________________
94
एकद्वित्रिचतुःपञ्चेन्द्रिया इति च पञ्चधा । षोढा कायप्रकारैः स्युभवन्त्येवं च सप्तधा ॥ ४ ॥ एकाक्षा बादरा: सूक्ष्माः, पञ्चाक्षाः संज्यसंज्ञिनः । चत्वारोऽमी विकलाक्षैस्त्रिभिः सह समन्विताः ॥५॥ चतुर्धेकेन्द्रिया: सूक्ष्मान्यपर्याप्तान्यभेदतः । पञ्चाक्षा विकलाक्षाश्च, भवन्तीत्येवमष्टधा ॥६॥ अण्डजादिभेदतोऽष्टौ, त्रसास्तत्राण्डजाः किल । पक्षिसाचा रसोत्था, मद्यकीटादयोऽङ्गिनः ॥७॥ जरायुजा नृगवाद्या, यूकाद्याः स्वेदजा मताः । संमूर्छजा जलूकाद्या, पोतजा: कुञ्जरादयः ॥ ८॥ उद्भेदजाः खञ्जनाद्याः, देवाद्याश्चौपपातिका: । स्थावरेणैकेन युक्ता, नवधेत्यङ्गिनो मताः ॥९॥ अथवानवधा स्थावराः पञ्च, पञ्चाक्षविकलैर्युताः । दशधा विकलैः क्ष्मायैः, पञ्चाक्षैः संज्यसंजिभिः ॥ १० ॥ स्थावरैर्विकलैः पञ्चेन्द्रियैश्च वेदतस्त्रिभिः । एकादश द्वादश स्युः, कायैः पर्याप्तकापरैः ॥ ११ ॥ पर्याप्तापर्याप्तकैश्च, स्थावरैस्त्रिविधै स्त्रसैः । वेदभेदात् भवन्त्येवं, त्रयोदशविधाः किल ॥ १२ ॥ प्रागुक्ताः सप्तधा पर्याप्तकापर्याप्तभेदतः । चतुर्दशविधा जीवा:, स्युः पञ्चदशधाप्यमी ॥ १३ ॥ पञ्चाक्षा नरतिर्यंचस्त्रिविधा वेदभेदतः । देवा द्विधा नारकश्चेत्येवं पञ्चेन्द्रिया नव ॥ १४ ॥ द्विविधा बादरैकाक्षाः, पर्याप्तापरभेदतः । सूक्ष्मैकाक्षा: विकलाक्षाः, स्युः पञ्चदश संयुताः ॥ १५ ॥ तिर्यंचः पञ्चधैकाक्षादिकाः पञ्चाक्षसीमकाः । नृदेवनारकाश्चाष्टाप्येते पर्याप्तकापराः ॥ १६ ॥ प्रागुक्ता नवधा पञ्चेन्द्रियाश्च पञ्चधैकखाः । त्रिविधा विकला एवं, स्युः सप्तदशधाऽङ्गिनः ॥ १७ ॥ प्रागुक्ता नवधा जीवाः, पर्याप्तापरभेदतः । भवन्त्यष्टादशविधा, जीवा एवं विवक्षिताः ॥ १८ ॥ पञ्चाक्षा नवधा प्राग्वद्दशधा च परेऽङ्गिनः । पर्याप्तान्याः स्थूलसूक्ष्मैकाक्षाः सविकलेन्द्रियाः ॥ १९ ॥ एकोनविंशतिविधा, भवन्त्येवं शरीरिणः । प्रागुक्ता दशधा पर्याप्तान्या विंशतिधेति च ॥ २० ॥ स्थावरा विंशतिः सूक्ष्मान्यपर्याप्तान्यभेदतः । त्रसेन च समायुक्ता, एकविंशतिधाऽङ्गिनः ॥ २१ ॥ पूर्वोदिता: प्रकारा ये, एकादश शरीरिणाम् । द्वाविंशतिविधा: पर्याप्तान्यभेदात् द्विधाकृताः ॥ २२ ॥ एवं विविक्षावशतो, जीवा भवन्त्यनेकधा । जीवानामोघत: स्थानं, लोकः सर्वोऽप्युदीरितः ॥ २३ ॥ द्वाराणि पर्याप्त्यादीनि, सर्वाण्यप्यविशेषतः । सम्भवन्त्योघतो जीवे, विज्ञेयानि यथाऽऽगमम् ॥ २४ ॥ इति सामान्यतः संसारिजीवनिरूपणम् ॥ संसारिणो द्विधोक्ताः प्राक्, त्रसस्थावरभेदतः । स्थावरास्तत्र पृथ्यम्बुतेजोवायुमहीरुहः ॥ २५ ॥ पञ्चामी स्थावराः स्थावराख्यकर्मोदयात्किल । हुताशमरुतौ तत्र, जिनैरुक्तौ गतित्रसौ ॥ २६ ॥
१. निगोअमझे, इति पाठः