रहण्यनुसारतः ॥ १९३ ॥ आचाराङ्गवृत्तौ तु-“कुलकोडि सयसहस्सा, बत्तीसठ्ठनव य पणवीसा । एगिदियबितिइंदियचउरिंदियहरियकायाणम्” ॥ अद्धत्तेरसबारसदसदसनव चेव कोडिलक्खाइं । जलयरपक्खिचउपयउरभुअपरिसप्पजीवाणं ॥ पणवीसं छब्बीसं च, सयसहस्साइं नारयसुराणं । बारस य सयसहस्सा, कुलकोडीणं मणुस्साणं ॥ ___ एवं द्वीन्द्रियादिष्वपि संग्रहण्यभिप्रायेण वक्ष्यमाणासु कुलकोटिसंख्यासु मतान्तरं अत एवाभ्यूह्यम् ॥ तथा लक्षाणि कुलकोटीनां, षोडशोक्तानि तात्त्विकैः । केवलं पुष्पजातीनां, तृतीयोपाङ्गदेशकैः ॥ १९४ ॥ तानि चैवम्चतस्रो लक्षकोट्योऽम्भोरुहाणां जातिभेदतः । कोरिटकादिजातीनां, चतस्रः स्थलजन्मनाम् ॥ १९५ ॥ चतस्रो गुल्मजातीनां, जात्यादीनां विशेषत: । मधूकादिमहावृक्षजानां तत्संख्यकोटयः ॥ १९६ ॥ इति कुलानि ॥ ५॥ मिश्रा सचित्ताऽचित्ता च, योनिरेषां भवेत्रिधा । उष्णाशीतोष्णशीताऽग्निन्, विना ते ह्युष्णयोनयः ॥ १९७ ॥ पञ्चाप्येते विनिर्दिष्टा, जिनैः संवृतयोनयः । उत्पत्तिस्थानमेतेषां, स्पष्टं यन्नोपलक्ष्यते ॥ १९८ ॥ इति योनिसंवृतत्वादि ॥ ६॥ द्वाविंशतिः सहस्राणि, वर्षाणामोघतो भवेत् । पृथ्वीकायस्थितिज्येष्ठा, विशेषस्तत्र दर्श्यते ॥ १९९ ॥ एकं वर्षसहस्रं स्यात्, स्थितिज्येष्ठा मृदुक्षितेः । द्वादशाब्दसहस्राणि, कुमारमृत्तिकास्थितिः ॥ २०० ॥ चतुर्दश सहस्राणि, सिकतायास्तु जीवितम् । मनःशिलायाश्चोत्कृष्टं, षोडशाब्दसहस्रकाः ॥ २०१॥ अष्टादशसहस्राणि, शर्कराणां गुरुस्थितिः । द्वाविंशतिस्सहस्राणि, स्यात्साऽश्मादिखरक्षितेः ॥ २०२ ॥ सप्त वर्षसहस्राणि, ज्येष्ठा स्यादम्भसां स्थिति: । त्रयो वर्षसहस्राश्च, मरुतां परमा स्थितिः ॥ २०३ ॥ अहोरात्रास्त्रयोऽग्नीनां, दशवर्षसहस्रकाः । प्रत्येकभूरुहामन्येषां तु साऽन्तर्मुहूर्त्तकम् ॥ २०४ ॥ अनितेऽन्तर्मुहूर्त च, स्वस्वोत्कृष्टस्थितेः खलु । पञ्चानामप्यमीषां स्यात्, ज्येष्ठा पर्याप्ततास्थितिः ॥ २०५ ॥ अन्तर्मुहूर्त सर्वेषां, यतोऽपर्याप्ततास्थिति: । अन्तर्मुहूर्ते क्षिप्तेऽस्मिन्, स्थितयस्ताः स्युरोघत: ॥ २०६ ॥ पञ्चानामप्यथैतेषां, जघन्यतो भवस्थितिः । अन्तर्मुहूर्तमानैव, दृष्टा दृष्टजगत्त्रयैः ॥ २०७ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy