SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ जल्पन्ति विना हेतुं न चौत्तमाः । हेतुव्यक्तिं यदि पुनर्जिज्ञासुस्तर्हि तां शृणु ॥ ५८३ ॥ अस्मिन्पुरे रत्नपुरे' पुरन्दर इवापरः । पराक्रममभुत्वाभ्यामभूद्भपः पुरन्दरः॥ ५८४ ॥ कश्चित्पॉटच्चरश्चैतन्नानावेषधरः 'पुरम् । मुमोष निःशेषमपि दुर्दैवमिव दुर्दमः॥५८५ ॥ विचित्राणि स्म खात्राणि 'दत्ते चित्तेप्सितानि। सः। आदत्ते स्म। धनैः पात्राण्यमात्राणि भूतान्याप ।। ५८६ ॥ तलारक्षादिकै रक्षाकरैरप्युत्कटै टैः। न कैश्चित्स्खलयांचक्रे 'सरित्पूर! इव द्रुमैः ॥ ५८७ ॥ दिनान्तरे नरेशस्य स्वास्थानीमंधितस्थुषः। प्रणम्य सम्यग् विज्ञप्तः पोरैश्चौरैकविप्लवः ॥ ५८८ ॥ रोषारुणेक्षणेनाथ क्षोणिनाथेन 'तत्क्षणात । आहानपूर्वमाक्षिप्त 'आख्यदारक्षकाग्रणीः ।। ५८९ ।। नास्मिन् व्याधाविवांसाध्ये सिध्यत्कापि प्रतिक्रिया । मया नापि मदीयेन नेतस्तेनोचितं कुरु ॥ ५९० ।। वर्यस्तेजस्विनां राजा'धुर्यथयशस्विनाम् । तमस्विन्यां स्वयं चौरमन्वैषीनश्चर्यया ॥ ५९१ ॥ काप्यन्यदा दत्तखात्रं 'सलोत्रं तं तमश्चये । भूपो व्यभावयत्कि वा नॉर्ममत्तैः प्रसाध्यते ॥ ५९२ ॥ तन्निर्णयाय तत्स्थानपरिज्ञानाय चान्वगात् । तं 'गुप्तत्तिर्नृपतिर्बकधूर्त्तस्तिमि यथा ॥ ५९३ ॥ धूर्तेन तेन स्तेनेन' कयश्चित्पार्थिवोऽनुगः । जवादवागामि देवेऽनुकूले वा न किं भवेत् ॥ ५९४ । प्रत्युत्पन्नमतिः स्तेनपतिस्तत्क्षणतस्ततः। राज्ञः किश्चिद्वञ्चयित्वा दृष्टिं धृष्टोऽविशन्मठम् ।। ५९५ ॥ तस्मिंश्च नाम्ना कुमुदस्तपः कुमुदचन्द्रमाः। मठे 'शठेतरप्रष्ठस्तिष्ठनास्ति' स्म तापसः ।।५९६॥ तस्मिस्तदानीं निद्राणे मठान्तः स शठाग्रणी । जीवोक्षतोत्रं लोखं तन्मुक्त्वांगार्दन्यतः कचित् ॥ ५९७ ॥ इतस्ततस्तमन्विष्यन् 'पार्थिवः पारिपंथिकम् | द्राक्' प्रविष्टो मठेऽद्राक्षीत्सलोपत्रं तत्र तापसम् ॥ ५९८ ॥ क्रुधोऽभ्यधाच वसुधाधिपतिः पतितापसम् । दाण्डाजिनक ! रे दुष्ट ! रे रे तस्कर ! मस्करिन् । ।। ५९९ ॥ स्तेयं विधाय रे संप्रत्येव सुप्तस्य कैतवात् । अलीकनिद्रां दधतो दीर्घनिद्रां ददामि ते ॥ ६०० ॥ भाषितैरिति भूभ वज्रपातैरिवोद्धतैः । भयोद्धान्तः स संभ्रान्तः प्रबुद्धोऽप्यभ्यधानाहि ॥ ६०१ ।। सुभटबन्धयित्वा च निष्कृपेण नपेण सः । प्रातर्वध्यतयादिष्टो धिगहो! निर्विचारता ॥ ६०२ ।। अविचार्य विना चौयमायो ! मार्योऽस्मि किं ? हहा ! । तस्येत्युक्तिस्तदा सत्याप्यंभूर्दधिकधिकृते ।। ६०३॥ यदा देवं विघटते तदा संघटते तुकः ? । एकाक्येव हि चन्द्रोऽपि ग्रस्यते पश्य राहुणा ।। ६०४॥ कृतान्तदुर्दान्तभटेरिव भूपभेटैस्ततः । विडंब्य विविधं मौण्ड्यरासमारोपणादिना॥६०५।। प्रोणितप्रतिकूलायां शूलायां सोऽध्यरोप्यत । अहो! प्राकृतदुष्कर्मविपाकः फोऽपि दारुणः॥ ६०६॥ युग्मम् ।। शान्तस्यापि तदा तस्य कोपः प्रादुर्रभूद् भृशम् । न किं तापितमत्युष्णं जलं स्यादपि शीतलम् ॥६०७॥ विपद्य सद्यः सोऽत्युग्रः समपद्यत राक्षसः। तथावस्थाविपनानां स्याद्गतिर्हि तथाविधा ॥६०८॥ तेन रुष्टेन दुष्टेन निकृष्टेन नृपः क्षणात् । एकोऽपि पश्चतां निन्ये ही राभस्यकृतेः फलम् ॥६०९।। पुरलोकोऽपि पुरतः सर्वोऽपि निरवास्यत । अविमृश्य कृते राज्ञा पीड्यन्ते हि प्रजा अपि ॥६१०॥ योऽद्याप्यन्तःपुरं याति तं निहन्ति स तत्क्षणात् । परं विषहते हन्त को वान्तःपुरचारिणम् ॥६११॥ अनेन हेतुना वीर ! वारयामि पुरान्तरा। इव कीनाशवक्त्रान्तस्त्वां विशन्तं हितैषिणी ।।६१२।। कुमारः'शारिकामात्रवाक्चातुर्यहितोक्तिभिः। श्रुत्वेति विस्मयं भेजे तद्भयं न 'पुनर्मनाक् ॥६१३ ।। नैव कौतुकिना भाव्यं भीरुणा नालसेन च । प्रत्युतेत्युत्कतां पाप प्रवेष्टुं तत्पुरं तदा॥६१४॥ रक्षःपराक्रमप्रेक्षाकौतुकार्दकुतोभयः। रणोर्वीमिव वीरः श्राक्स प्राविक्षत्ततः पुरम् ॥ ६१५ ॥ तत्र 'कुत्रापि मलयाचलवच्चान्दनोच्चयान् । स्वर्णाधमात्रमित्राणि भृङ्गाङ्गस्वटुंवत्कचित् ॥६१६।। कापि कर्पूरशाल्यादिसस्यराशीन् । खलेष्विव । पूगाधंगण्यपण्यानि कापि सार्थस्थितिष्विव ॥ ६१७ । खाद्यापणगणं कापि सरोवत्परमोदकम् । कचिद् दौष्यिकहट्टौघं शशिव विशदांशुकम् ॥ ६१८ ॥ निधिवद् घनसाराढ्यान् । कचित्सौरभिकीटकान् । हिमाद्रिवद् गान्धिकाट्टान्' कचिच्च विविधौषधीन् ॥ ६१९ ॥ बुद्धिहट्टान भावशून्यान् काप्यभव्याङ्गिपुण्यवत् । सुवर्णैः शास्त्रवत्पूर्णान् ' कापि सौवर्णिकापणान् ॥ ६२०॥ कचनानन्तमुक्ताढ्यान् 'मुक्तिवन्मौक्तिकापणान् । वनवद्विद्रुमैः पूर्णान् कचिद्वैदुमिकापणान् ॥ ६२१ ॥ रत्नाद्रिवन्मणिवणिविपणीः'सुमणीः कचित् । देवताधिष्ठितान् द्योवत् कुत्रचित्कुत्रिकपिणान्। ॥ ६२२ ॥ सर्वत्रापि तु शून्यत्वं सुप्तप्रमत्तचित्तवत् । सश्रीकतां च श्रीकान्तवत्योच्चैः सर्वतोमुखम् ।। ६२३ ॥ प्रेक्षावान् प्रेक्षमाणोऽसौ सर्वरत्नमयं क्रमात । जगाम क्ष्मापतेर्धाम विमानमिव नाकिराट् ॥ ६२४ ॥ नवभिः कुलकम् ।। गजशाला-वाजिशाला-शस्त्रशालादिकाः क्रमात् । उल्लवयंश्चन्द्रशालामलंचक्रे स चक्रिवत् ।। ६२५ ॥ प्रेक्षाश्चक्रे'च तत्रैकं स शक्रशयनीयवत् । शयनीयमनणीयः कमनीयमणीमयम् ।। ६२६ ॥ प्रीतेः शेते स्म तत्रैष निर्रनिर्भरनिद्रया । श्रमापनुत्त्यै स्वावास इव वासवसाहसः ।। ६२७ ॥ क्रुद्धः प्रेक्ष्य मनुष्यांघिप्रचार स निशाचरः। तत्रांथांगान्महाव्याध इव पश्चास्यपृष्ठगः ॥ ६२८ ।। सुखसुप्तं च तं दृष्ट्राऽध्यासीघझ्यातुमयलम् । नन्यिस्तल्लीलयाप्येषोऽकादिहह ! धृष्टता ।। ६२९ ॥ तदेन केन मारेण मारयामि स्ववैरिणम् । नखैरेव फलनोटं बोटवाय॑स्य किं शिरः॥६३०॥ गदया यदि वा सद्यश्चूर्णपे पिनष्म्यमुम् । छिनधि चिर्भटच्छेदं किं वा क्षुरिकया रयात् ॥ ६३१ ॥ ज्वलन्नेत्राग्निना रुद्रः स्मरंदाहं दहामि वा । आकाशे कन्दुकोल्लालमुञ्चरुल्लालयामि वा ।। ६३२ ॥ मध्येऽन्त्यसिन्धु सौधस्थमेवोत्पाट्य क्षिपामि वा । सुप्तमेव गिलाम्येनं यद्वांजगरलीलया ॥ ६३३ ।। यद्वात्रागत्य मुप्तः सन् ही! हन्येत कथं मया ? । गृहे गौरवमेवाहमोगतस्य रिपोरपि ।। ६३४ ॥ यतः-आगतस्य निजगहम 98 श्रीश्राद्धविधिप्रकरणम
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy