________________
100
इति संहननानि ॥ १९ ॥ सर्वे कषायाः संज्ञास्तु, स्युश्चतस्त्रोऽथवा दश । इन्द्रियं चैकमाख्यातमेतेषां स्पर्शनेन्द्रियम् ॥ ११२ ॥ इति द्वारत्रयम् ॥ ॥ २०-२१-२२ ॥ भूतभाविभवद्भावस्वभावालोचनात्मिका । संज्ञा नैकेन्द्रियाणां स्यात्तदेतेऽसंज्ञिनः स्मृताः ॥ ११३ ॥ इति संज्ञिता ॥ २३ ॥ अमी जिनेश्वरैः क्लीबघेदा एव प्रकीर्तिताः । वेदस्त्वव्यक्तरूप: स्यादेषां संज्ञाकषायवत् ॥ ११४ ॥ इति वेदः ॥ २४ ॥ संक्लिष्टपरिणामत्वात्सर्वैकेन्द्रियदेहिनाम् । मिथ्यादृष्टय एवामी, निर्दिष्टाः परमेष्ठिभिः ॥ ११५ ॥ इति दृष्टिः ॥ २५ ॥ मत्यज्ञानश्रुताज्ञाने, सूक्ष्मैकेन्द्रियदेहिनाम् । ते अप्यत्यन्तमल्पिष्टे, शेषजीवव्यपेक्षया ॥ ११६ ॥ इति ज्ञानम् ॥ २६ ॥ चतुषु दर्शनेष्वेषामचक्षुदर्शनं भवेत् । उपयोगास्त्रयोऽज्ञानद्वयमेकं च दर्शनम् ॥ ११७ ॥ निराकारोपयोगाः स्युरचक्षुर्दर्शनाश्रयात् । यज्ञानतस्तु साकारोपयोगा: सूक्ष्मदेहिनः ॥ ११८ ॥ इति द्वारद्वयम् ॥ २७-२८ ॥ आहारका सदाप्येते, स्युर्विग्रहगतिं विना । तस्यां त्वनाहारका अप्येते त्रिचतुरान् क्षणान् ॥ ११९ ॥ एषामुत्पन्नमात्राणामोज आहार ईरितः । लोमाहारस्ततो ढेधाप्यनाभोगज एव च ॥ १२० ॥ सचित्तः स्यादचित्तः स्यादुभयात्मापि कर्हिचित् । आहारे चान्तरं नास्ति, सदाहारार्थिनो ह्यमी ॥ १२१ ॥
तथोक्तं प्रज्ञापनायाम्-“पुढवीकाइयस्स णं भंते ! केवइकालस्स आहारट्टे समुष्पज्जइ ॥
गोअम ! अणुसमयं अविरहिए । एवं जाव वणस्सइकाइया” ॥ इति ॥ इत्योहारकत्वम् ॥ २९ ॥ आद्यमेव गुणस्थानमेकं सूक्ष्मशरीरिणाम् । अनाभोगिकमिथ्यात्ववतामेषां निरूपितम् ॥ १२२ ॥ इति गुणाः ॥ ३० ॥ दशानामपि सूक्ष्माणां, त्रयो योगा: प्रकीर्तिताः । औदारिकस्तन्मिश्रश्च कार्मणश्चापि विग्रहे ॥ १२३ ॥ इति योगाः ॥ ३१ ॥ असंख्येयलोकमाननभ:खण्डप्रदेशकैः । तुल्या: सूक्ष्माग्निपृथव्यम्बुमरुतः किन्तु तत्र च ॥ १२४ ॥ लोकाकाशमिता: खण्डा, असंख्येया अपि क्रमात् । अन्यादिषु भूरिभूरितरभूरितमा मताः ॥ १२५ ॥ पर्याप्तापर्याप्तसूक्ष्मबादरानन्तकायिका: । चत्वारोऽपि स्युरनन्तलोकाकाशांशसम्मिता: ॥ १२६ ॥