________________
113
तच्चैवम् । आलोकान्तं दीर्घ सार्धदीपाम्बुधिद्रयविशाले । अधऊर्ध्वलोकान्तस्पृशी कपाटे उभे कल्प्ये ॥ १७२ ॥ तयोः कपाटयो: तिर्यग्लोकेऽन्त्याम्भोधिसीमनि । योजनाष्टादशशतबाहल्ये सर्वतोऽपि हि ॥ १७३ ॥ अपर्याप्तबादराग्नेः, स्थानं स्यादुपपाततः । तिर्यग्लोकं कपाटस्थमेव केऽप्यत्र मन्यते ॥ १७४ ॥ त्रिधाऽबादरापर्याप्ताः, तेजस्कायिकदेहिनः । स्युरेकभविका बद्धायुषश्चाभ्युदितायुषः ॥ १७५ ॥ तत्र येऽनन्तरभवे, उत्पत्स्यन्तेऽग्निकायिषु । अपर्याप्तबादरेषु त, एकभविकाः स्मृताः ॥ १७६ ॥ ये तु पूर्वभवसत्कतृतीयांशादिषु ध्रुवम् । बद्धस्थूलाऽपर्याप्त्याग्न्यायुष्का बद्धायुषश्च ते ॥ १७७ ॥ ये तु पूर्वभवं त्यक्त्वा, साक्षादनुभवन्ति वै । स्थूलापर्याप्तवन्यायुस्ते भवन्त्युदितायुषः ॥ १७८ ॥ तत्रैकभविका बद्धायुषश्च द्रव्यतः किल । स्थूलापर्याप्ताग्नयः स्युः, भावतस्तूदितायुषः ॥ १७९ ॥ अत्र चद्रव्यतो बादराऽपर्याप्ताग्निभिर्नप्रयोजनम् । स्थूलापर्याप्ताग्नयो ये, भावत: तैः प्रयोजनम् ॥ १८० ॥ ततश्चयद्यप्युक्तकपाटाभ्यां, तिर्यग्लोकाच्च ये बहिः । उदितबादरापर्याप्ताग्न्यायुष्का भवन्ति हि ॥ १८१ ॥ तेऽप्युच्यन्ते तथात्वेन, ऋजुसूत्रनयाश्रयात् । तथापि व्यवहारस्य, नयस्याश्रयणादिह ॥ १८२ ॥ ये स्वस्थानसमश्रेणिकपाटद्रयसंस्थिताः । स्वस्थानानुगते ये च, तिर्यग्लोके प्रविष्टकाः ॥ १८३ ॥ ते एव व्यपदिश्यन्तेऽपर्याप्तबादराग्नयः । शेषाः कपाटान्तरालस्थिता नैव तथोदिताः ॥ १८४ ।। ये नाद्याप्यागतास्तिर्यग्लोकेऽथवा कपाटयोः । ते प्राक्तनभवावस्था, एव गण्या मनीषिभिः ॥ १८५ ॥ उक्तं च प्रज्ञापनावृत्तौ“पणयाललखपिहुला, दुन्नि कवाडा य छद्दिसिं पुट्ठा । लोगंते तेसिंतो, जे तेउ ते ऊ धिप्पन्ति” ॥ तत उक्तम्- "उववाएणं दोसु कवाडेसु तिरियलोअतट्टे य” ॥ पृथ्यादिषु चतुर्खेकपर्याप्तनिश्रया मताः । असंख्येया अपर्याप्ता, जीवा वनस्पतेः पुनः ॥ १८६ ॥ पर्याप्तस्यचैककस्य, पर्याप्ता निश्रया स्मृताः । असंख्येयाश्च संख्येया, अनन्ता अपि कुत्रचित् ॥ १८७ ॥ ततश्च–संख्यासंख्यास्तु पर्याप्तप्रत्येकतरुनिश्रया । अनन्ता एव पर्याप्तसाधारणवनाश्रिताः ॥ १८८ ॥ इति बादराणां स्थानानि ॥ २ ॥ पर्याप्तयस्त्रिचतुरा, अपर्याप्तान्यभेदतः । प्राणाश्चत्वारोऽङ्गबलश्वासायूंषि त्वगिन्द्रियम् ॥ १८९ ॥ इति पर्याप्तिः ॥ ३ ॥ पृथ्व्यम्बुसिमरुतां, प्रत्येकं परिकीर्तिताः । योनिलक्षाः सप्त सप्त, सप्तसप्तिसमप्रभैः ॥ १९० ॥