________________
हिषे दुर्विषहाँ पशुगर्भ इवामरी ॥ ४७९ ॥ आर्ये ! तिर्यक्त्वभावस्ते 'भवेत्रापि इहांभवत् । धिर धिर विधेर्नेटस्येव सत्पात्रेऽपि विडंबना ॥ ४८० ॥ प्राग्भवे कौतुकात्कस्याप्यकारि विरहस्त्वया । ध्रुवं 'मयोपेक्षितश्च'फलं' तस्य किमयदः ॥ ४८१ ॥ हा हन्त ! हततिर्यक्त्वं तव दुर्दैवसंभवम् । दूरीभावि कथक्कार दौर्भाग्यमिव' जङ्गमम् ।। ४८२ ॥ तस्यामेवं विलापिन्यां सुसखेव सखेदहत । चन्द्रचूडोऽम्बुना सिक्त्वा तां स्वशक्त्या कनी व्यधात् ।। ४८३ ॥ वाग्देवीव नवोत्पन्ना पद्मेवाब्धेर्विनिर्गता। कुमारादेर्मुदद्वैतहेतुः सा दिद्युते तदा ॥ ४८४ ॥ संरम्भात्परिरेभाते ' भगिन्यौ ते उभे ततः । पुलकच्छलमुत्पूराङ्करे प्रेम्ण इयं स्थितिः ॥ ४८५ ॥ कुमारः कौतुकात्योचे ततस्तिलकमञ्जरि !। पारितोषिकमस्माभिः सुभ्र ! लभ्यमिह ध्रुवम् ॥ ४८६ ।। वदेन्दुवदने ! तस्कि देयं देहि च तद द्रुतम् । औचित्यदाना_दाने 'धर्मे च चिरयेन्नु'कः? ॥४८७॥ लश्चौचित्यादिदानर्णहुड्डामुक्तभृतिग्रहे । धर्मे रोगरिपुच्छेदे कालक्षेपो न शस्यते ॥ ४८८ ॥ क्रोधावेशे नदीपरमवेशे पापकर्मणि । अजीर्णभक्ती भीस्थाने कालक्षेपः प्रशस्यते ।। ४८९ ॥ हीकम्पस्वेदरोमाश्चलीलाविच्छित्तिविभ्रमैः। विकारैर्बहधा विद्धाभ्यधान्मुग्धाय धैर्यभृत ॥४९० ॥ सर्वस्वमेव ते देयं सर्वाङ्गीणोपकारिणे । तदानसत्यङ्कारस्तु'स्वामिन्नेष' विभाव्यताम् ॥ ४९१ ॥ इत्युदित्वा प्रमुदिता स्वं चित्तमिव मूर्तिमत् । हृदि न्यास्थत्' कुमारस्य 'मुक्ताहारं मनोहरम् ॥ ४९२ ॥ अत्यादरानिरीहोऽपि कुमारः स्वीचकार तम् । इष्टप्रदत्तमादातुं प्रयोक्त्री प्रीतिरेव हि ।। ४९३ ॥ कीरोऽप्यंभोजराजीभिरभ्यर्च्यत तया रयात् । नान्यथा स्यादुत्तमाना वाङ्मात्रमपि कुत्रचित् ।। ४९४ ।। औचित्यकृत्यनिस्तन्द्रश्चन्द्रचूडस्तदावदत् । दत्ते 'तुभ्यमुभे कन्ये पार' दैवेन मयांधुना ॥४९५ ।। श्रेयांसि बहुविघ्नानि भवन्तीत्यविलंबितम् । एते गृहीते माकचित्तेऽधुना पाणौ गृहाण च ॥ ४९६॥ प्रोग्यैतचन्द्रचूडस्तं विवाहाथै वधूयुतम् । श्रियः पुढे तिलकद्रुनिकुञ्ज नीतवान्मुदा ॥४९७॥ रूपान्तरेण गत्वा घ द्रुतमामूलचूलतः। चक्रे' चक्रेश्वरीश्रोत्रवर्ति तद्वत्तमुत्तमम् ।। ४९८॥ अथो पृथुमणीघण्टाघटाटङ्कारराविणम् । सन्मणीकिङ्कणीकाणोद्यत्पताकाशताकुलम् ॥४९९।। चित्तचोरणमाणिक्यतोरणश्रेणिसुन्दरम् । वाचालीकृतपाञ्चालीकुलं तौर्यत्रिकस्वनैः ॥५०॥ अपारपारिजातादिमालामालाभिरर्चितम् । हाराहारश्रीसारमुच्चलच्चारुचामरम् ॥ ५०१॥ सर्वरत्नमयं साक्षादिव' मार्तण्डमण्डलम् । अपि चण्डतमस्काण्डं खण्डयन्तं स्वतेजसा ।। ५०२ ॥ निस्समानं महामानं विमानं निजवेगतः । पवमानं जयमानं निस्समानन्दतः श्रिता ॥ ५०३ ॥ नानाविमानासीनाभिः समानाभिः समन्ततः । प्राप्ता चक्रेश्वरी तत्र देवताभिनिषेविता॥ ५०४ ॥ लकम्॥ प्रणता गोत्रदेवी च सा वधूभ्यां वरेण च । पुरन्ध्रीकुलवृद्धव तेषामित्यांशिर्ष ददौ ॥५०५।। अवियुक्ताः प्रीतियुक्ताः सौख्यलक्ष्मीजुषश्चिरम् । पुत्रपौत्रादिसन्तत्या विजयध्वं वधूवराः ॥५०६ ॥ अयौचितीचतुरया रयाच्चतुरिकादिकाम् । कृत्वा समग्रसामग्रीमग्रणीभूतया तया ॥ ५०७ ॥ देवाङ्गनागीयमाननिस्तुलोलूलमङ्गलः । व्यधायि विधिना। तेषां पाणिग्रहमहो महान् ॥५०८|| युग्मम् ।।ताभिस्तदा वरेन्द्रस्य कीरेन्द्रोऽनुचरस्थितिः । स्फीतैर्गीतंर्गीयते स्माहो! महत्संनिधेः फलम् ॥५०९॥ अहो ! कन्याकुमाराणां निस्समः सुकृतक्रमः । सुरी चक्रेश्वरी' चक्रे येषांमुद्वाहमङ्गलम् ॥५१०॥ तत्र प्रधानविविधक्रीडास्थानमनोहरः। सप्तभूमतया सप्तद्वीपश्रीणामिवालयः ॥ ५११ ॥ गवाक्षरसक्षैश्च सहस्राक्षश्रियं श्रयन् । विन्ध्योर्वीध्रायमाणैश्व चित्तहन्मत्तवारणः ॥ ५१२ ॥ कापि । कर्केतनवातैः। पृथुत्रिपथगायितः । कुत्रचिद् वयंवैडूर्यैः कालिन्दीसलिलायितः ॥ ५१३ ॥ पद्मरागैः कचिद्भागे' सन्ध्यारागसजूरिव । कुत्रापि स्वर्णविन्यासात्। स्वर्णाद्रिप्रस्थवानिव ॥ ५१४ ॥ हरित्तृणानणीयः श्रीहरिन्माणगणैः । कचित् । आकाशस्फटिकन्यासैराकाशभ्रान्तिकृत् कचित् ॥ ५१५ ॥ कचिदऊपलैरालोकात्मज्वलितानलः । कचिच्चन्द्रोपलैश्चन्द्रातपात्पीयूषवषुकः ॥ ५१६ ॥ विधाय सौधः सौधर्मावतंसक इवतरः। सर्वरत्नमयस्तेषां मादायि स्थितये तया ॥ ५१७ ॥ सप्तमिः कुलकम् ॥ तस्मिन् विस्मेरपुण्यश्रीस्तया 'पूरितवाञ्छितः । ताभ्यां समं सदेवीभ्यामिव' दोगुंदुकः सुरः॥ ५१८ ॥ विक्रीयापि ' तपः स्वं यत्पार्थ्य कैश्चित्तपस्विभिः। तर्दशेष वैषयिकसुखसर्वस्वमन्वभूत् ॥ ५१९ ॥ युग्मम् ॥ तत्तीर्थभक्त्या ' दिव्यर्दिभुक्त्या युक्त्या च ' जाययोः । तस्मिन् भवेऽपीभ्यभुवा ' लेभे सर्वार्थसिद्धता ॥ ५२० ॥ शालिभद्रस्य । गोभद्रमुरः संबन्धतः पितुः । पूरयामास सर्वाङ्गान् भोगान् । किमिह 'कौतुकम् ? ॥ ५२१ ॥ अत्याश्चर्य त्वपूर्यन्त चक्रेश्वास्य' यत्तदा । पितृमात्राद्यसंबन्धेऽप्यभीष्टा भोगसंपदः ॥ ५२२ ॥ प्राचीनपीनपुण्यस्यभ्युिदये किमु वाद्भुतम् ? । गङ्गादेव्याऽभुक्तभोगान्नृत्वेऽपि' भरतश्विरम् ॥ ५२३ ॥ देव्यादिष्टश्चन्द्रचूडस्तद्वधूवरवृत्ततः । नृपं 'वर्धापयामास ' कनकध्वजमन्यदा ॥ ५२४ ॥ स्फीतप्रीतिः क्षितीशोऽपि दर्शनोत्कण्ठया रयात् । प्रेर्यमाणः परप्रेम्णा निर्ययौ निजसैन्ययुक् ॥ ५२५ ॥ शुद्धशुद्धान्तसामन्तमन्त्रिश्रेष्ठ्यादिभिर्वृतः । तत्रापैरव दिवसैः ससैन्यः स समागमत ॥ ५२६ ॥ कुमारकीरकन्याथैः सद्यः'संमुखमांगतैः। संभ्रमेण प्रणेमेऽसौ' गुरुः शिष्यवरैरिव ॥ ५२७ ॥ स्वजनन्या च ते कन्ये निःसामान्येन केनचित् । सञ्जग्मातेतमा प्रेम्णा' धेन्वा वत्से' इवोत्सुके ॥ ५२८ ।। विश्वसारं कुमारं तं दिव्यद्धिं च विलोक्य ताम् । नृपः सपरिवारस्तं परमहिममानयत् ॥ ५२९ ॥ अातिथ्यं' कामगव्या इव देव्याः प्रसादतः । ससैनस्य रसेनस्य'द्राक् 'चकार' कुमारराट् ॥५३० ॥ तद्भत्त्या रञ्जितो राजा नोत्सुकोऽप्योत्सुकायत ।
96
श्रीश्राद्धविधिप्रकरणम