________________
इवोच्चकैः । स्थातुं तत्रांक्षमोऽमज्जद् भानुमान् पश्चिमाम्बुधौ ॥ २७३ ॥ तत्र सर्वत्रगास्तोकशोकमकटिताध्वना । पूर्वस्याः प्रमृतं ध्वान्तं' माविशत्तरसा सुखम् ॥ २७४ ॥ अन्तःशोकेन लोकः प्राक् सकलोऽप्याकुलीकृतः । तदा तमोभिर्बहिरप्यहो मलिनचेष्टितम् ॥ २७५ ।। त्रैलोक्यमलिनीकारकारणं दूरयंस्तमः । अामृतकरः प्रादुर्बभूव द्विजनायकः ॥२७६ ॥ शशी ज्योस्नारसासारैः कन्यां तिलकमञ्जरीम् । आप्याययत् 'कृपयेव वल्लीमिव नवाम्बुदः ॥२७७॥ यामिन्याः पश्चिमे यामेऽथो विपचिदपश्चिमा । पथिकीव ज्ञातपथोत्तस्थौ किंचिद्विचार्य सा ॥ २७८ ॥ सखीभिः सह सायासीत्सहसाराममध्यगम । चक्रेश्वर्या गोत्रदेव्याः सद्य निश्छद्यमानसा ॥२७९ । माहात्म्यसम सत्पद्ममालाभिः कुलदेवताम् । अभ्यच्च भूयसी भक्तिरिति कन्या व्यजिनपत ॥ २८० ॥ स्वामिन्यकृत्रिमतान्तरभक्त्या मया' यदि। सर्वकालं पूजितासि प्रणतासि स्तुतासि च ।। २८१ ॥ तदानीर्मद्य सधस्त्वं प्रसध निरवद्यगी। दीनाया मामकीनायाः स्वसुः शुदि समादिश ॥२८२॥ नोचेन्मया भवेऽप्यस्मिन् मातरत्याजि भोजनम् । इष्टस्यांनिष्टशङ्कायों को वा भुञ्जीत नीतिवित् ।।२८३॥ तस्या भक्त्या च शक्त्या चेत्युक्तियुक्त्या च तुष्टहृत् । साक्षाद्रभूव देवी द्रागैकाग्र्याकिं न सिद्ध्यति ? ॥ २८४ ॥ जगादापि प्रसादार्दा ' भद्रे ! भद्रं तव स्वसुः । वत्से ! ह.
वेदविच्छेदं कुरु स्वीकुरु भोजनम् ॥ २८५ ॥ मासेन लप्स्यसेऽशोकमजयोः शुद्धिमजसा । तदैव दैवयोगेन तया' सॉस्यसेपि च ॥ २८६ ॥ कदा कथं कनु पुनः स्वस्वसुमेम सङ्गमः । इत्थं पर्यनुयुझे चेदाचक्षेऽहं तदा शृणु ॥ २८७ ।। अपरेण पुरीतोऽस्या दूरेणास्ति महत्तरः । कातराणां दुरुत्तारः कान्तारस्तरुगहरैः ॥२८८ ॥ तस्मिन् समृद्ध। राज्ञोऽपि'न करमसरः कचित् । राजदारा इवांसूर्यपश्याचांत्र शिवा अपि ॥ २८९ ।। मणीमयं च 'तत्रोचैश्चैत्यं श्रीऋषभप्रभोः । भानोविमानमिव यद्विभाति भुवमीगतम् ॥ २९० ॥ जिनेन्द्रमूर्तिनिस्तन्द्रचन्द्रकान्तमणीमयी । तदन्तर्भाति पूर्णेन्दुमण्डलीव दिवोऽन्तरे।। २९१ ।। कल्पद्रुकामसुरभीकामकुंभादिभावतः । माहात्म्यसारमादाय' या व्यधायीव वेधसा ॥ २९२ ।। तस्याः प्रशस्यातिशयस्फूर्तेमर्नेस्त्वमर्चया। जामेनिजाया वृत्तान्तं भोत्स्यसे लप्स्यसे च ताम् ।। २९३ ॥ तत्रान्यदपि ते सर्वे शुभं भावि' सुनिश्चितम् । यद्वा देवाधिदेवस्य सेवया किं न सिध्यति ? ॥ २९४ ॥ यदि सुभ्र! ब्रवीष्येवं तस्मिन् दुरतरेऽन्वहम । जिनार्चार्थ कथं यामि ? पश्चादायामि वा कथम् ॥२९५|| भणामि शृणु सुश्रोणि ! तत्राप्यौपयिकं तदा । कार्योपायो ह्यसंपूर्णस्तर्णमुक्तोऽपि निष्फल: ॥ २९६ ॥ ममास्ति चन्द्रचूडाहः शक्तिमांश्चन्द्रचूडवत् । आदिष्टसर्वकार्येषु तत्परः किङ्करः सुरः ॥ २९७ ॥ रूपं कलापिनः कृत्वा स त्वां नेतेप्सितं पदम् । मदादेशादिव' ब्रह्मादेशाद् ब्राह्मी सितच्छदः ॥ २९८ ॥ देव्येत्युक्ते झगित्येव पतितोऽभ्रान्तरादिव । हृद्यैकलापी प्रकटोऽभूत्कलापी कुतश्चन ।। २९९ ॥ दिव्यं मयूरमारुह्य। तमसह्यगतिक्रमम। जिनार्चनाय देवीव' यात्यांयाति च'सा क्षणात् ॥ ३००॥ तच्चेदं काननं चेताशैत्यकृच्चैत्यमप्यदः । सा च कन्याप्यहं केकी विवेकी सैष 'मे' पुनः ॥ ३०१॥ एतन्मया स्वचरितं कुमारोदीरितं तव । सौभाग्यसार ! किन्तु त्वां स्वच्छा' पृच्छामि किश्चन ॥ ३०२ ॥ मात्र नित्यमायान्त्या अद्य मासोऽप्यपूर्यत । जामेनामापि नाश्रावं सुरसिन्धोर्मराविव ॥३०३ ।। विश्वकसार! विश्वान्तर्भवता भ्रमता कचित् । रूपादिभिः सरूपा मे कन्या कापि न्यरूप्यत ॥ ३०४ ॥ वशंवद इबावादीत् कुमारः स्फारगीस्ततः। वित्रस्तहरिणीनेत्रे ! त्रैलोक्यतरुणीमणे! ॥ ३०५ ॥ भ्रमतापि मया काचिन्नांशेनापि ' समा त्वया । प्रक्षि प्रेक्षिष्यते नापि सदेव प्रेक्ष्यते यतः ॥ ३०६ ॥ युग्मम् ।। परं' शबरसेनायोमटव्यां दिव्यदेहभृत् । दोलाधिरूढः सुप्रौढयौवनश्रीमनोरमः ॥ ३०७ ॥ वाङ्माधुर्यषयोस्पस्वरूपैः सशस्तव । तापसेन्द्रकुमारः'माग्' मयादर्शि सुदर्शने !॥३०८॥ युग्मम् ॥ तस्य' स्वाभाविकप्रेमोपचारविरहस्पतेः । दलचलज्ज्वलदिवाचापि हन्मे मनस्विनि! ।। ३०९ ।। स त्वमेव 'स एव त्वं यदा सा ते स्वसैव सः । विधेर्विलसितं'हन्त किश्चिद्वाचामगोचरः ॥ ३१० ॥ तावत्कीरः कलकलं' कुर्वनाख्यदखर्ववाग् । हुं हुं कुमार ! माग सातं मयाख्यातं चाते बदः ॥ ३११ ॥ नूनं । कन्यैव स मुनिकुमारोऽस्याः स्वसैव च । मझानाद्'मासपूर्तेश्च मेलितांध कथश्चन ॥ २१२ ॥ विश्वसारं स्वसारं चैदयक्षिष्ये तदा मुदा । निमित्तज्ञाय ते कीर! करिष्येऽर्चनमम्बुजैः ।। ३१३ ॥ इत्थं तिलकमञ्जर्या कुमारेण'तु 'सादरम् । साधु साध्वभ्यधाः 'माझेत्युपाहि विहङ्गराद् ॥ ३१४ ।। इतश्च मणिसिञ्जानमजुमजीरराजिनी। वियतः प्रपतञ्चन्द्रमण्डलीभ्रमदायिनी ॥ ३१५ ॥ सितच्छदाभिः सामर्ष सानुराग सितच्छदैः । वीक्ष्यमाणा' कुमाराधैरपि सपीतिविस्मयैः ॥ ३१६ ॥ अतिदीर्घनभोमार्गोल्लङ्घनश्रमविहला । कुमारीकसरस्येका इंसी दिव्या व्यलोलुठीत् ॥ ३१७ ॥ त्रिभिर्विशेषकम् ॥ सा साध्वसवशात्कम्मदेहा स्नेहादिवोच्चकैः । पश्यत्यास्यं कुमारस्य भाषते स्म नृभाषया ॥३१८ ॥ साविक श्रेणिमाणिक्य ! शरणागतवत्सल !त्रोतस्त्रायख त्रायस्व 'कृपासार ! कुमार ! माम् ॥ ३१९ ।। अहं त्वां शरणं प्राप्ता' शरण्यं शरणार्थिनी । यद्बज्रपञ्जरायन्ते' महान्तः शरणागते ॥३२० ।। समिरः 'सुस्थिरः शैलः प्रचल: प्रज्वलज्जलम् । अनल: शीतलवाणुर्मेरुर्मेरुरथाणुकः ॥३२१॥ व्योमिन पद्म'खरे शृङ्गमपि स्याज्जातु कुत्रचित् । कल्पान्तेऽपि न मुञ्चन्ति धीरास्तु शरणागतम् ॥ ३२२ ॥ युग्मम् ।। प्राज्यं राज्यं रजस्यन्ति नयन्ति निधनं धनम् । धीराः'पाणांस्तृणीयन्ति त्राणाय शरणार्थिनाम् ।। २२३ ।। ततस्तस्याः स पिच्छानि करैः कमलकोमलैः । स्पृशन् बभाषेमाभैषीमाभैषीरु! भीरुवत् ॥ ३२॥ नरेन्द्रः खेचरेन्द्रश्च
92
श्रीश्राद्धविधिप्रकरणम्