________________
87
दुर्भगं च दुःस्वरं चानादेयमयशोऽपि च । संस्थानषट्कमगुरुलघूपघातमेव च ॥ १२२० ॥ पराघातमथोच्छ्वासमपर्याप्ताभिधं तथा । असातसातयोरेकं, प्रत्येकं च स्थिरं शुभम् ॥ १२२१ ॥ उपाङ्गत्रितयं नीचैर्गोत्रं सुस्वरमेव च । अयोग्युपान्तसमये, इति द्वासप्ततेः क्षयः ॥ १२२२ ॥ मनुजस्य गतिश्चायुश्चानुपूर्वीति च त्रयम् । त्रसबादरपर्याप्तयशांसीति चतुष्टयम् ॥ १२२३ ॥ उच्चैर्गोत्रमथादेयं, सुभगं जिननाम च । असातसातयोरेकं, जातिः पञ्चेन्द्रियस्य च ॥ १२२४ ॥ त्रयोदशैता: प्रकृती:, क्षपयित्वाऽन्तिमे क्षणे । अयोगी केवली सिद्ध्येन्निर्मूलगतकल्मषः ॥ १२२५ ॥ मतान्तरेऽत्रानुपूर्वी क्षिपत्युपान्तिमक्षणे । ततस्त्रिसप्ततिं तत्र, द्वादशान्त्ये क्षणे क्षिपेत् ॥ १२२६ ॥ इति चतुर्दशम् ॥ आद्यं द्वितीयं तुर्यं च, गुणस्थानान्यमूनि वै । गच्छन्तमनुगच्छन्ति, परलोके शरीरिणम् ॥ १२२७ ॥ मिश्रदेशविरत्यादीन्येकादश पराणि च । सर्वथाऽत्र परित्यज्य जीवा यान्ति परं भवम् ॥ १२२८ ॥ तत्र मिश्रे स्थितः प्राणी, मृतिं नैवाधिगच्छति । स्युर्देशविरतादीनि, यावज्जीवावधीनि च ॥ १२२९ ॥ यत्तृतीयं गुणस्थानं, द्वादशं च त्रयोदशम् । विनाऽन्येष्वेकादशसु, गुणेषु म्रियतेऽसुमान् ॥ १२३० ॥ स्तोका एकादशगुणस्थिता उत्कर्षतोऽपि यत् । चतुःपञ्चाशदेवामी, युगपत् सम्भवन्ति हि ॥ १२३१ ॥ तेभ्य: संख्यगुणा: क्षीणमोहास्ते ह्यष्टयुक् शतम् । युगपत्स्युरष्टमादित्रिगुणस्थास्ततोऽधिकाः ॥ १२३२ ॥ मिथस्तुल्याश्च यच्छ्रेणिद्रयस्था अपि संगताः । स्यु षष्ट्युत्तरशतं, प्रत्येकं त्रिषु तेषु ते ॥ १२३३ ॥ योग्यप्रमत्तप्रमत्तास्तेभ्यः संख्यगुणा: क्रमात् । यत्ते मिता: कोटिकोटिशतकोटिसहस्रकैः ॥ १२३४ ॥ पञ्चमस्था द्वितीयस्था, मिश्राश्चाविरता: क्रमात् । प्रत्येकं स्युरसंख्येयगुणास्तेभ्यस्त्वयोगिनः ॥ १२३५ ॥ स्युरनन्तगुणा मिथ्यादृशस्तेभ्योऽप्यनन्तकाः । इदमल्पबहुत्वं स्यात्, सर्वत्रोत्कर्षसम्भवे ॥ १२३६ ॥ विपर्ययोऽप्यन्यथा स्यात्, स्तोकाः स्युर्जातुचिद्यथा । उत्कृष्टशान्तमोहेभ्यो, जघन्या: क्षीणमोहकाः ॥ १२३७ ॥ एवं सास्वादनादिष्वपि भाव्यम् ॥ मिथ्यात्वं कालतोऽनादि, सान्तं स्यात्सादिसान्तकम् । अनाद्यनन्तं च न तत्साधनन्तं तु सम्भवेत् ॥ १२३८ ॥ स्यादाद्यं तत्र भव्यानामनाप्तपूर्वसदृशाम् । द्वितीयं प्राप्य सम्यक्त्वं, पुनर्मिथ्यात्वमीयुषाम् ॥ १२३९ ॥ स्यात्तृतीयमभव्यानां, सदा मिथ्यात्ववर्तिनाम् । आनन्त्यासम्भवात् सादेस्तुर्यं युक्तमसम्भवि ॥ १२४० ॥ सासादनं चोक्तमेव षडावलिमितं पुरा । तुर्यं मितं समधिकत्रयस्त्रिंशत्पयोघिभिः ॥ १२४१ ॥ सर्वार्थसिद्धदेवत्वे, त्रयस्त्रिंशत्पयोनिधीन् । धृत्वाऽविरतसम्यक्त्वं, ततोऽत्राप्यागतोऽसकौ ॥ १२४२ ॥ यावदद्यापि विरतिं, नाप्नोति तावदेष यत् । तुर्यमेव गुणस्थानमुररीकृत्य वर्त्तते ॥ १२४३ ॥ किञ्चिन्यूननवाब्दोनपूर्वकोटिमिते मते । त्रयोदशं पञ्चमं च, गुणस्थाने उभे अपि ॥ १२४४ ॥