________________
88
अन्तिमं डञणनमेत्येवंरूपैः किलाक्षरैः । अविलम्बात्वरितयोच्चारितैः प्रमितं भवेत् ॥ १२४५ ।। आन्तर्मुहूर्तिकानि स्युः, रोषाण्यष्टाप्यमूनि च । केचिदूचुर्न्यूनपूर्वकोटिके षष्ठसप्तके ।। १२४६ ।। तथोक्तं भगवती सूत्रे – “पमत्तसंजयस्स णं पमत्तसंजमे वट्टमाणस्स सव्वाविणं पमत्तद्धाकालओ केवच्चिरं होइ ?! मंडिआ ! एक जीवं पडुच्च ज एगं समयं उक्कोसेणं देसूणा पुब्वकोडी । णाणाजीवे पडुच्च सव्वद्धा, अस्यवृत्तिः - जह० एवं समयंति कथं ! उच्यते, प्रमत्तसंयतप्रतिपत्तिसमयसमनन्तरमेव मरणात्, 'देसूणा पुव्वकोडित्ति', किल प्रत्येकमन्तर्मुहूर्त्तप्रमाणे एव प्रमत्ताप्रमत्तगुणस्थाने । ते च पर्यायेण जायमाने देशोनपूर्वकोटिं यावदुत्कर्षेण भवतः । महान्ति चाप्रमत्तापेक्षया प्रमत्तान्तर्मुहूर्त्तानि कल्प्यन्ते । एवं चान्तर्मुहूर्त्तप्रमाणानां प्रमत्ताद्धानां सर्वासां मिलने देशोनपूर्वकोटीकालमानं भवति ॥ अन्ये त्वाहुः । अष्टवर्षोनां पूर्वकोटिं यावदुत्कर्षतः प्रमत्तता स्यात् । एवमप्रमत्तसूत्रमपि ॥ नवरं ॥ ' जह० अंतमुहुत्तं 'ति । किलाप्रमत्ताद्धायां वर्त्तमानस्य अन्तर्मुहूर्त्तमध्ये मृत्युर्न भवतीति ॥ चूर्णिकारमतं तु प्रमत्तसंयतवर्जः सर्वोऽपि सर्वविरतोऽप्रमत्त उच्यते प्रमादाभावात् । स चोपशमश्रेणिं प्रतिपद्यमान: मुहूर्त्ताभ्यन्तरे कालं कुर्वन् जघन्यकालो लभ्यते इति ॥ देशोनपूर्वकोटी तु केवलिनमाश्रित्य इति” ॥ यन्निर्दिष्टं जिनाधीशैरेकजीवव्यपेक्षया । त्यक्त्वा पुन: प्राप्तिरूपमथैषामुच्यतेऽन्तरम् ।। १२४७ ।। जघन्यं सासादनस्य पल्यासंख्यांशसंमितम् । शेषेषु च दशानां स्यादन्तर्मुहूर्त्तमन्तरम् ॥ १२४८ ॥ मिथ्यात्वस्य तदुत्कृष्टं, द्विःषट्षष्टिः पयोधयः । साधिका: कथितास्तत्र, श्रूयतां भावना त्वियम् ॥ १२४९ ॥ अनुभूय स्थितिं कश्चित् सम्यक्त्वस्य गरीयसीम् । मिश्रं ततोऽन्तर्मुहूर्त्तमनुभूय ततः पुनः ।। षट्षष्ट्यम्भोनिधिमितां, सम्यक्त्वस्य गुरुस्थितिम् । समाप्य कोऽपि मिथ्यात्वं, जातु याति तदा हि तत् ॥ १२५१ ॥ देशोनपुद्गलपरावर्त्तार्द्धप्रमितं मतम् । द्वितीयादीनां दशानां गुणानां ज्येष्ठमन्तरम् ॥ १२५२ ॥ क्षपकस्यान्तरं जातु न स्यात् त्रिष्वष्टमादिषु । सकृत्प्राप्तेः क्षीणमोहादित्रयेऽप्यन्तरं न हि ।। १२५३ ॥ इति गुणाः ॥ ३० ॥ अथ योगः ॥
१२५० ॥
दश पञ्चाधिका योगाः, सप्त स्युस्तत्र कायिका: । चत्वारो मानसोद्भूतास्तावन्त एव वाचिकाः ॥ १२५४ ॥ औदारिकस्तन्मिश्रः स्याद्वैक्रियस्तेन मिश्रितः । आहारकस्तन्मिश्रः सप्तमस्तैजसकार्मणः ।। १२५५ ।। पर्याप्तानां नृतिरश्चामौदारिकाभिधो भवेत् । स्यात्तन्मिश्रस्तु पर्याप्तापर्याप्तानां तथोच्यते ।। १२५६ ।। कार्मणेन वैक्रियेणाहारकेणेति च त्रिधा । औदारिकमिश्रकाययोगं योगीश्वरा जगुः ॥ १२५७ ॥ औदारिकाङ्गनामादितादृक्कर्मनियोगतः । उत्पत्तिदेशं प्राप्तेन, तिरश्चा मनुजेन वा ।। १२५८ ॥ यदौदारिकमारब्धं, न च पूर्णीकृतं भवेत् । तावदौदारिकमिश्रः, कार्मणेन सह ध्रुवम् ।। १२५९ ।। तथा चोक्तं निर्युक्तिकारेण शस्त्र (आहार) परिज्ञाध्ययने — “तेएण कम्मएणं, आहारेड् अणंतरं जीवो । तेण परं मिस्सेणं, जाव सरीरस्स निप्पत्ती” ॥