________________
105
जन्तूत्पत्तिक्षणे पूर्वजन्तुना स्याद्यदुज्झितम् । अत्यक्तयोन्यवस्थं च, तद्बीजं योनिभूतकम् ॥ ४९ ॥ तत्र च-जन्तूज्झितं निश्चयेनाधुना ज्ञातुं न शक्यते । ततोऽनतिशयी बीजं, सचेतनमुतेतरत् ॥ ५० ॥ योनिभूतं व्यवहरेद्यावदध्वस्तयोनिकम् । ध्वस्तयोनित्वजीवत्वादयोनिभूतमेव हि ॥ ५१ ॥ यन्नष्टेऽपि सजीवत्वे, योनित्वं जातुचिद्भवेत् । परिभ्रष्टे तु योनित्वे, सजीवत्वं न सम्भवेत् ॥ ५२ ॥ एवं चउत्पत्तिस्थानकं जन्तोर्यदविध्वस्तशक्तिकम् । सा योनिस्तत्र शक्तिस्तु, जन्तूत्पादनयोग्यता ॥ ५३॥
तथोक्तं प्रज्ञापनावृत्तौ—“अथ योनिरिति किमभिधीयते ? उच्यते । जन्तोरुत्पत्तिस्थानमविध्वस्तशक्तिकं तत्रस्थजीवपरिणमनशक्तिसंपन्नम" । इति ॥ अत एव श्रुतेऽपियवा यवयवाश्चापि, गोधूमव्रीहिशालयः । धान्यानां श्रीजिनैरेषामुक्ता योनिस्त्रिवार्षिकी ॥ ५४ ॥ कलादमाषचपलतिलमुद्गमसूरकाः । कुलत्थतुवरीवृत्तचणका वल्लकास्तथा ॥ ५५ ॥ लट्टातसीशणकङ्गकोरदूषककोद्रवाः । प्रज्ञप्ता योनिरेतेषां, श्रीजिनैः पञ्चवार्षिकी ॥ ५६ ॥ बीजानि मूलकानां सर्षपावरट्टरालकाः । प्रज्ञप्ता योनिरेतेषामागमे सप्तवार्षिकी ॥ ५७ ॥ इयमत्र भावनाकोष्ठकादिषु निक्षिप्यैतेषां पिधानशालिनाम् । लिप्तानां मुद्रितानां चोत्कृष्टैषा योनिसंस्थितिः ॥ ५८ ॥ तदनु क्षीयते योनिरङ्क रोत्त्पत्तिकारणम् । भवेदिजमबीजं तन्नोप्तमरितं भवेत् ॥ ५९॥ अन्तर्मुहूर्तं सर्वेषामेषां योनिर्जघन्यतः । तत्केषाञ्चिदचित्तत्वं, जायतेऽन्तर्मुहूर्ततः ॥६०॥ परं तत्सर्वविद्वेयं, व्यवहारपथे तु न । व्यवहारात्तु पूर्वोक्तैः, कालमानैरचित्तता ॥ ६१ ॥ इदमर्थतः पञ्चमाले प्रवचनसारोद्धारे च ॥ ततश्चबीजे च योनिभूते, व्युत्क्रामति सैव जन्तुरपरो वा । मूलस्य यश्च कर्ता, स एव तत्प्रथमपत्रस्य ॥ ६२ ॥ इयमत्र भावनाबीजस्य निर्वर्तकेन, जीवेन स्वायुषः क्षयात् । यद्बीजं स्यात्परित्यक्तमथ बीजस्य तस्य च ॥ ६३ ॥ अम्बुकालक्ष्मादिरूपसामग्रीसम्भवे सति । स एव जातु बीजाङ्गी, बद्धतादृशकर्मकः ॥ ६४ ॥ उत्पद्यते तत्र बीजेऽन्यो वा भूकायिकादिकः । निबद्धमूलादिनामगोत्रकर्मात्र जायते ॥६५॥ स एव निर्वर्त्तयति, मूलं पत्रं तथाऽऽदिमम् । मूलप्रथमपत्रे च, तत एवैककतृके ॥६६॥ यदागम:- “जोऽविय मूले जीवो सोविय पत्ते पढमयाएत्ति” । अत्राह पर:नन्वेवमादिमदले, मूलजीवकृते सति । उद्गच्छत्किशलेऽनन्तकायिकत्वं विरुध्यते ॥ ६७ ॥