SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ 111 नानारसाश्च ते सर्वे, ततः पञ्चरसाहताः । संजातः शतमेकं ते, पञ्चसप्ततिसंयुतम् ॥ १४७ ॥ स्पर्शास्तु यद्यप्यष्टापि, संभवन्त्येव वस्तुत: । तथाप्येषां प्रशस्तत्वात्, गृह्यन्ते तेऽपि तादृशाः ॥ १४८ ॥ तल्लघूष्णमृदुस्निग्धैः, स्पर्शैरेते चतुर्गुणाः । शतानि सप्त जातानि गन्धाङ्गानां दिशाऽनया ।। १४९ ।। उक्तं च जीवाभिगमवृत्तौ — “ मूलतयकट्ठनिज्जासपत्तपुप्फफलमाइ गन्धंगा । वण्णादुत्तरभेया गन्धंग सया मुणेयव्वा ” ॥ १६५ ॥ सूत्रालापश्च – “कति णं भंते ! गंधंगा प० ? गोयम ! सत्त गंधंगा सत्तगंधंगसया प० ” । इत्यादि । एवं वल्ल्यादिसूत्रालापा अपि वाच्या: ॥ लोकैश्च–शून्यसप्तांकहस्ताश्वसूर्येन्दुवसुवह्नयः । एतत्संख्यांक निर्दिष्टो वनभारः प्रकीर्तितः ॥ पाठान्तरे च - रामो वसवश्चन्द्रः, सूर्यो भूमिस्तथैव च । मुनिः शून्यं समादिष्टं भारसंख्या निगद्यते ॥ एकैकजातेरेकैकपत्रप्रचयतो भवेत् । प्रोक्तसंख्यैर्मणैर्भारस्ते त्वष्टादश भूरुहाम् ॥ तथा - चत्वारोऽपुष्पका भारा, अष्टौ च फलपुष्पिताः । स्युर्वल्लीनां च षड् भारा:, शेषनागेन भाषितम् ॥ इत्यादि उच्यते ॥ इति बादराणां भेदाः ॥ १॥ प्रसिद्धाः सप्त याः पृथ्व्यः, वसुमत्यष्टमी पुनः । ईषत्प्राग्भाराभिधा स्यात्तासु स्वस्थानतोऽष्टसु ॥। १५० ।। अधोलोके च पातालकलशावलिभित्तिषु । भवनेष्वसुरादीनां नारकावसथेषु च ।। १५१ ।। ऊर्ध्वलोके विमानेषु, विमानप्रस्तटेषु च । तिर्यग्लोके च कूटाद्रिप्राग्भारविजयादिषु ।। १५२ ।। वक्षस्कारवर्षशैलजगतीवेदिकादिषु । द्वारद्वीपसमुद्रेषु, पृथिवीकायिकोद्भवः ।। १५३ ।। इति पृथ्वी कायस्थानानि ॥ " स्वस्थानतोऽम्बुकायानां, स्थानान्युक्तानि सूरिभिः । घनोदधिवलयेषु, घनोदधिषु सप्तसु ।। १५४ ।। अधः पातालकुम्भेषु, भवनेष्वासुरेषु च । ऊर्ध्वलोके विमानेषु, स्वर्गपुष्करणीषु च ॥ १५५ ॥ तिर्यग्लोके च कूपेषु, नदीनदसरस्सु च । निर्झरोज्झरखापीषु, गर्त्ताकेदारपङ्क्तिषु ।। १५६ ।। जलाशयेषु सर्वेषु, शाश्वताशाश्वतेषु च । द्वीपेषु च समुद्रेषु, बादराप्कायसम्भवः ।। १५७ ।। इत्यप्कायस्थानानि ॥ स्वस्थानतोऽग्निकायानां स्थानमाहुर्जिनेश्वराः । नरक्षेत्रं द्विपाथोधिसार्धद्वीपद्वयात्मकम् ।। १५८ ।। तत्रापि काले युगलिनामग्निः, काले च बिलवासिनाम् । विदेहेष्वेव सर्वासु, कर्मभूषु ततोऽन्यदा ।। १५९ ।। किंच- ऊर्ध्वाधोलोकयोर्नायं, तिर्यग्लोकेऽप्यसौ भवेत् । सदा विदेहे भरतैरवतेषु च कर्हिचित् ॥ १६० ॥ पाकदाहादिसंतापं, तनुते नरकेषु यः । स नाग्निः किन्तु तत्तुल्यांस्ते विकुर्वन्ति पुद्गलान् ।। १६१ । या चोष्णवेदना तेषु, श्रूयतेऽत्यन्तदारुणा । पृथिव्यादिपुद्गलानां, परिणामः स तादृश: ।। १६२ ।।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy