________________
109
एकैव शाखा यत्स्कन्धे, महत्यूचं विनिर्गता । नैवान्यास्ताशः स स्याल्लताख्यश्चम्पकादिकः ॥ ११५ ॥ कुष्माण्डी त्रपुषी तुम्बी, कालिङ्गी चिर्भटी तथा । गोस्तनी कारवेल्ली च, वल्ल्य: कर्कोटकादिकाः ॥ ११६ ॥ इक्षुः वंश वीरणानि, द्रक्कुडः शर इत्यपि । वेत्र: नडश्च काशश्च, पर्वगा एवमादयः ॥ ११७ ॥ दूर्वादर्भार्जुनैरण्डाः, कुरुविन्दकरोहिषाः । सुकल्याख्यं क्षीरबिसमित्याद्याः तृणजातयः ॥ ११८ ॥ पूगवर्जूरसरला, नालिकेर्यश्च केतकाः । तमालतालकन्दल्यः, इत्याद्याः वलयाभिधाः ॥ ११९ ॥ आर्यकदमनकमरुबकमन्डुकीसर्षपाभिद्यौ शाकौ । अपि तन्दुलीयवास्तुकमित्याद्या हरितका ज्ञेयाः ॥ १२० ॥ औषध्यः फलपाकान्तास्ताः स्फुटा धान्यजातयः । चतुर्विंशतिरुक्तानि, तानि प्राधान्यतः किल ॥ १२१ ॥
___ तथाहि- “धन्नाइं चउव्वीसं, जव गोहुम सालि वीहि सठ्ठिका । कोद्दव अणुया कंगू, रायल तिल मुग्ग मासा य ॥ अयसि हरिमंथ तिउडग, निष्फाव सिलंध रायमासा य । उक्खू
मसूर तुवरी, कुलत्थ तह धन्नय कलाया” ॥ इति ॥ [प्रवचनसारोद्धार श्लोक १००४, १००५] रुहन्ति जलमध्ये ये, ते स्युर्जलरुहा इमे । कदम्बशैवलकशेरुका: पद्मभिदो मता: ॥ १२२ ॥ कुहणा अपि बोधव्या, नामान्तरतिरोहिताः । स्फुटा देशविशेषेषु, चतुर्थोपाङ्गदर्शिताः ॥ १२३ ॥
तद्यथा । से किं तं कुहणा ? कुहणा अणेगविहा पण्णत्ता । तं जहा । आए काए कुहणे कुण्णके दब्बहलिया सप्पाए सज्जाए सत्ताए वंसीणहिया कुरुए । जे यावण्णे तहप्पगारा सेत्तं
कुहणा । इत्यादि ॥ गुच्छादीनां च मूलाद्या, अपि षट् संख्यजीवकाः । सूत्रे हि वृक्षमूलादेरेवोक्ताऽसंख्यजीवता ॥ १२४ ॥
तथोक्तं वनस्पतिसप्ततौ-"रुक्खाणमसंखजिआ, मूला कंदा तया य खंधा य । साला तहा पवाला, पुढो पुढो हुँति नायब्वा ॥ गुच्छाईणं पुण संखजीवया नज्जए इमं पायम् ।
रुक्खाणं चिय जमसंखजीवभावो सुए भणिओ" ॥ अत्रायं विशेष:तालश्च नालिकेरी च, सरलश्च वनस्पति: । एकजीवस्कन्ध एषां, पत्रपुष्पादि सर्ववत् ॥ १२५ ॥ तथा-पञ्चमाङ्गे त्रिधा वृक्षाः, प्रज्ञप्ता गणधारिभिः । अनन्तासंख्यसंख्यातजीवकास्ते क्रमादिमे ॥ १२६ ॥ तत्राद्याः शृंगबेरायाः, कपित्थाम्रादिका: परे । संख्यातजीवका ये च, ज्ञेया गाथादयेन ते ॥ १२७ ॥
तच्चेदम्-"ताले तमाले तक्कलि तेतलिसाले य सालकल्लाणे । सरले जीवड़ केयइ कंदलि तह चम्मरुक्ने य ॥ चुअरुक्खहिंगुरुक्ने लवंगुरुक्ने य होइ बोधब्बे । पूयफलीखज्जूरी बोधव्वा नालिएरी य” ॥ .
तथा प्रज्ञापनावृत्तौ अपि “तालसरलनालिकेरीग्रहणं उपलक्षणम् । तेन अन्येषां अपि यथाऽऽगमं एकजीवाधिष्ठितत्वं स्कन्धस्य प्रतिपत्तव्यम्” । इति ॥ शृङ्गाटकस्य गुच्छः स्यादनेकजीवकः किल । पत्राण्येकैकजीवानि, द्रौ द्वौ जीवौ फलं प्रति ॥ १२८ ॥