________________
93 षष्ठी तु याचमानस्य, प्रतिषेधात्मिका भवेत् । सप्तमी पृच्छत: कार्य, स्वीयानुमतिदानतः ॥ १३४७ ॥ कार्यं यथाऽऽरभमाणः, कश्चित्कञ्चन पृच्छति । स प्राहेदं कुरु लघु, ममाप्येतन्मतं सख्खे ॥ १३४८ ॥ उपस्थितेषु बहुषु, कार्येषु युगपद्यदि । किमिदानी करोमीति, कश्चित्कञ्चन पृच्छति ॥ १३४९ ॥ स प्राह सुन्दरं यत्ते, प्रतिभाति विधेहि तत् । भाषाऽनभिगृहीताख्या, सा प्रज्ञप्ता जिनेश्वरैः ॥ १३५० ॥ अभिगृहीता तत्रैव, नियतार्थावधारणम् । यथाऽधुनेदं कर्त्तव्यं, न कर्त्तव्यमिदं पुनः ॥ १३५१ ॥ अनेकार्थवादिनी तु, भाषा संशयकारिणी । संशय: सैन्धवस्योक्तौ, यथा लवणवाजिनोः ॥ १३५२ ॥ व्याकृता तु भवेद् भाषा, प्रकटार्थाभिधायिनी । अव्याकृता गभीरार्थाऽथवाऽव्यक्ताक्षराञ्चिता ॥ १३५३ ॥ आद्यास्तिस्रो दशविधास्तुर्या द्वादशधा पुन: । द्विचत्वारिंशदित्येवं, भाषाभेदा जिनैः स्मृताः ॥ १३५४ ॥ स्तोकाः सत्यगिरः शेषास्त्रयोऽसंख्यगुणा: क्रमात् । अभाषकाश्चतुोऽपि, स्युरनन्तगुणाधिका: ॥ १३५५ ॥ इति योगाः ॥ ३१ ॥ के के जीवा: कियन्तः स्युरिति दृष्टान्तपूर्वकम् । निरूपणं यत्तन्मानमित्यत्र परिकीर्तितम् ॥ १३५६ ॥ परस्परं कतिपयसजातीयव्यपेक्षया । वक्ष्यते याऽल्पबहुता, साऽत्र ज्ञेया कनीयसी ॥ १३५७ ॥ भूयांसो दिशि कस्यां के, जीवाः कस्यां च केल्पकाः । एवंरूपाऽल्पबहुता, विज्ञेया दिगपेक्षया ॥ १३५८ ॥ प्राप्य पृथ्यादित्वमङ्गी, जघन्योत्कर्षतः पुनः । कालेन यावताऽऽप्नोति, तद्भावं स्यात्तदन्तरम् ॥ १३५९ ॥ विवक्षितभवात्तुल्येऽतुल्ये च यद्भवान्तरे । गत्वा भूयोऽपि तत्रैव, यथासम्भवमागतिः ॥ १३६० ॥ जघन्यादुत्कर्षतश्च, वारानेतावतो भवेत् । इत्यादि यत्रोच्यतेऽसौ, भवसंवेध उच्यते ॥ १३६१ ॥ सर्वजातीयजीवानां, परस्परव्यपेक्षया । वक्ष्यते याऽल्पबहुता, महाल्पबहुताऽत्र सा ॥ १३६२ ॥ भवतु सुगमं द्वारेभिः सदागमशोभनैः नगरमिव सश्रीकं जीवास्तिकायनिरूपणम् । विमलमनसां चेतांसीह प्रविश्य परां मुदम् । दधतु विविधैरथैर्व्यक्तीकृतैश्च पदे पदे ॥ १३६३ ॥
विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्टविनय: श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, सो निर्गलितार्थसार्थसुभगः पूर्णस्तृतीय: सुखम् ॥ १३६४ ॥
॥ इति श्रीलोकप्रकाशे तृतीयः सर्गः समाप्तः ॥
अथ चतुर्थं सर्गः । द्वाराण्येवं वर्णितानि, सप्तत्रिंशदिति क्रमात् । निर्दिश्यन्तेऽथ संसारिजीवेष्वमूनि तत्र च ॥ १॥ ओघतो भाव्यते संसारिषु द्वारकदम्बकम् । आदौ ततो विशेषेण, प्रत्येकं भावयिष्यते ॥ २ ॥ द्विधा संसारिणो जीवास्त्रसस्थावरभेदतः । त्रिविधाः स्युस्त्रिभिदैर्गतिभेदैश्चतुर्विधाः ॥३॥