SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ 96 विवक्षितनिगोदस्य, मुक्त्वा कांश्चित् प्रदेशकान् । आक्रम्य चापरानेतैरवस्थितैर्निगोदकैः ॥ ४४ ॥ विवक्षितममुञ्चद्भिस्तदुष्कृष्टपदं किल । एको निष्पाद्यते गोलो, ह्यसंख्येयनिगोदकः ॥ ४५ ॥ ___ तथोक्तम्-“उक्कोसपयममोत्तुं, निगोअओगाहणाए सव्वत्तों । निष्फाइज्जइ गोलो, पएसपरिखुड्डिहाणीहिं” ॥ .. अथ गोलकमाश्रित्यैतमेव प्रोक्तलक्षणम् । अन्यो निष्पद्यते गोलो, मुक्त्वोत्कृष्टपदं हि तत् ॥ ४६॥ निरुक्तगोलकोत्कृष्टपदास्पर्शिनिगोदके । परिकल्प्योत्कृष्टपदमन्यगोलककल्पनात् ॥४७॥ इत्येकैकनिगोदावगाहनाप्रमिते किल । क्षेत्रे भवति निष्पत्तिरेककगोलकस्य वै ॥४८॥ विवक्षितनिगोदावगाहनायास्तु येऽधिकाः । निगोदांशास्तत्प्रदेशहानिस्थित्या व्यवस्थिताः ॥४९॥ विवक्षणीयास्ते गोलकान्तरानुप्रविष्टका: । एवं गुरुपदेशेन, ज्ञेया गोलकपद्धतिः ॥ ५० ॥ उक्तं हि-"तत्तोच्चियगोलाओ, उक्कोसपयं मुइत्तु जो अण्णो । होइ निगोओ तम्मिवि, अन्नो निष्फज्जइ गोलो ॥ एवं निगोयमित्ते, नेत्ते गोलस्स होइ निष्फत्ती । एवं निष्फज्जंते, लोगे गोला असंख्रिज्जा” ॥ इत्याद्यर्थतो भगवतीशतक ११ उद्देशके १० ॥ निगोदा निचिताश्चैतेऽनन्तानन्ताङ्गिभिस्तथा । निर्गच्छद्भिर्यथा नित्यं, न ह्येकोऽपि स हीयते ॥ ५१ ॥ यद्यावहारिकाङ्गिभ्यो, यावन्तो यान्ति निर्वृतिम् । निर्यान्ति तावन्तोऽनादिनिगोदेभ्यः शरीरिणः ॥ ५२ ॥ ___ तथोक्तम्-“सिज्झन्ति जत्तिया किर, इह संववहाररासिमझाओ । इन्ति अणाइवणस्सइमज्झाओ तत्तिआ तम्मि” ॥ इति प्रज्ञापनावृत्तौ ॥ अनन्तेनापि कालेन, यावन्तः स्युः शिवं गताः । सर्वेऽप्येकनिगोदैकानन्तभागमिता हि ते ॥ ५३॥ कालेन भाविनाऽप्येवमनन्ता मुक्तिगामिनः । चिन्त्यन्ते तैः समुदितास्तथापि नाधिकास्तत: ॥ ५४ ॥ एवं च-न ताक् भविता काल:, सिद्धा: सोपचया अपि । यत्राधिका भवन्त्येकनिगोदानन्तभागतः ॥ ५५ ॥ तथाहुः- “जइया य होइ पुच्छा, जिणाणमग्गंमि उत्तरं तइया । इक्कस्स निगोअस्स य, अणंतभागो उ सिद्धिगओ” ॥ [नवतत्त्व गा. ६०] निगोदेऽपि द्विधा जीवास्तत्रैके व्यावहारिका: । व्यवहारादतीतत्वात्, परे चाव्यावहारिकाः ॥ ५६ ॥ सूक्ष्मान्निगोदतोऽनादेर्निर्गता एकशोऽपि ये । पृथ्यादिव्यवहारं च, प्राप्तास्ते व्यावहारिकाः ॥ ५७ ॥ सूक्ष्मानादिनिगोदेषु, यान्ति यद्यपि ते पुनः । ते प्राप्तव्यवहारत्वात्तथापि व्यवहारिणः ॥ ५८ ॥ कदापि ये न निर्याता, बहिः सूक्ष्मनिगोदतः । अव्यावहारिकास्ते स्युर्दरीजातमृता इव ॥ ५९॥ तदुक्तं विशेषणवत्याम्- “अत्थि अणंता जीवा, जेहिं न पत्तो तसाइपरिणामो । तेऽवि अणंताणंता, निगोअवासं अणुहवन्ति" ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy