SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ 107 येषां मूलकन्दपत्रफलपुष्पत्वचां भवेत् । चक्राकार: समच्छेदो, भङ्गेऽनन्तात्मकं हि तत् ॥ ८० ॥ ग्रन्थिः पर्वात्मिका भङ्गस्थानं सामान्यतोऽथवा । रजसाच्छुरितं यस्य, भङ्गेऽनन्तात्मकं हि तत् ॥ ८१ ॥ केदारशुष्कतरिकापुटवद्भिद्यते च यत् । प्रागुक्तलक्षणाभावेऽप्यनन्तकायिकं हि तत् ॥ ८२ ॥ यदागमः-चक्कागं भज्जमाणसं, गंठीचुण्णघणो भवे । पुढवीसरिसभेएण, अणंतजीवं वियाणाहि ॥ सक्षीरं वापि निःक्षीरं, पत्रं गूढशिरं च यत् । अलक्ष्यमाणपत्रार्धद्वयसन्धि च यद्भवेत् ॥ ८३ ॥ अनन्तजीवं तत्सर्वं, ज्ञेयमित्यादिलक्षणैः । बहुश्रुतेभ्यो ज्ञेयानि, लक्षणान्यपराण्यपि ॥ ८४ ॥ अयोगोलो यथाऽऽमातो, जातस्तप्तसुवर्णरुक् । सर्वोऽप्यग्निपरिणतो, निगोदोऽपि तथाऽङ्गिभिः ॥ ८५ ॥ तत्रापि बादरानन्तकायिकः स्युरनेकधा । मूलकशृंगबेराद्या, प्रत्यक्षा जनचक्षुषाम् ॥ ८६ ॥ तथाहि- सव्वाउ कंदजाई, सूरणकंदो य वज्जकंदो य । अल्लहलिद्दा य तहा, अइं तह अल्लकच्चूरो ॥ सतावरी विराली, कुंआरि तह थोहरी गलोईअ । लसणं वंसकरिल्ला, गज्जरतहलूणओ लोढो ॥ गिरिकन्नि किसलपत्ता, खरिंसुआ थेग अल्लमोत्था य । तह लूणरुक्खछल्ली, खिल्लहडो अमयवल्ली य ॥ मूला तह भूमिरुहा, विरुहा तह टक्कवत्थुलो पढमो । सूअरवल्लो अ तहा, पल्लंको कोमलंबिलिया। आल तह पिंडाल, हवंति एए अणंतनामेहिं । अन्नमणंतं नेयं, लक्खणजुत्तीइ समयाओ ॥ [प्रवचनसारोद्धार श्लो. २३६ थी २४०] अन्ये ऽपि स्नुहीप्रभृतयोऽनन्तकायिका: 'अवए पणए' इत्यादि प्रज्ञापनोक्तवाक्यप्रबन्धतो ज्ञेयाः ॥ इति साधारणवनस्पतिभेदाः ॥ प्रत्येकलक्षणं चैवम्यत्र मूलादिदशके, प्रत्यङ्ग जन्तवः पृथक् । प्रत्येकनामकर्माढ्यास्तत्प्रत्येकमिहोच्यते ॥ ८७ ॥ तथा चाहुर्जीवविचारे- [गाथा-१३] “एगसरीरे एगो, जीवो जेसिं तु ते उ पत्तेया । फलफुल्लछल्लिकट्ठा, मूलग पत्ताणि बीआणि” किंच-मूलादेर्यस्य भग्नस्य, मध्ये हीर: प्रदृश्यते । प्रत्येकजीवं तद्विन्द्याद्यदन्यदपि तादृशम् ॥ ८८ ॥ यत्र मूलस्कन्धकन्दशाखासु दृश्यते स्फुटम् । त्वचा कनीयसी काष्ठात्, सा त्वक् प्रत्येकजीविका ॥ ८९ ॥ तस्य द्वादश भेदाः स्युः, प्रत्येकस्य वनस्पतेः । यथा प्रसिद्धि तान् कांश्चित्, दर्शयामि समासतः ॥ ९० ॥ वृक्षा गुच्छा गुल्मा, लताश्च वल्ल्यश्च पर्वगाश्चैव । तृणवलयहरीतकौषधिजलरुहकुहणाश्च विज्ञेयाः ॥ ९१ ॥ वृक्षास्तत्र दिभेदाः स्युः, फलोद्यद्बीजभेदतः । एकबीजफला: केचित्, भूरिबीजफला: परे ॥ ९२ ॥ अंकुल्लजम्बूनिम्बाम्राः, प्रियालसालपीलव: । सल्लकीशैलुबकुलभिल्लातकबिभीतकाः ॥ ९३॥ हरीतकीपुत्रजीवाः, करजारिष्टकिंशुकाः । अशोकनागपुन्नागप्रमुखा एकबीजकाः ॥ ९४ ॥ कपित्थतिन्दुकप्लक्षधवन्यग्रोधदाडिमाः । कदम्बकुटजा लोध्रः, फणसश्चन्दनार्जुनाः ॥ ९५ ॥ काकोदुम्बरिका मातुलिङ्गस्तिलकसंज्ञकः । सप्तपर्णदधिपर्णप्रमुखा बहुबीजकाः ॥ ९६ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy