________________
इति सूक्ष्माणां भेदाः ॥ १ ॥ एभिलोकोऽखिलो व्याप्तः, कज्जलेनेव कुम्पिका । क्वपि प्रदेशो नास्त्येभिर्विहीन: पुद्गलैरिव ॥ ६० ॥ इति स्थानम् ॥ २ ॥ आद्याश्चतस्रस्तिस्त्रः स्युरेषां पर्याप्तयः क्रमात् । पर्याप्तान्येषामथायुः, श्वास: कायबलं तथा ॥ ६१ ॥ त्वगिन्द्रियं चेत्यमीषां, प्राणाश्चत्वार ईरिताः । संख्या योनिकुलानां तु, पृथगेषां न लक्ष्यते ॥ ६२ ॥ ततश्च-संख्या योनिकुलानां या, बादराणां प्रवक्ष्यते । एतेषामपि सैवामी, सर्व संवृतयोनयः ॥ ६३ ॥ इति पर्याप्त्यादिद्वारचतुष्टयम् ॥ ३-६ ॥ अन्तर्मुहूर्तमुत्कृष्टा, भवत्येषां भवस्थिति: । जघन्या क्षुल्लकभवरूपमन्तर्मुहूर्त्तकम् ॥ ६४ ॥ तथोक्तम्-“दससहससमा सुरनारयाण सेसाण खुद्दभवो” ॥ इति भवस्थितिः ॥ सूक्ष्मनिगोदजीवानां, त्रिधा कायस्थितिर्भवेत् । अनाद्यन्ताऽनादिसान्ता, सायन्ता चेतिभेदतः ॥६५॥ सूक्ष्मान्निगोदतोऽनादेर्निर्गता न कदापि ये । नैवापि निर्गमिष्यन्ति, तेषामाद्या स्थितिर्भवेत् ॥ ६६ ॥ अनन्तपुद्गलपरावर्त्तमाना भवेदियम् । सन्ति चैवंविधा जीवा, येषामेषा स्थितिर्भवेत् ॥ ६७ ॥ यदुक्तम्-“सामग्गिअभावाओ ववहारियरासिअप्पवेसाओ । भव्बावि ते अणंता, जे सिद्धिसुहं न पावंति” ॥ निगोदात्सूक्ष्मतो ये च, निर्गता न कदाचन । निर्यास्यन्ति पुनर्जातु, स्थितिस्तेषां द्वितीयिका ॥ ६८ ॥ अनन्तपुद्गलपरावर्त्तमाना त्वसावपि । गतस्य कालस्यानन्त्यात्, केषाञ्चित् भाविनोऽपि च ॥ ६९ ॥ 'अनादिस्थितिका न स्युर्यद्यनन्ता निगोदिनः । तदा वक्ष्यमाणवनस्पतिकायस्थितिक्षये ॥ ७० ॥ कृते कायपरावर्ते, निखिलैर्वनकायिकैः । वनस्पतीनां निर्लेपोऽनभिष्टोऽपि प्रसज्यते ॥७१ ॥ अनारतं किञ्च मुक्तिं, गच्छद्भिर्भव्यदेहिभिः । अचिरादेव जगति, भव्याभाव: प्रसज्यते ॥ ७२ ॥ मुक्तिमार्गव्यवच्छेदोऽप्येतच्च नेष्यते बुधैः । सन्तीति प्रतिपत्तव्यं, ततोऽनादिनिगोदिनः ॥७३॥ इत्याद्यधिकं प्रज्ञापनाष्टादशपदवृत्तितोऽवसेयम् ॥ पुनः प्राप्ता निगोदं येऽनुभूय व्यवहारिताम् । काय:स्थिति: स्यात्सायन्ता, तेषां तां वच्मि मानतः ॥७४ ॥ उत्सर्पिण्यवसर्पिण्यः, संख्यातीताः प्रकीर्तिताः । कालत: क्षेत्रतश्चास्याः, स्थितेर्मानमथ ब्रुवे ॥७५ ॥ लोकाकाशमितासंख्यखखण्डानां प्रदेशकाः । एकैकस्यापहारेण, ह्रियमाणाः क्षणे क्षणे ॥७६ ॥ यावद्भिः कालचक्रैः स्युनिर्लेपा मूलतोऽपि हि । तावन्ति तानि स्यात्कायस्थितिरेषां तृतीयिका ॥७७ ॥
१. सर्वेषां मूलस्थानं निगोदो, जघन्यतमचैतन्यशक्तेस्तत्रैव सत्त्वात्, न च तच्चेतनातोऽल्पा चेतनाऽन्यत्र कुत्रापि, अवसानं चान्त्यमत्र, उत्कृष्टोऽन्तः सिद्धत्वे, स च प्रयत्नातिरेकसाध्यः, निगोदीयजघन्यता तु स्वभावसिद्धा, किंच नान्यत् स्थानमनन्तानामसुमतां संसारे, ततोऽप्यनादिनिगोदसत्ता ।