SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ पदार्थानां हितं तत्र, यथावस्थितचिन्तनात् । मुनीनां च हितं यस्मान्मोक्षमागैकसाधनम् ॥ १२८७ ॥ स्वतो विप्रतिपत्तौ वा, वस्तु स्थापयितुं किल । सर्वज्ञोक्तानुसारेण, चिन्तनं सत्यमुच्यते ॥ १२८८ ॥ यथाऽस्ति जीव: सदसद्पो व्याप्य स्थितस्तनुम् । भोक्ता स्वकर्मणां सत्यमित्यादिपरिचिन्तनम् ॥ १२८९ ॥ प्रश्ने विप्रतिपत्तौ वा, स्वभावादुत वस्तुषु । विकल्प्यते जैनमतोत्तीर्णं यत्तदसत्यकम् ॥ १२९० ॥ नास्ति जीवो यथैकान्तनित्योऽनित्यो महानणुः । अकर्ता निर्गुणोऽसत्यमित्यादिपरिचिन्तनम् ॥ १२९१ ॥ किञ्चित्सत्यमसत्यं वा, यत्स्यादुभयधर्मयुक् । स्यात्तत्सत्यमृषाभिख्यं, व्यवहारनयाश्रयात् ॥ १२९२ ॥ यथाऽन्यवृक्षमिश्रेषु, बहुष्वशोकशाख्रिषु । अशोकवनमेवेदमित्यादिपरिचिन्तनम् ॥ १२९३ ॥ सत्त्वात्कतिपयाशोकतरूणामत्र सत्यता । अन्येषामपि सद्भावात्, भवेदसत्यतापि च ॥ १२९४ ॥ भवेदसत्यमेवेदं, निश्चयापेक्षया पुनः । विकल्पितस्वरूपस्यासद्भावादिह वस्तुनः ॥ १२९५ ॥ विनार्थप्रतितिष्ठासां, स्वरूपमात्रचिन्तनम् । उक्ततल्लक्षणायोगान्न सत्यं न मृषा च तत् ॥ १२९६ ॥ यथा चैत्राद्याचनीया, गौरानेयो घटस्ततः । पर्यालोचनमित्यादि, स्यादसत्यामृषाभिधम् ।। १२९७ ।। व्यवहारापेक्षयैव, पृथगेतदुदीर्यते । निश्चयापेक्षया सत्येऽसत्ये वाऽन्तर्भवेदिदम् ॥ १२९८ ।। तथाहिगौर्याच्येत्यादिसंकल्पं दम्भेन विदधीत चेत् । अन्तर्भवेत्तदाऽसत्ये, सत्ये पुनः स्वभावतः ॥ १२९९ ॥ सर्वमेतद्भावनीयं, वाग्योगेऽप्यविशेषत: । भाविताश्चिन्तने भेदा, भाव्यास्तेऽत्र तु जल्पने ॥ १३०० ॥ एवं मनोवचोयोगाः, स्युः प्रत्येकं चतुर्विधाः । ततो योगा: पञ्चदश, व्यवहारनयाश्रयात् ॥ १३०१ ॥ किमु कश्चिद्विशेषोऽस्ति, भाषावाग्योगयोर्ननु । भाषाधिकारो यत्प्रोक्तः, सूत्रे वाग्योगतः पृथक् ॥ १३०२ ॥ अत्रोच्यतेयुज्यते इति योग: स्यादितिव्युत्पत्तियोगतः । भाषाप्रवर्तको जन्तुयनो वाग्योग उच्यते ॥ १३०३ ॥ भाषात्वेनापादिता या, भाषार्हद्रव्यसंततिः । सा भाषा स्यादतो भेदो, भाषावाग्योगयो: स्फुटः ॥ १३०४ ॥ तथोक्तमावश्यकबृहद्वृत्तौ–“गिण्हइ य काइएणं, निसिरइ तह वाइएण जोगेणंति” ॥ अत्र कश्चिदाह-तत्र कायिकेन गृह्णातीत्येतद्, युक्तम् तस्यात्मव्यापाररूपत्वात् । निसृजति तु कथं वाचिकेन ? कोऽयं वाग्योग ? इति । किं वागेव व्यापारापन्ना आहोस्वित् तद्धिसर्गहेतुः कायसंरम्भ इति ? । यदि पूर्वः विकल्प: स खल्वयुक्तः, तस्या योगत्वानुपपत्तेः । तथा च न वाक्केवला जीवव्यापारः, तस्याः पुद्गलमात्रपरिणामरूपत्वात् रसादिवत् । योगश्च आत्मनः शरीखतः व्यापार इति । न च तया भाषा निसृज्यते, किन्तु सैव निसृज्यते इत्युक्तम् । अथ द्वितीय: पक्षः । ततः स कायव्यापारः एव इति कृत्वा कायिकेनैव निसृजति इत्यापन्नं, अनिष्टं चैतत् ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy