SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ 99 इति गतिः ॥ १३ ॥ उत्पद्यन्ते च पूर्वोक्ताः, सूक्ष्मैकाक्षेषु तेऽखिलाः । स्वस्वकर्मानुभावेन गरिष्ठेन वशीकृताः ॥ ९४ ॥ नारका निर्जरास्तिर्यग्नराश्चासंख्यजीविनः । नैषां सूक्ष्मेषु गमनं, न चाप्यागमनं ततः ।। ९५ । गतिष्वेवं चतसृषु, संक्षेपात्ते विवक्षिताः । द्विगतयो दयागतयो भवन्ति सूक्ष्मदेहिनः ॥ ९६ ॥ तेजोऽनिलौ तु नृभवे, नोत्पद्येते स्वभावतः । ततस्त एकगतयः प्रोक्ता दयागतयोऽपि च ।। ९७ ।। सूक्ष्मेषु पृथ्वीसलिलतेजोऽनिलेषु जन्तवः । उत्पद्यन्ते च्यवन्ते च, असंख्येया निरन्तरम् ॥ ९८ ॥ वनस्पतौ त्वनन्तानामुत्पत्तिविलयौ सदा । स्वस्थानतः परस्थानात्त्वसंख्यानां गमागमौ ॥ ९९ ॥ एकस्यापि निगोदस्यासंख्यांशोऽनन्तजीवकः । जायते म्रियते शश्वत् किं पुनः सर्वमीलने ॥ तथाहि - विवक्षितनिगोदस्य, विवक्षितक्षणे यथा । असंख्येयतमो भाग, एक उद्धर्त्तते ध्रुवम् उत्पद्यतेऽन्यस्तथैव, द्वितीयसमयेऽपि हि । एक उद्वर्त्तते संख्यभाग उत्पद्यतेऽपरः ॥ उद्धर्त्तनोपपातावित्येवं स्यातां प्रतिक्षणम् । यथैकस्य निगोदस्यासंख्यभागस्य सर्वदा ॥ १०३ ॥ तथैवान्यनिगोदानामपि त्रैलोक्यवर्त्तिनाम् । उद्धर्त्तनोपपातौ स्तोऽसंख्यांशस्य पृथक् पृथक् ॥ १०४ ॥ उद्धर्त्तनोपपाताभ्यां भवद्भ्यामित्यनुक्षणम् । परावर्त्तन्ते निगोदा, अन्तर्मुहूर्त्तमात्रतः ॥ १०५ ॥ जायामानैम्रियमाणैरन्तर्मुहूर्त्तजीविभिः । निगोदिभिर्नवनवैः स्युः शून्यास्तु मनाग् न ते ।। १०६ ।। १०० ॥ ॥ १०२ ॥ तथोक्तं — “ एगो असंखभागो, वट्टइ उव्वट्टणोववायंमि । एगनिगोए निच्चं, एवं सेसेसु वि स एवम् ” ॥ अंतोमुहूत्तमित्ता, ठिई निगोआण जं विणिद्दिट्ठा | पल्लट्टेति निगोआ, तम्हा अंतोमुहूत्तेणं ॥ [ प्राचीन गाथा ] एषामुत्पत्तिमरणे, विरहस्तु न विद्यते । यज्जायन्ते म्रियन्ते चासंख्यानन्ता निरन्तरम् ॥ १०७ ॥ इति आगतिः ॥ १४ ॥ अनन्तराप्तिः समये, सिद्धिर्बादवबुधैः । ज्ञेयैषां प्राच्यशास्त्रेषु, विभागेनाविवक्षणात् ॥ १०८ ॥ इति द्वारद्वयम् ।। १५–१६ ।। कृष्णा नीला च कापोती, लेश्यात्रयमिदं भवेत् । सर्वेषां सूक्ष्मजीवानामित्युक्तं सूक्ष्मदर्शिभिः ।। १०९ ।। इति लेश्या: ॥ १७ ॥ निर्व्याघातं प्रतीत्यैषामाहारः षड्दिगुद्भवः । भवेद्वयाघातमाश्रित्य, त्रिचतुष्पञ्चदिग्भवः ।। ११० ।। इत्याहारदिक् ॥ १८ ॥ न संहननमेतेषां सम्भवत्यस्थ्यभावतः । मतान्तरेण चैतेषां, सेवार्त्तं तदुरीकृतम् ।। १११ ।। " १०१ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy