________________
112
तथोक्तम्-“ननु सप्तस्वपि पृथ्वीषु तेजस्कायिकवर्जपृथ्वीकायिकादिस्पर्शा नारकाणां युक्तः, तेषां तासु विद्यमानत्वात् । तेजस्कायस्पर्शस्तु कथम् ? बादरतेजसां समयक्षेत्रे एव सद्भावात् । सूक्ष्मतेजसां पुनस्तत्र सद्भावेऽपि स्पर्शनेन्द्रियाविषयत्वात् इति ॥ अत्रोच्यते । इह तेजस्कायिकस्येव परमाधार्मिकनिर्मितज्वलनसदृशवस्तुनः स्पर्श: तेजस्कायिकस्पर्श: इति व्याख्येयम् । न तु साक्षात्तेजस्कायिकस्यैव ॥ अथवा भवान्तरानुभूततेजस्कायिकपर्यायपृथिवीकायिकस्पर्शापेक्षया
व्याख्येयम्” ॥ इति भगवतीशतक १३ उद्देश ४ वृत्तौ ॥ स्वर्गादौ धूपघट्यादि, श्रूयते यत्किलागमे । तत्तुल्या: पुद्गलास्तेऽपि, कृत्रिमाकृत्रिमात्मकाः ॥ १६३ ॥
एतच्च अर्थतः प्रायः तृतीयतुर्योपाङ्गयोरेव ॥ ग्रन्थान्तरेऽपि- “पंचिंदिय एगिंदिय, उड्ढे य अहे य तिरियलोए य । विगलिंदियजीवा पुण, तिरियलोए मुणेयब्बा ॥ पुढवीआउवणस्सइ, बारसकप्पेसु सत्तपुढवीसु । पुढवी जा सिद्धिसिला, तेऊनरवित्ततिरिलोए ॥ सुरलोअवाविमझे,
मच्छाई नत्थि जलयरा जीवा । गेविज्जे नहु वावी, वाविअभावे जलं नत्थि” ॥ इत्यग्निकायस्थानम् ॥ घनानिलवलयेषु, घनानिलेषु सप्तसु । तनुवातवलयेषु, तनुवातेषु सप्तसु ॥ १६४ ॥ अधोलोके च पातालकुम्भेषु भवनेषु च । छिद्रेषु निष्कुटेष्वेवं, स्वस्थानं वायुकायिनाम् ॥ १६५ ॥ ऊर्ध्वलोके च कल्पेषु, विमानेषु तदालिषु । विमानप्रस्तटच्छिद्रनिष्कुटेषु तदुद्भवः ॥ १६६ ॥ तिर्यग्लोके दिक्षु विदिश्वधश्चौधं च तज्जनिः । जगत्यादिगवाक्षेषु, लोकनिष्कुटकेषु च ॥ १६७ ॥ इति वायुकायस्थानम् ॥ प्रत्येक: साधारणश्च, द्विविधोऽपि वनस्पति: । प्रायोऽप्कायसमः स्थानैः, जलाभावे ह्यसौ कुतः ॥ १६८ ॥ इति वनस्पतिस्थानम् ॥ उपपातसमुद्घातनिजस्थानैः भवन्ति हि । लोकासंख्यातमे भागे, पर्याप्ता बादरा इमे ॥ १६९ ॥
तत्र वायोस्त्वयं विशेषः पञ्चसंग्रहवृत्तौ- बायरपवणा असं सुत्ति ॥ लोकस्य यत्किमपि शुषिरं तत्र सर्वत्र पर्याप्तबादरवायवः प्रसर्पन्ति । यत्पुनरतिनिबिडनिचितावयवतया शुषिरहीनं कनकगिरिमध्यादि तत्र न । तच्च लोकस्यासंख्येयभागमात्रम् । ततः एकमसंख्येयभागं मुक्त्वा शेषेषु सर्वेष्वप्यसंख्येयेषु भागेषु वायवो वर्तन्ते” । इति ॥
पर्याप्तबादरवनस्पतय: उपपातसमुद्घाताभ्यां सर्वलोकव्यापिन: स्वस्थानतो लोकासंख्येयभागे। इति प्रज्ञापनावृत्तौ ॥ अपर्याप्तास्तु सर्वे स्वस्थानैः पर्याप्तसन्निभाः । उपपातसमुद्घातैस्त्वशेषलोकवर्तिनः ॥ १७० ॥ नवरम्-वसिकायस्त्वपर्याप्तस्तिर्यग्लोकस्य तट्टके । उपपातेन निर्दिष्टो, द्धयोर्लोककपाटयोः ॥ १७१ ॥