SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ 98 कालचक्राण्यसंख्यानि, भवन्त्येतानि संख्यया । कालतो हि सूक्ष्मतरं, क्षेत्रमाहुर्जिनेश्वराः ॥ ७८ ॥ यतोऽङ्गुलमिताकाशश्रेण्या अभ्रप्रदेशकाः । गण्यमाना: समानाः स्युरसंख्योत्सर्पिणीक्षणैः ॥ ७९ ॥ यदाहुः- “सुहुमो य होइ कालो, तत्तो सुहुमयरं इवइ खित्तम् । अंगुलसेढीमित्ते, ओसप्पिणिओ असंखिज्जा” ॥ [विशेषावश्यक श्लो. ६२४] सूक्ष्मक्ष्माम्भोऽग्निमरुतां, कालत: क्षेत्रतोऽपि च । स्यात्कायस्थितिरेषैव, सूक्ष्मत्वेऽपि तथौघतः ॥ ८० ॥ एकेन्द्रियत्वतिर्यक्त्वासंज्ञित्वेषु प्रसङ्गतः । वनस्पतित्वे क्लीबत्वे, कायस्थितिमथ ब्रुवे ॥ ८१ ॥ आवल्यसंख्यभागस्य, यावन्तः समयाः खलु । स्युः पुद्गलपरावर्त्तस्तावन्त: कायसंस्थितिः ॥ ८२ ॥ सर्वेषामियमुत्कृष्टा, कायस्थितिरुदाहृता । जघन्या तु भवेदन्तर्मुहूर्तमविशेषतः ॥ ८३ ॥ इति कायस्थितिः ॥ ८ ॥ तैजसं कार्मणं चौदारिकं चेति वपुस्त्रयम् । पृथ्व्यादिसूक्ष्मजीवानां, प्रज्ञप्तं परमेष्ठिभिः ॥ ८४ ॥ निगोदानां त्वनन्तानामेकमौदारिकं वपुः । सर्वसाधारणं दे च परे प्रत्येकमीरिते ॥ ८५ ॥ इति देहाः ॥ ९ ॥ एकेन्द्रियाणां संस्थानं, सर्वेषां हुंडमीरितम् । तत्राप्येष विशेषस्तु दृष्टो दृष्टजगत्त्रयैः ॥ ८६ ॥ मसूरचन्द्रसंस्थाना, सूक्ष्मा क्षोणी द्विधापि हि । सूक्ष्माः स्तिबुकसंस्थाना, आप: पापहरैः स्मृताः ॥ ८७ ॥ सूचीकलापसंस्थानां, तेजो वायुजाकृतिः । सूक्ष्मो निगोदोऽनियतसंस्थान: परिकीर्तितः ॥ ८ ॥ इति जीवाभिगमाभिप्रायः ॥ संग्रहणीवृत्तौ च-निगोदौदारिकदेहं स्तिबुकाकारमुक्तम् ॥ इति संस्थानम् ॥ १० ॥ अङ्गलासंख्यांशमानं, सूक्ष्मैकेन्द्रियदेहिनाम् । सामान्यतः शरीरं स्याद्विशेषतस्तु वक्ष्यते ॥ ८९॥ इति देहमानम् ॥ ११ ॥ कषायानां वेदनाया, मृत्योश्चेति जिनैस्त्रयः । निरूपिता: समुद्घाताः, सूक्ष्मैकाक्षशरीरिणाम् ॥ १० ॥ इति समुद्घाताः ॥ १२ ॥ एकेन्द्रियेषु सर्वेषु, विकलेन्द्रियकेषु च । संख्येयायुर्गर्भजेषु, तिर्यक्पञ्चेन्द्रियेष्वपि ॥ ९१ ॥ तादृशेष्वेव मत्र्येषु, तेषु संमुछिमेषु च । एते विपद्योत्पद्यन्ते, सूक्ष्मा दशविधा अपि ॥ ९२ ॥ तेजोऽनिलौ तु नवरं, नोत्पद्यते स्वभावतः । मनुष्येष्विति गच्छन्ति, ते पूर्वोक्तेषु तान्विना ॥ ९३ ॥ १. यद्यप्यतीन्द्रियार्थवेदिज्ञानवेद्यानि सूक्ष्मबादरागिनां प्रत्येकानां संस्थानानि तथापि चतुरस्त्रादिसर्वसंस्थानानां पृथ्यां सत्तादर्शनात् सुखावगम्यता २. अनेकानामप्यप्कायानां बिन्दुसंस्थानोपलब्धेः ३. बादरतेजसः प्रत्यक्षेण सूक्ष्माग्रत्वं दृश्यते, तथाऽन्यस्यापि । ४. अत एव वालुकास्वाकारो वायुजन्यः, ऊर्श्वभागादधोभागेऽपि वायोरागमश्च । ५. व्यवहारार्याभावान्नैकतमत् संस्थानं, संग्रहण्यादौ जलसंस्थानमनुश्रित्य तन्मूलत्वादनस्पतेः । ६. तौ. इति पाठः
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy