SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ 103 चत्वारिंशत् खरायाश्च, भेदा: प्रज्ञापिताः क्षितेः । अष्टादश मणीभेदास्तथा द्वाविंशति: परे ॥ ८॥ गोमेधकाइस्फटिकलोहिताक्षा हरिन्मणिः । षष्ठो मसारगल्ल: स्यात्सप्तमो भुजमोचकः ॥९॥ इन्द्रनीलश्चन्दनश्च, गैरिको हंसगर्भकः । सौगन्धिकश्च पुलकस्ततश्चन्द्रप्रभाभिधः ॥ १० ॥ वैडूर्यं जलकान्तश्च, रुचकार्कोपलाविति । खरक्ष्माया एव भेदानन्यान् द्राविंशतिं ब्रुवे ॥ ११ ॥ भूर्नदीतटभित्त्यादेः, शर्करोपलकर्कराः । सिकता: सूक्ष्मकणिकाः, उपला लघवोऽश्मकाः ॥ १२ ॥ शिला महान्ती क्षाराभूरुषो लवणमब्धिजम् । सुवर्णरुप्यताम्रायस्त्रपुसीसकधातवः ॥ १३ ॥ वज्रं च हरितालच, हिङ्गलश्च मन:शिला । प्रवालं पारदश्चापि, सौवीराभिधमञ्जनम् ॥ १४ ॥ पटलं पुनरभ्राणां तथा तन्मिश्रवालुका: । अन्येऽप्येवंविधा ग्राह्या, जेयावण्णेतिवाक्यत: ॥ १५ ॥ इत्यर्थत: प्रज्ञापनावृत्तौ ॥ इति पृथ्वीकायभेदाः ॥ जलभेदा जलं शुद्धं, शीतमुष्णं स्वभावतः । क्षारमीषदतिक्षारमम्लमीषत्तथाधिकम् ॥ १६ ॥ हिमावश्यायकरका, धूमरी क्ष्मान्तरिक्षजम् । क्ष्मामुद्भिद्य तृणाग्रस्थं, नाम्ना हरतनूदकम् ॥ १७ ॥ घृतेक्षुवारुणीदुग्धोदकं तत्तद्रसाङ्कितम् । घनोदध्यादयश्चास्य, भेदा येऽन्येऽपि तादृशाः ॥ १८ ॥ इत्यप्कायभेदाः ॥ शुद्धाग्निरशनिाला, स्फुलिङ्गाङ्गारविद्युतः । अलातोल्कामुर्मुराख्या, निर्घातकणकाभिघाः ॥ १९ ॥ काष्टसंघर्षसम्भूतः, सूर्यकान्तादिसम्भवः । वतिभेदा अमी ग्राह्या, ये चान्येऽपि तथाविधाः ॥ २० ॥ इत्यग्निभेदाः ॥ प्राच्योदीच्यप्रतीचीनदाक्षिणात्या विदिग्भवाः । अर्वाध: सम्भवा वाता, उद्भ्रामोत्कलिकानिलाः ॥ २१ ॥ गुंजाझंझाख्य संवर्ता, वातो मंडलिकाभिघः । घनवातस्तनुवातस्तत्रोद्भ्रामोऽनवस्थितः ॥ २२ ॥ लहर्य इव पाथोधेर्वातस्योत्कलिकास्तु याः । रेणुकासु स्फुटव्यंग्यास्तदानुत्कलिकानिलः ॥ २३॥ गुञ्जन् सशब्दं यो वाति, स गुञ्जावात उच्यते । झंझानिलो वृष्टियुक्तः, स्यादा योऽत्यन्तनिष्ठुरः ॥ २४ ॥ आवर्तकस्तृणादीनां, वायुः संवर्तकाभिधः । मंडलाकृतिरामूलात्, मंडलीवात उच्यते ॥ २५ ॥ घनो घनपरीणामो, धराद्याधार ईरितः । विरलः परिणामेन, तनुवातस्ततोऽप्यधः ॥२६॥ मन्दमन्दं च यो वाति, शीत: स्पर्शसुखावहः । स उच्यते शुद्धवात, इत्याद्याः स्युर्मरूद्भिदः ॥ २७ ॥ इति वायुकायभेदाः ॥ क्रमप्राप्ता निरूप्यन्ते, भेदा अथ वनस्पतेः । साधारणस्य प्रत्येकवपुषश्च यथाक्रमम् ॥ २८ ॥ स्थावराणां सात्मकत्वमनङ्गीकुर्वत: प्रति । आदौ वनस्पतिद्वारा, स्पष्टं तदुपपाद्यते ॥ २९ ॥ पृथ्यादीनां सात्मकत्वे, युक्तियुक्तेऽपि युक्तयः । वनस्पतेः सात्मकत्वे, गम्या: स्थूलदृशामपि ॥ ३० ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy