SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ 86 योगो द्विधा सकरणोऽकरणश्चेति कीर्तितः । तत्र केवलिनो ज्ञेयदृश्येष्वखिलवस्तुषु ॥ ११९५ ॥ उपयुझानस्य किल, केवले ज्ञानदर्शने । योऽसावप्रतिघो वीर्यविशेषोऽकरण: स तु ॥ ११९६ ॥ अयं च नानाधिकृतो, योग: सकरणस्तु यः । मनोवाक्वायकरणहेतुकोऽधिकृतोऽत्र सः ॥ ११९७ ॥ केवल्युपेतस्तैोगैः, सयोगी केवली भवेत् । सयोगिकेवल्याख्यं स्यात्, गुणस्थानं च तस्य यत् ॥ ११९८ ॥ मनोवाक्कायजाश्चैवं, योगा: केवलिनोऽपि हि । भवन्ति कायिकस्तत्र, गमनागमनादिषु ॥ ११९९ ॥ वाचिको यतमानानां, जिनानां देशनादिषु । भवत्येवं मनोयोगोऽप्येषां विश्वोपकारिणाम् ॥ १२०० ॥ मन:पर्यायवद्भिर्वा, देवैर्वाऽनुत्तरादिभिः । पृष्टस्य मनसाऽर्थस्य, कुर्वतां मनसोत्तरम् ॥ १२०१ ॥ द्विचत्वारिंशतः कर्मप्रकृतीनामिहोदयः । जिनेन्द्रस्यापरस्यैकचत्वारिंशत एव च ॥ १२०२ ॥ औदारिकाङ्गोपाङ्गे च, शुभान्यखगतिद्धयम् । अस्थिरं चाशुभं चेति, प्रत्येकं च स्थिरं शुभम् ॥ १२०३ ॥ संस्थानषट्कमगुरुलघूपघातमेव च । पराघातोच्छ्वासवर्णगन्धस्पर्शरसा इति ॥ १२०४ ॥ निर्माणाद्यसंहनने, देहे तैजसकार्मणे । असातसातान्यतरत्, तथा सुस्वरदुःस्वरे ॥ १२०५ ॥ एतासां त्रिंशत: कर्मप्रकृतीनां त्रयोदशे । गुणस्थाने व्यवच्छेद, उदयापेक्षया भवेत् ॥ १२०६ ॥ भाषापुद्गलसंघातविपाकित्वादयोगिनि । नोदयो दुःस्वरनामसुस्वरनामकर्मणोः ॥ १२०७ ॥ शरीरपुद्गलदलविपाकित्वादयोगिनि । शेषा न स्युः काययोगा, भावात्प्रकृतयस्त्विमाः ॥ १२०८ ॥ ततश्च-यश: सुभगमादेयं, पर्याप्तं त्रसबादरे । पञ्चाक्षजातिर्मनुजायुर्गती जिननाम च ॥ १२०९ ॥ उच्चैर्गोत्रं तथा सातासातान्यतरदेव च । अन्त्यक्षणावध्युदया, द्वादशैता अयोगिनः ॥ १२१० ॥ इति त्रयोदशम् ॥ नास्ति योगोऽस्येत्ययोगी, तादृशो यश्च केवली । गुणस्थानं भवेत्तस्यायोगिकेवलिनामकम् ॥ १२११ ॥ तच्चैवम्अन्तर्मुहूर्त्तशेषायुः, सयोगी केवली किल । लेश्यातीतं प्रतिपित्सुवा॑नं योगान् रुणद्धि सः ॥ १२१२ ॥ तत्र पूर्वं बादरेण, काययोगेन बादरौ । रुणद्धि वाग्मनोयोगौ, काययोगं ततश्च तम् ॥ १२१३ ॥ सूक्ष्मक्रियं चानिवृत्तिशुक्लध्यानं विभावयन् । रुन्ध्यात् सूक्ष्माङ्गयोगेन, सूक्ष्मौ मानसवाचिकौ ॥ १२१४ ॥ रुणझ्यथो काययोगं, स्वात्मनैव च सूक्ष्मकम् । स स्यात्तदा विभागोनदेहव्यापिप्रदेशकः ॥ १२१५ ॥ शुक्लध्यानं समुच्छिन्नक्रियमप्रतिपाति च । ध्यायन पञ्चहूस्ववर्णोच्चारमानं स कालत: ॥ १२१६ ॥ शैलेशीकरणं याति, तच्च प्राप्तो भवत्यसौ । योगव्यापाररहितोऽयोगी सिद्ध्यत्यसौ ततः ॥ १२१७ ॥ गत्यानुपूर्दो देवस्य, शुभान्यखगतिद्वयम् । द्रौ गन्धावष्ट च स्पर्शा, रसवर्णाङ्गपञ्चकम् ॥ १२१८ ॥ तथा पञ्च बन्धनानि, पञ्च संघातनान्यपि । निर्माणं षट् संहननान्यस्थिरं वाशुभं तथा ॥ १२१९ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy