________________
101
अयं भावः-लोकाकाशप्रदेशेषु, निगोदसत्कजन्तुषु । प्रत्येकं स्थाप्यमानेषु, पूर्यतेऽसावनन्तशः ।। १२७ ।। तत्रापि-बादरसाधारणेभ्यः, पर्याप्तेभ्यो भवन्ति हि । अपर्याप्ताबादरास्ते, असंख्येयगुणाधिकाः || १२८ ।। बादरापर्याप्तकेभ्यः, सूक्ष्मपर्याप्तका इमे । असंख्येयगुणास्तेभ्यः, सूक्ष्मपर्याप्तकास्तथा ।। १२९ ।। इति मानम् ॥ ३२ ॥
सूक्ष्मास्तेजस्कायिकाः स्युः, सर्वस्तोकास्ततः क्रमात् । सूक्ष्मक्षमाम्बुमरुतो, विशेषाभ्यधिकाः स्मृताः ॥ १३० ॥ असंख्येयलोकमाननभःखण्डप्रदेशकैः । तुल्याः सर्वेऽप्यमी किन्तु यथोत्तराधिकाधिकाः || १३१ ॥ असंख्येयगुणाः सूक्ष्मवायुभ्यः स्युर्निगोदकाः । असंख्येयप्रमाणत्वादेतेषां प्रतिगोलकम् ।। १३२ ।। तेभ्योऽनन्तगुणाः सूक्ष्माः, स्युर्वनस्पतिकायिकाः । तेभ्यः सामान्यतः सूक्ष्मा, विशेषाभ्यधिकाः स्मृताः ॥ १३३ ॥ स्वस्वजातिष्वपर्याप्तकेभ्योऽसंख्यगुणा मताः । पर्याप्तका यदेतेऽन्यापेक्षयाऽधिकजीविनः ।। १३४ ।। उत्पद्यन्ते तथैकेकापर्याप्तकस्य निश्रया । पर्याप्तका असंख्येयास्ततोऽमी बहवो मताः ।। १३५ ।। तथोक्तमाचाराङ्गवृत्तौ — “ सूक्ष्मा अपि पर्याप्तकापर्याप्तकभेदेन द्विधैव । किन्तु अपर्याप्तकनिश्रया पर्याप्तकाः समुत्पद्यन्ते । यत्र चैकोऽपर्याप्तकस्तत्र नियमादसंख्येयाः पर्याप्ताः ” । इति ॥
अत एवैकेन्द्रियाः स्युः, सामान्यतो विवक्षिताः । पर्याप्ता एव भूयांसो, जीवा अप्योघतस्तथा ॥ १३६ ॥ इति लघ्व्यल्पबहुता ॥ ३३ ॥
दिशामपेक्षया त्वल्पबहुतैषां न सम्भवेत् । अमी प्रायः सर्वलोकापन्नाः सर्वत्र यत्समाः ॥ १३७ ॥ तथोक्तं प्रज्ञापनावृत्तौ — “ इदं ह्यल्पबहुत्वं बादरानधिकृत्य दृष्टव्यं न सूक्ष्मान् । सूक्ष्माणां सर्वलोकापन्नानां प्रायः सर्वत्र समत्वात् ” ॥
इति दिगपेक्षयाऽल्पबहुता ॥ ३४ ॥
ओघतः सूक्ष्मजीवानामन्तरं यदि चिन्त्यते । अन्तर्मुहूर्तं सूक्ष्मत्वे, जघन्यं कथितं जिनैः ॥ १३८ ॥ यदुत्पद्य बादरेषु, सूक्ष्मः संत्यज्य सूक्ष्मताम् । स्थित्वा तत्रान्तर्मुहूर्तं पुनः सूक्ष्मत्वमाप्नुयात् ।। १३९ ।। उत्कर्षतः कालचक्राण्यसंख्येयानि तानि च । निष्पाद्यान्यङ्गुलासंख्यांशस्थखांशमितैः क्षणैः ॥ १४० ॥ अयं भाव:
एकस्मिन्नङ्गुलासंख्यभागे येऽभ्रप्रदेशकाः । यावन्ति कालचक्राणि, हृतैस्तैः स्युः प्रतिक्षणम् ॥ १४१ ॥ उत्कर्षतो बादरत्वे, तावती वर्णिता स्थितिः । तां समाप्य पुनः सौक्ष्म्यप्राप्तौ युक्तमदोऽन्तरम् ॥ १४२ ॥ सूक्ष्मक्ष्माम्भोऽग्निमरुतामिह प्रत्येकमन्तरम् । लघु स्यादन्तर्मुहूर्त्तमनन्ताद्धामितं गुरुः ॥ १४३॥
१. असंख्यध्नाः सूक्ष्मपर्याप्तकाः संख्यगुणास्ततः इतिपाठः