________________
92 भावो वर्णादिकस्तेन, सत्यं तु भावतो यथा । नैकवर्णोऽपि नीलस्य, प्रबलत्वाच्छुको हरित् ॥ १३२२ ॥ स्थूलस्कन्धेषु सर्वेषु सर्वे वर्णरसादयः । निश्चयाद्व्यवहारस्तु, प्रबलेन प्रवर्त्तते ॥ १३२३ ।। योगोऽन्यवस्तुसम्बन्धो, योगसत्यं ततो भवेत् । छत्रयोगाद्यथा छत्री, छत्राभावेऽपि कर्हिचित् ॥ १३२४ ॥ हृद्यं साधर्म्यमौपम्यं, तेन सत्यं तु भूयसा । काव्येषु विदितं यद्धत्तटाकोऽयं पयोधिवत् ॥ १३२५ ॥ मृषाभाषाऽपि दशधा, क्रोधमानविनिःसृताः । मायालोभप्रेमहास्यभयद्वेषविनिःसृताः ॥ १३२६ ॥ आख्यायिकानिःसृता तु, कथास्वसत्यवादिनः । चौर्यादिनाऽभ्याख्यातोऽन्यमुपघातविनिःसृताः ॥ १३२७ ॥ तथाहु :- “कोहे माणे मायालोभे पेज्जे तहेव दोसे य । हासे भयअक्खाइय, उवघाइय णिस्सिया दसमा” ॥
[प्रवचनसारोद्धार श्लो. ८९२] सत्यामृषापि दशधा, प्रथमोत्पन्नमिश्रिता । विगतमिश्रिता चान्योत्पन्नविगतमिश्रिता ॥ १३२८ ॥ जीवाजीवमिश्रिते ढे, स्याज्जीवाजीवमिश्रिता । प्रत्येकमिश्रिताऽनन्तमिश्रिताऽद्धाविमिश्रिता ॥ १३२९ ॥ अद्धाद्धामिश्रितेत्यत्र, प्रथमोत्पन्नमिश्रिता । उत्पन्नानामनिश्चित्य, संख्यानं वदतो भवेत् ॥ १३३० ॥ यथाऽत्र नगरे जाता, नूनं दशाद्यदारकाः । मृतांस्तान् वदतोऽप्येवं, भवेदिगतमिश्रिता ॥ १३३१ ॥ एवं च-उत्पन्नांश्च विपन्नांश्च, युगपद्धदतो भवेत् । उत्पन्नविगतमिश्राह्वयो भेदस्तृतीयकः ॥ १३३२ ॥ शंखशंखनकादीनां, राशौ तान् जीवतो बहून् । दृष्ट्वाऽल्पांश्च मृतान् जीवराश्युक्तौ जीवमिश्रिता ॥ १३३३ ॥ तत्रैव च मृतान् भूरीन्, दृष्ट्वा स्वल्पांश्च जीवतः । अजीवराशिरित्येवं, वदतोऽजीवमिश्रिता ॥ १३३४ ॥ एतावन्तोऽत्र जीवन्त, एतावन्तो मृता इति । तत्रानिश्चित्य वदतो, जीवाजीवविमिश्रिता ॥ १३३५ ॥ अनन्तकायनिकरं, दृष्ट्वा प्रत्येकमिश्रितम् । अनन्तकायं तं सर्वं, वदतोऽनन्तमिश्रिता ॥ १३३६ ॥ एवं प्रत्येकनिकरमनन्तकायमिश्रितम् । प्रत्येकं वदतः सर्वं, भवेत्प्रत्येकमिश्रिता ॥ १३३७ ॥ अद्धा काल: स च दिनं, रात्रिर्वा परिगृह्यते । यस्यां शमिश्रिता साउद्धामिश्रिता जायते यथा ॥ १३३८ ॥ कञ्चन त्वरयन् कश्चिद्धदेदुत्तिष्ठ भो लघु । रात्रिर्जातेति दिवसे, रात्रौ च रविरुद्गतः ॥ १३३९ ॥ अद्धाद्धा त्वेकदेश: स्याद्रात्रेर्वा दिवसस्य वा । सा मिश्रिता ययाऽद्धाद्धामिश्रिता सा भवेदिह ॥ १३४०॥ कश्चिद्यथाऽऽद्यपौरुष्यां, कञ्चन त्वरयन् वदेत् । त्वरस्व जातो मध्याह, एवमेव निशास्वपि ॥ १३४१ ॥ या त्वसत्यामृषाभिख्या, भाषा साऽपि जिनेश्वरैः । प्रज्ञप्ता द्वादशविधा, विविधातिशयान्वितैः ॥ १३४२ ॥ आमंत्रण्याऽऽज्ञापनी च, याचनी पृच्छनी तथा । प्रज्ञापनी प्रत्याख्यानी भाषा चेच्छाऽनुकूलिका ॥ १३४३ ॥ अनभिगृहीता भाषाऽभिगृहीता तथा परा । सन्देहकारिणी भाषा, व्याकृताऽव्याकृता तथा ॥ १३४४ ॥ हे देवेत्यादि तत्राद्या, द्वितीया त्वमिदं कुरु । तृतीयेदं ददस्वेति, तुर्याऽज्ञातार्थनोदनम् ॥ १३४५ ॥ पञ्चमी तु विनीतस्य, विनेयस्योपदेशनम् । यथा हिंसाया निवृत्ता, जन्तवः स्युश्चिरायुषः ॥ १३४६ ॥ उक्तं च-'पाणिवहाओ नियत्ता, हवन्ति दीहाउया अरोगा य । इमाइ पन्नत्ता, पन्नवणी वीयरायेहिं' ॥
१. भिधा, इति पाठः २. गे, इति पाठः