SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ 102 तच्च सूक्ष्म:मादिजन्तोः, सूक्ष्मस्थूलवनस्पतौ । गत्वा स्थित्वाऽनन्तकालं, सूक्ष्मक्ष्मादित्वमीयुषः ॥ १४४ ॥ वनस्पतेश्च सूक्ष्मस्यान्तरमुत्कर्षतो भवेत् । कालचक्राण्यसंख्येयलोकमानानि पूर्ववत् ॥ १४५ ॥ तच्च सूक्ष्मक्ष्मादितयोत्पद्य सूक्ष्मवनस्पतेः । स्थित्वोक्तकालं पुनरप्युत्पन्नस्य वनस्पतौ ॥ १४६ ॥ न सम्भवति चैतेषामनन्तकालमन्तरम् । विना वनस्पतीन् कुत्राप्यनन्तस्थित्यभावतः ॥ १४७ ॥ जघन्यमन्तरं त्वेषामन्तर्मुहूर्तमीरितम् । क्ष्मादिष्वन्तर्मुहूर्तं तत्, स्थित्वोत्पत्तौ भवेदिह ॥ १४८ ॥ इत्यन्तरम् ॥ ३५ ॥ प्रायो भवसंवेधो, महाल्पबहुता त्वनेकजीवानाम् । वक्तव्ये इत्युभयं, वक्ष्ये जीवप्रकरणान्ते ॥ १४९ ॥ वर्णिता: किमपि सूक्ष्मदेहिनः, सूक्ष्मदर्शिवचनानुसारतः । यत्तु नेह कथितं विशेषतः, तद् बहुश्रुतगिराऽवसीयताम् ॥ १५० ॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनय: श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्वप्रदीपोपमे सो निर्गलितार्थसार्थसुभग: पूर्णश्चतुर्थः सुखम् ॥ १५१ ॥ .. ॥ इति श्री लोकप्रकाशे चतुर्थः सर्गः समाप्त: ॥ अथ पञ्चमः सर्गः । वर्ण्यन्तेऽथ क्रमप्राप्ता, बादरैकेन्द्रियाङ्गिनः । ते च षोढा पृथिव्यम्बुतेजोऽनिलास्तथा द्रुमाः ॥ १॥ प्रत्येका: साधारणाश्च, षडप्येते द्विधा मता: । पर्याप्तापर्याप्तभेदादेवं द्वादश बादराः ॥२॥ बादराख्यनामकर्मोदयाये स्थूलतां गताः । चर्मचक्षुर्दृश्यमाना, बादरास्ते प्रकीर्तिताः ॥३॥ तत्र च-अपर्याप्तास्त्वविस्पष्टवर्णाद्या अल्पजीवनात् । पर्याप्तानां च वर्णादिभेदैर्भदाः सहस्रशः ॥ ४॥ बादरा पृथिवी द्वेधा, मृदुरेका खराऽपरा । भेदाः सप्त मृदस्तत्र, वर्णभेदविशेषजाः ॥५॥ कृष्णा नीलाऽरुणा पीता, शुक्लेति पञ्च मृद्भिदः । षष्ठी देशविशेषोत्था, मृत्स्ना पाण्डुरिति श्रुता ॥६॥ नद्यादिपूरापगमे, देशे तत्रातिपिच्छिले । मृदुश्लक्ष्णा पङ्करूपा, सप्तमी पनकाभिधा ॥ ७ ॥ इत्यर्थतः प्रज्ञापनावृत्तौ ॥ __ उत्तराध्ययनवृत्तौ तु–“पांडुत्ति” ॥ पाण्डु पाण्डुरा, इषच्छूक्लत्ववतीत्यर्थः । इति वर्णभेदेन षड्विधत्वमुक्तम् ॥ इह च पाण्डुरग्रहणं कृष्णादिभेदानामपि स्वस्थाने भेदान्तरसम्भवसूचकम् । पनकोऽत्यन्तसूक्ष्मरजोरूप: स एव मृत्तिका पनकमृत्तिका । पनकस्य च नभसि विवर्त्तमानस्य लोके पृथ्वीत्वेन रूढत्वादभेदेनोपादानम् ॥ इत्याद्युक्तम् ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy