SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ 89 ननु मिश्रत्वमुभयनिष्ठमौदारिकं यथा । मिश्रं भवेत्कार्मणेन, तथा तेनापि कार्मणम् ॥ १२६० ॥ ततश्चौदारिकामिश्रमेवेदं कथमुच्यते? । अस्य कार्मणमिश्रत्वमपि किं नाभिधीयते ? ॥ १२६१ ॥ अत्राहुः-आसंसारं कार्मणस्यावस्तित्वेन सर्वदा । सकलेष्वपि देहेषु, सम्भवेदस्य मिश्रता ॥ १२६२ ।। ततश्च–कार्मणमिश्रमित्युक्ते, निर्णतुं नैव शक्यते । किमौदारिकसम्बन्धि, किं वाऽपरशरीरजम् ॥ १२६३ ॥ औदारिकस्य चोत्पत्तिं, समाश्रित्य प्रधानता । कादाचित्कतया चास्य, प्रतिपत्तिरसंशया ॥ १२६४ ॥ तदौदारिकमिश्रत्वव्यपदेशोऽस्य यौक्तिकः । न तु कार्मणमिश्रत्वव्यपदेशस्तथाविधः ॥ १२६५ ॥ यदाप्यौदारिकदेहधरो वैक्रियलब्धिमान् । पञ्चाक्षतिर्यङ्मय॑श्च, पर्याप्तो बादरानिलः ॥ १२६६ ।। वैक्रियाङ्गमारभते, न च पूर्णीकृतं भवेत् । तदौदारिकमिश्रः स्याद्वैक्रियेण सह ध्रुवम् ॥ १२६७ ॥ एवमाहारकारम्भकाले तल्लब्धिशालिनः । सहाहारकदेहेन, मिश्र औदारिको भवेत् ॥ १२६८ ॥ यद्यप्यत्रोभयत्रापि, मिथस्तुल्यैव मिश्रता । तथाप्यारम्भकत्वेनौदारिकस्य प्रधानता ॥ १२६९ ॥ तत औदारिकेणैव, व्यपदेशो द्वयोरपि । न वैक्रियाहारकाभ्यां, व्यपदेशो जिनैः कृतः ॥ १२७० ॥ मतं सिद्धान्तिनामेतत्, कर्मग्रन्थविदः पुन: । वैक्रियाहारकमिश्रे, एव प्राहुरिमे क्रमात् ॥ १२७१ ॥ यदारम्भे वैक्रियस्य, परित्यागेऽपि तस्य ते । वदन्ति वैक्रियं मिश्रमेवमाहारकेऽपि च ॥ १२७२ ॥ वैक्रिय देहपर्याप्त्या, पर्याप्तस्य शरीरिणः । वैक्रिय: काययोग: स्यात्तन्मिश्रस्तु द्विधा भवेत् ॥ १२७३ ॥ योऽपर्याप्तदशायां स्यान्मिश्रो नारकनाकिनाम् । योग: समं कार्मणेन, स स्याद्वैक्रियमिश्रकः ॥ १२७४ ॥ तथा यदा मनुष्यो वा, तिर्यक्पञ्चेन्द्रियोऽथवा । वायुः वा वैक्रियं कृत्वा, कृतकार्योऽथ तत्त्यजन् ॥ १२७५ ॥ औदारिकशरीरान्तः, प्रवेष्टुं यतते तदा । योगो वैक्रियमिश्रः स्यात्सममौदारिकेण च ॥ १२७६ ॥ मिश्रीभावो यदप्यत्रोभयनिष्ठस्तथाप्यसौ । प्राधान्याद्वैक्रियेणैव, ख्यातो नौदारिकेण तु ॥ १२७७ ॥ प्राधान्यं तु वैक्रियस्य, प्राज्ञैर्निरूपितं ततः । औदारिकेतु प्रवेश, एतस्यैव बलेन यत् ॥ १२७८ ॥ आहारकाङ्गपर्याप्त्या, पर्याप्तानां शरीरिणाम् । आहारक: काययोगः, स्याच्चतुर्दशपूर्विणाम् ॥ १२७९ ॥ आहारकवपुः कृत्वा, कृतकार्यस्य तत्पुनः । त्यक्त्वा स्वाले प्रविशतः, स्यादाहारकमिश्रकः ॥ १२८० ॥ द्वयोः समेऽपि मिश्रत्वे, बलेनाहारकस्य यत् । औदारिकेऽनुप्रवेशस्तेनेत्थं व्यपदिश्यते ॥ १२८१ ॥ तैजसं कार्मणं चेति, द्वे सदा सहचारिणी । ततो विवक्षितः सैको, योगस्तैजसकार्मणः ॥ १२८२ ॥ जन्तूनां विग्रहगतावयं केवलिनां पुन: । समुद्घाते समयेषु, स्यात्तृतीयादिषु त्रिषु ॥ १२८३ ॥ एवं निरूपिताः सप्त, योगा: कायसमुद्भवाः । अथ चित्तवचोजातांश्चतुरश्चतुरो ब्रुवे ॥ १२८४ ॥ सत्यो मृषा सत्यमृषा, न सत्यो न मृषाऽपि च । मनोयोगश्चतुर्धेवं, वाग्योगोऽप्येवमेव च ॥ १२८५ ॥ तत्र च–सन्त इत्यभिधीयन्ते, पदार्थामुनयोऽथवा । तेषु साधु हितं सत्यमसत्यं च ततोऽन्यथा ॥ १२८६ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy