________________
प्रयातुं 'स्वपुरी को न दिव्या प्रतिबध्यते ।। ५३१ ॥ तत्तद्भया' कुमारस्य तत्तीर्थस्य च सेवया । तान्येव सुदिनाहानि मेनिरेंऽवनिपादिभिः ॥ ५३२ ॥ यथा कृतार्थिते एते कन्ये 'धन्येन भोस्त्वया । तथा कृतार्थर्याथापि । पुरीं नः पुरुषोत्तम! ॥ ५३३ ॥ इत्यमत्यर्थमभ्यर्थ्य पार्थिवः 'स्वार्थविनिजाम् । पुरी प्रति प्रतस्थेऽथ कुमाराद्यैः सहन्यिदा ॥ ५३४ ॥ सहाँगच्छ-' चन्द्रचूडचक्रेश्वर्यादिभिस्तदा । द्यौर्व्यापि भून्यापिचमूस्पर्द्धयेव विमानगैः ॥ ५३५ ॥ निरन्तरैर्विमानैस्तैरेकच्छवेव सा चमूः । काप्याप तापं नोर्वीव वीततीक्ष्णकरग्रहा ।। ५३६ ।। पुरीपरिसरं माप क्रमाव क्ष्मापः कुमारयुक । वधूवरदिदृक्षोत्काः पौराश्व परमा मुदम् ॥ ५३७ ॥ कामिनीमिव' काश्मीरकुङ्कुमद्रवपङ्किलाम् । आजानुपुष्पप्रकरामिवाईद्देशनविनीम् ॥ ५३८ । समुच्छ्रितैर्ध्वजभुजैर्नृत्यंतीमिव मोदतः । गायन्तीमिव गीतानि' रणत्तत्किङ्किणीकणैः ॥ ५३९ ॥ विश्वश्रीक्रीडनस्थानस्फुरत्तोरणधोरणीम् । मङ्गल्यहेतुमञ्चस्थस्फीतसङ्गीतसङ्गतिम् ॥ ५४० ॥ पुरन्ध्रीजनविस्मेरवक्त्रैः पद्मसरायिताम् । तनेत्रपत्रैः प्रोन्मीलनीलोत्पलवनीयिताम् ॥ ५४१ ॥ महीपतिर्महीयोभिर्महैस्तं समियाद्यम् । सशक्तिनीतिमुत्साहमिव' भावीविशत् पुरीम् ॥ ५४२ ॥ पञ्चभिः कुलकम् ।। मान्यानामपि मान्याय राज्ञा तस्मै 'मुदे ददे । नानाधनाश्वभृत्यादि रीतितिविदामियम ॥५४३ ॥ निजपुण्यप्रसादेन । मासादे श्वशुरार्पिते । स राजापरस्ताभ्यां विललास विलासवान् ॥ ५४४ ॥ शुकः कौतुककृत्तस्मै स्थितः काञ्चनपञ्जरे । व्यासवत्कथयामास प्रश्नाख्यानपहेलिकाः ॥ ५४५ ॥ तत्र स्थितः कुमारेन्द्रः स्वर्ग' गत इङ्गिभृत् । सस्मार स्फारसारश्रीनव प्राच्यस्य कस्यचित् ॥ ५४६॥ सौख्योत्कर्षेण तस्यैवं वर्षे हर्षेण जग्मुषि । क्षणवत्क्षगवदैवाचबभूव भणामि तत् ॥ ५४७ ॥ दुष्टात्मनां क्षणदायां क्षणदायां कदाचन । समासाद्य चिरं' कीरश्रेष्टगोधीसुधारसम् ॥५४८॥ रत्नाकरे'वासवेश्मवरेस पुरुषोत्तमः । सुखेन सुखशय्यायां सुष्वाप वापमाप चं ॥ ५४९ ॥ युग्मम् ॥ निशीथेऽथ' तमोवीथीव्यर्थितांखिलचक्षुषि । यामिकेष्वपि निद्रायमाणेषु निखिलेष्वपि ॥५५०॥ दिव्यांकारधरः स्फारसारशृङ्गारभासुरः। चौरचारचरः'कृष्टकरवालस्फुरत्करः॥ ५५१ ॥ सर्वतोऽपि कपाटेषु नेत्रवन्मुद्रितेष्वपि । पुरुषः सरुषस्तत्र' कुतश्चित्कश्चिदाययौ॥ ५५२ ॥ त्रिभिर्विशेषकम् ॥ तस्मिन् प्रविष्टे प्रच्छन्नमपि दैवे तु दैवतः। जजागार कुमारः साक' स्वल्पनिद्रा हि साधवः॥ ५५३ ॥ कोऽयं कथं किमथे वा माविशद्वासवेश्मनि । कुमारराजश्चित्तान्तावदित्याय चिन्तयत् ॥ ५५४ ॥ सोऽपि कोपित्वदुर्दर्षः प्रावदत्तावदुच्चकैः । रे रे कुमार! वीरश्चेत्सज्जीभव युधे तदा ॥ ५५५ ॥ मृषा पुरुषकारं ते वणिग्मात्रस्य विश्रुतम् । धूर्तस्येव' शृगालस्य सहेऽहं सिंहवत्कथम् ॥ ५५६ ॥ ब्रुवभेवेत्यसौ कीरम पञ्जरमञ्जसा । हृत्वा चचाल' प्रोत्तालश्छद्मोहो! छपवेदिनः॥ ५५७ ॥ कोशानिष्कास्य'निस्त्रिंशं बिलांदिव' भुजङ्गमम् । कुमारोऽप्यन्वधाविष्ट क्रोधाविष्टमना द्रु तम् ।। ५५८ ॥ स पुरस्तात्कुमारस्तु पृष्ठतः' शीघ्रगामिनौ । लब्धलक्षौ ललवाते लघु दुर्गग्रहाद्यपि ॥ ५५९ ॥ तस्य तेजोऽनुसारेणानुसरनथ पान्यवत् । दुष्टाग्रण्येव निन्येऽसौ तेन 'दूरतरं कचित् ॥५६०॥ कथञ्चिन्मिलितायं यावद्दाव इव क्रुधा । पारिपंथिकवज्जीवग्राहं गृह्णाति तं द्रुतम् ।। ५६१ ॥ तावद्गरुडवद्वेगादुत्पपात नभस्तले । पश्यतोऽपि कुमारस्य स नरः पश्यतोहरः ॥ ५६२ ॥ कियडूरं कुमारेण दृष्टः स व्योमनि व्रजन् । ततः परं न दृष्टश्च नष्टस्तस्य' भयादिव ॥ ५६३ ॥ विस्मयाचिन्तयामास कुमारोऽथ 'मम'ध्रुवम् । कोऽप्येष वैरी विद्याभृद्देवो वा दानवोऽथवा ॥५६४ ॥ अस्तु वा योऽपि सोऽप्येष किं मामपकरिष्यति। कीररत्नं हरन् किन्तु द्विधा दस्यूयितं व्यधात् ॥५६५।। हा विज्ञकोटीकोटीर! कीर! हा धीर! वीर! मे । दाता सूक्तिश्रुतिसुखं कस्त्वां प्रियसखं विना? ॥ ५६६ ॥ विधुरे धीरधौरेय! सहायस्त्वां विहाय मे । को भावीति ? क्षणं खेदं कृत्वन्तिर्विममर्श सः॥५६७ ॥ मृषा कृतार्दमुष्माद्वा किं विषादविषादनात् ? । यथाोपक्रमादेव नष्टपाप्तिर्भवेद्यदि ॥ ५६८ ॥ उपक्रमेऽपि साफल्यमैकाग्र्येणैव । नान्यथा । मन्त्रादयोऽपि नैकाऽयं विना सिद्ध्यन्ति कर्हिचित् ॥ ५६७ ॥ तस्मात्कीरेन्द्रर्मप्राप्य न । निवर्चे कथञ्चन । इति निश्चित्य । कृत्यज्ञस्तं भ्रमन्वियेष सः ॥५७०॥ उच्चैरपि चरंश्चौरानुसृतां दिशमंश्रमम् । कापि प्रापन। तं व्योम्नि गतं । भूमौ क वाप्यते ? ॥ ५७१ ॥ तथापि कापि तच्छुदिः। स्यादित्योशावशात्कचित् । स विवेद न निर्वेदं सतां स्थितिरहो ! श्रिते ॥ ५७२ ।। सहप्रवाससंवाससमयोचितमुक्तिजम् । स 'शुकार्थ तथा क्लिश्यमानः प्रर्णिमशोधयत् ॥ ५७३ ॥ इत्थं तदर्थे पृथ्व्यन्तः स बंभ्रम्यदिनान्तरे । पुरतः'पुरमैद्राक्षीपुरमैन्द्रमिापरम् ॥ ५७४ ॥ खस्फाटिकस्फुटस्फारमाकारपरिवेष्टितम् । पतिपतोलिमाणिक्यमतीहारमतिष्ठितम् ॥ ५७५ ॥ मणीमयमहासौधसमूहै रोहणायितम् । सहस्रमुखभृद्गङ्गायितं सौधध्वजवजैः ॥ ५७६ ॥ त्रिभिर्विशेषकम् ॥ पुरस्य 'श्रीविशेषेणांक्षिप्तचित्तः स सत्तमः । भ्रमरः सौरभेणेवांभोजस्याभ्याशमीसदत् ॥ ५७७ ॥ हरिचन्दनदारूचकपाटोल्लासिसौरभम् । विश्वश्रीणां मुखमिव विशेद्यावच्च' गोपुरम् ॥ ५७८ ।। तावप्रोपरिष्ठाच्या ' वरशारिफयैकया । प्रतीहार्येव नितमामार्यवर्यो न्यवार्यत ॥ ५७९ ॥ विस्मितेन ततस्तेन वितेने वाक्यमुच्चकैः । हेतुना केन मां भद्रे ! निवारयसि ? शारिके ! ॥ ५८० ।। सापि पाह। महाप्राज्ञ ! तवैव हितहेतुना । जिजीविषुर्यदि' तदा ' मा विशैतत्पुरान्तरा ॥ ५८१ ॥ मा स्म मंस्था' वृथैवेयं शारिका विनिवारिका । पक्षिजातौ हि वयमप्युत्तमत्वं लभामहे ॥५८२ ॥ वाङ्मात्रमपि
श्रीश्राद्धविधिप्रकरणम
97