SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ 108 प्रत्येकमेषां वृक्षाणां, प्रत्येकासंख्यजीवकाः । मूलकन्दस्कन्धशाखात्वाप्रवाला उदीरिताः ॥ ९७ ॥ पुष्पाण्यनेकजीवानि, एकैकोऽङ्गी दले दले । प्रत्येकमेकजीवानि, बीजानि च फलानि च ॥ ९८ ॥ एक: पूर्णतरुस्कन्धव्यापी भवति चेतनः । मूलादयो दशाप्यस्य, भवन्त्यवयवाः किल ॥ ९९ ॥ तथोक्तं सूत्रकृताङ्गवृत्तौ श्रुतस्कन्ध २ अध्ययन ३ “आहावरमित्याद्यालापकस्यार्थ:-अथापरं एतदाख्यातं, तद् दर्शयति-इहेऽस्मिन् जगत्येके न तु सर्वे, तथाकर्मोदयवर्त्तिनो वृक्षयोनिकाः सत्त्वा भवन्ति । तदवयवाश्रिता: चापरे वनस्पतिरूपा एव प्राणिनो भवन्ति । तथाहि-यो ह्यको वनस्पतिजीव: सर्ववृक्षावयवव्यापी भवति, तस्य चापरे तदवयवेषु मूलकन्दस्कन्धत्वक्शाखाप्रवालपुष्पपत्रफलबीजभूतेषु दशसु स्थानेषु जीवा: समुत्पद्यन्ते ॥ ते च तत्रोत्पद्यमाना वृक्षयोनिका वृक्षव्युत्क्रमाश्चोत्पद्यन्ते” ॥ मूलं स्यात् भूमिसम्बद्धं, तत्र कन्दः समाश्रितः । तत्र स्कन्ध इति मिथो, बीजान्ताः स्युर्युता: समे ॥ १०० ॥ अत: पृथ्वीगतरसमाहरन्ति समेऽप्यमी । यावत् फलानि पुष्पस्थं, बीजानि फलसंगतम् ॥ १०१ ॥ श्रावणादिचतुर्मास्यां, प्रावृड्वर्षासु भूरुहः । सर्वतो बहुलाहारा, अपां बाहुल्यतः स्मृताः ॥ १०२ ॥ ततः शरदि हेमन्ते, क्रमादल्पाल्पभोजिनः । यावद्धसन्तेऽल्पाहारा, ग्रीष्मेऽत्यन्तमिताशनाः ॥ १०३ ॥ यत्तु ग्रीष्मेऽपि द्रुमाः स्युर्दलपुष्पफलाद्भूता: । तदुष्णयोनिजीवानामुत्पादात्तत्र भूयसाम् ॥ १०४ ॥ इति भगवतीसूत्रशतक ७ उद्देश ३ ॥ ननु च-मूलादयो दशाप्येवं, यदि प्रत्येकदेहिभिः । जाता अनेकै स्तत्तस्मिन्नेकमूलादिधीः कथम् ?॥ १०५ ॥ अत्रोच्यते । श्लेषणद्रव्यसंमित्रैर्घटिताने कसर्षपैः । भूरिसर्षपरूपाऽपि, वतिरेकैच भासते ॥ १०६ ॥ यथा ते सर्षपाः सर्वे, स्वस्वमानाः पृथक् पृथक् । वर्तेर्बुद्धिं सृजन्तोऽपि, स्थिताः स्वस्वावगाहना: ॥ १० ॥ तथा प्रत्येकजीवास्ते, पृथक् स्वस्ववपु तः । सृजन्त्येकत्र मिलिता, एकमूलादिवासनाम् ॥ १०८ ॥ इह यद् द्वेषरागाभ्यां, सञ्चितं पूर्वजन्मनि । हेतुरेकत्र सम्बन्धे, तत्कर्म श्लेषणोपमम् ॥ १०९॥ कृतैवंविधकर्माणो, जीवास्ते सर्षपोपमाः । मूलादि वर्तिस्थानीयमिति दृष्टान्तयोजना ॥ ११० ॥ तिलशष्कुलिका पिष्टमयी तिलविमिश्रिता । अनेकतिलजातापि, यथैका प्रतिभासते ॥ १११ ॥ इहापि दृष्टान्तयोजना प्राग्वत् । अथ गुच्छादयः । वृन्ताकीबदरीनीली, तुलसीकरमर्दिकाः । यावासाघाडनिड्य, इत्याद्या गुच्छजातयः ॥ ११२ ॥ मल्लिकाकुन्दकोरिंटयूथिकानवमल्लिकाः । मुद्गर: कणवीरच, जात्याद्या गुल्मजातयः ॥ ११३ ॥ अशोकचम्पकलता, नामपद्मलता अपि । अतिमुक्तकवासन्तीप्रमुखाः स्युलता इमाः ॥ ११४ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy