________________
106
यदागम:-“सब्बोवि किसलओ खलु उग्गममाणो अणंतओ भणिओत्ति” ॥ अत्र उच्यते-[बृहत्संग्रहणी गा-२] बीजे मूलतयोत्पद्य, बीजजीवोऽथवापरः । करोत्युत्सूनतावस्थां, ततोऽनन्तरभाविनीम् ॥ ६८ ॥ ध्रुवं किसलयावस्थां, सृजन्त्यनन्तजन्तवः । ततश्च तेषु जीवेषु, विनष्टेषु स्थितिक्षयात् ॥ ६९ ॥ स एव मूलजीवस्तां, तनूमनन्तदेहिनाम् । समाप्याद्यस्वांगतया, तावर्द्धयते किल ॥ ७० ॥ यावत्प्रथमपत्रं स्यात्ततश्च न विरुध्यते । किशलेऽनन्तकायित्वमेककर्तृकतापि च ॥७१ ॥ अन्ये तु व्याचक्षतेइह बीजसमुत्सूनावस्थैव प्रतिपाद्यते । प्रथमपत्रशब्देन, तस्याः प्रथममुद्भवात् ॥७२॥ ततश्च-मूलं बीजसमुत्सूनावस्था चेत्येककर्तृके । अनेन चैवं नियमो, लभ्यते सूत्रसूचितः ॥ ७३ ॥ एकजीवकृते एव, मूलं चोत्सूनतादशा । नावश्यं मूलजीवोत्थं, शेषं किसलयादिकम् ॥ ७४ ॥
ततश्चोभयमप्यविरुद्धम् (१) जोऽविय मूले जीवो सोऽविय पत्ते पढमयाएत्ति (२) सब्बोऽवि किसलओ खलु उग्गममाणो अणंतओ भणिओ ॥ इति ॥
एतच्चार्थतः प्रज्ञापनावृत्तौ ॥ आचरांगवृत्तावपि तथैव ॥ यदुक्तम्-“यश्च मूलतया जीव: परिणमते स एव प्रथमपत्रतया अपि इति” । एकजीवकर्तृके मूलप्रथमपत्रे इति यावत् । प्रथमपत्रकं च यासौ बीजस्य समुत्सूनावस्था भूजलकालापेक्षा सैवोच्यते । इति ॥
नियमप्रदर्शनमेतत् ॥ शेषं तु किसलयादिसकलं न मूलजीवपरिणामाविर्भावितमेवेत्यवगन्तव्यम् ॥ उद्गच्छन् प्रथमाङ्करः, सर्वः साधारणो भवेत् । वर्धमानो यथायोगं, स्यात्प्रत्येकोऽथवापरः ॥ ७५ ॥ तत्र साधारणलक्षणं सामान्यत: एवम्शरीरोच्छ्वासनिःश्वासाहाराः साधारणा: खलु । येषामनन्तजीवानां, ते स्युः साधारणाङ्गिनः॥७६॥ विशेषत: तल्लक्षणम् चैवम्मूलादिदशकस्येह, यस्य भङ्गो समो भवेत् । अनन्तजीवं तद् ज्ञेयं, मूलादिदशके खलु ॥ ७७ ॥
वनस्पतिसप्ततौ समभङ्गलक्षणमेवमुक्तम्- "वडिआइ चुन्ननिष्फाइयाइ, वत्तीइ जारिसो भंगो । सब्बत्थ समसरूवो, केआरतरीइ तुल्लो वा ॥ इत्थ पुण विसेसोऽयं, समभंगा हुंति जे सयाकालम् । ते च्चिय अणंत्तकाया, न पुणो जे कोमलत्तेणं” ॥
मूलादिदशकं तु एवम्-मूले कंदे खंधे, तया य साले पवाल पत्ते य । पुप्फे फले बीएविय, पत्तेयं जीवठाणाई ॥ मूलादेर्यस्य भग्नस्य, मध्ये हीरो न दृश्यते । अनन्तजीवं तद् ज्ञेयं, यदन्यदपि तादृशम् ॥ ७८ ॥ हीरो नाम विषमः छेदः उद्दन्तुरो वा ॥ यत्र स्कन्धकन्दमूलशाखासु खलु वीक्ष्यते । त्वचा स्थूलतरा काष्ठात्, सा त्वचाऽनन्तजीविका ॥ ७९ ॥