SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 104 दिग्मात्रेणात्र ता एव, दर्श्यन्ते व्यक्तिपूर्वकम् । ततस्तदनुसारेण, ज्ञेयाऽन्येष्वपि चेतना ॥ ३१ ॥ मूले सिक्तेषु वृक्षेषु, फलादिषु रसः स्फुटः । स चोच्छ्वासमन्तरेण, कथमूर्ध्वं प्रसर्पति ॥ ३२ ॥ रसप्रसर्पणं स्पष्टं, सत्युच्छ्वासेऽस्मदादिषु । तदभावे तदभावो, दृष्टश्च मृतकादिषु ॥ ३३ ॥ अन्वयव्यतिरेकाभ्यां, ततो रसप्रसर्पणम् । उच्छ्वासमाक्षिपति यत्, व्याप्यं न व्यापकं विना ॥ ३४ ॥ उच्छ्वासश्चात्मनो धर्मो, निर्विवादमिदं खलु । धर्मश्च धर्मिणं ब्रूते, स्वाविनाभावतः स्फुटम् ॥ ३५॥ किं च दृश्यते दोहदोत्पत्तिद्गुणामपि नृणामिव । यत्तत्प्राप्य फलन्त्येते, हृष्टाः शुष्यन्ति चान्यथा ॥ ३६॥ दोहदश्चात्मनो धर्मः, कथं नात्मानमाक्षिपेत् । इच्छारूपो दोहदो हि, नेच्छावन्तं विना भवेत् ॥ ३७ ॥ संज्ञा नियतसंकोचविकासप्रमुखा अपि । संज़िनं कथमात्मानं, न ज्ञापयन्ति युक्तिभिः ॥ ३८ ॥ यद्धा तारतम्यमेवं, द्रुमेष्वपि नरेष्विव । केऽप्येरण्डादिवन्नीचा:, केऽप्याम्रादिवदुत्तमाः ॥ ३९ ॥ उत्कटा: कण्टकैः केचित्, केचिदत्यन्तकोमला: । कुटिला: केऽपि सरलाः, कुन्जा दीर्घाश्च केचन ॥ ४०॥ हृद्यवर्णगन्धरसस्पर्शाः केचित्ततोऽन्यथा । सविषा निर्विषा: केऽपि, सफला निष्फला: परे ॥ ४१ ॥ जाता: केचिदवकरे सूद्यानादौ च केचन । केचिच्चिरायुषः शस्त्राद्यैः केचित्क्षिप्रमृत्यवः ॥ ४२ ॥ विना कर्माणि नानात्वमिदं युक्तिसहं कथम् । विना कारणनानात्वं, कार्ये तद्धि न सम्भवेत् ॥ ४३ ॥ कर्माणि च कार्यतयाऽऽत्मानं कर्तारमेव हि । आक्षिपन्त्यविनाभूताः, कुलालं कलशा इव ॥ ४४ ॥ वनस्पतेः सात्मकत्वं, स्फुटमेव प्रतीयते । जन्यादिधर्मोपेतत्वात् मनुष्यादिशरीरवत् ॥ ४५ ॥ अनुमानं पुरस्कृत्य, साधयत्यागमोऽपि च । वनस्पतेः सचैतन्यमाचाराङ्गे यथोदितम् ॥ ४६ ॥ इमंपि जाइधम्मयं एयंपि जाइधम्मयं । इमंपि बुड्डिधम्मयं एयंपि बुड्डिधम्मयं । इमंपि चित्तमंतयं एयंपि चित्तमंतयं । इमंपि छिन्नं मिलायइ एयंपि छिन्नं मिलायइ । इमंपि आहारगं एयंपि आहारगं । इमंपि अणिच्चयं एयंपि अणिच्चयं । इमंपि असासयं एयंपि असासयं । इमंपि चओवचइयं एयंपि चओवचइयं । इमंपि विपरिणामधम्मयं एयंपि विपरिणामधम्मयं" । इत्यादि ॥ (अत्रैकं इदंशब्दवाच्यं मनुष्यशरीरं द्वितीयं च एतच्छब्दवाच्यं वनस्पति शरीरम् । इत्यनयोः दृष्टान्तदाान्तिकयोजना) वनस्पतेः सचैतन्यमेवं सिद्धं नराङ्गवत् । ततोऽस्य योनिजातत्वमपि सिद्धं तदुच्यते ॥ ४७ ॥ तथाहिबीजस्य द्विविधावस्था, योन्यवस्था तथाऽपरा । तन्मध्ये योन्यवस्था या, सा चैवं परिभाव्यते ॥ ४८॥ १. परिणामान्तरसद्भावे सतीतिविशेष्यं, तेन न जलाकर्षकवस्त्रादिना व्यभिचारः । २. विद्युच्छक्त्योस्तु संयोग: न तु दोहदः । ३. विचित्रकर्मवेदका वनस्पतय: जीववत्त्वे सति विचित्राकारधारित्वात् वामनेतरनरादिवत् ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy