SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ प मैन्यत्किञ्चिद्विचार्यताम् ।। १६७ ।। तैस्तैर्विकारैराकारैः प्रकारैश्च सदुक्तिनैः । प्रेक्षणैर्लक्षणैश्चैनं जाने काञ्चन कन्यकाम् ।। १६८ ।। कुतोऽन्यथा तदा पृष्टः सोऽभूद् बाप्पांबुपूर्णदृग् । अबलानामिदं चिह्नं नोत्तमे पुंसि संभवेत् ।। १६९ ।। न घोरः समि ( मी )रः सोऽपि किन्तु दिव्यं किमप्यदः । नोचेन्महर्षिमेवैषोऽपाहार्षीन्नतु नौ कुतः १ ॥ १७० ॥ धन्या कापि दैवतादिदुर्प्रहात् । विडम्ब्यते ध्रुवमेवं दुदैवं प्रति कः प्रभुः १ ॥ १७१ ।। दुष्टग्रहाद्विमुक्ता च सा त्वामेव वरिष्यति । दृष्टपूर्वी सुपर्वद्धुं कोऽन्यत्र कुरुते रतिम् ।। १७२ ॥ दुष्टग्रहाद्विमोक्षोऽपि तस्याः संभाव्यते द्रुतम् । रात्रिग्रहादिवब्जिन्यास्तव शूर ! शुभोदयात् ॥ १७३ ।। सङ्घस्यते च ते सद्यः सापि दैववशात्कचित् । आवश्यकी हाभीष्टार्थसिद्धिः सद्भाग्यशालिनाम् ॥ १७४ ॥ संभाव्यापि प्रोच्यमानं माननीयमिदं त्वया । ज्ञास्यते चॉल्पकालेन सत्यासत्यत्वनिर्णयः ।। १७५ ।। दुरालापान् कुमार ! सुविचारवित् । किमङ्ग कुरुषे धीर ! पुरुषेष्विति नौचिती ।। १७६ ।। इति कीरगिरं युक्तियुक्तां मनसिकृत्य सः । कृत्यवित्यक्तशोकोऽभूद् विज्ञेोक्तिः किं न साधयेत् १ ॥ १७७॥ तमिष्टदैवतमिव स्मरन्तौ तौ यतीश्वरम् । वाजि - राजमथांरुह्य पथि प्राग्वत् प्रचेलतुः ॥ १७८ ॥ काननानि नगान्नैकानांकरांन्नगराणि च । सरांसि सरितोऽप्युच्चैः समुल्लङ्घ्य सहस्रशः ।। १७९ ।। निरन्तरमयाणेन प्रयान्तौ तौ क्रमात्पुरः । प्रकाममभिरामदुर्माराममलुलोकताम् ॥ १८० ॥ युग्मम् ॥ निस्सीमद्रुमसुमभ्रमद्भ्रमरझङ्कृतैः । स्वागतं निजगादेव कुमारेन्द्राय सादरम् ? ॥ १८९ ॥ प्रविशन्तौ च तौ तत्र मीतौ प्रेक्षांबभूवतुः । प्रासादमादिदेवस्य दीव्यन्नव्यमणमियम् ।। १८२ ॥ भो भवद्वयलाभस्ते भाव्यंत्रेति कुमारराट् !। दूरादीकारयांचक्रे कंप्रया' यत्पताकया ।। १८३ || तिलकडुममूलेऽवं नियम्य कुसुमाद्यथ । प्रगुणीकृत्य चैत्यान्तः कुमारः कीरयुग ययौ ॥ १८४ ॥ विधिविद्विधिवत्पूजां विधाय विविधैः सुमैः । विनिद्रधीर्जिनेन्द्रं संस्तोतुमित्युपचक्रमे ।। १८५ ॥ श्रीमयुगादिदेवाय सेवाहेबाकिनाकिने । नमो देवाधिदेवाय' विश्वविश्वैकदृश्वने ।। १८६ ।। परमानन्दकन्दाय परमार्थैकदेशिने । परमब्रह्मरूपाय नमः परमयोगिने ॥ १८७ ।। परमात्मस्वरूपाय परमानन्ददायिने । नमस्त्रिजगदीशाय युगादीशाय तायिने ।। १८८ ॥ योगिनामप्यगम्याय प्रणम्याय महात्मनाम् । नमः श्रीशंभवे विश्वमभवेऽस्तु नमो नमः ॥ १८९ ॥ इत्युल्लासेन पनसफलवत्स्फुटकंटकः । जिनं स्तुत्वांप्ततत्त्वार्थः' प्रवासं सोऽकृतार्थयत् ॥ १९० ॥ सतृष्ण इव तचैत्यमभितः सुषमामृतम् । पायं पायं व्यपायं स सौहित्यसुखमन्वभूत् ॥ १९१ ॥ निविष्टश्च विशिष्टश्रीकारणे मत्तवारणे । शुशुभे स्वर्विश्वरिवैरावणे मत्तवारणे । १९२ ।। कुमारः कीरमूचे च किमद्यापि न लभ्यते । तचापसकुमारस्य शुद्धिः कापि ममोदकृत् ॥ १९३ ।। शुकोऽप्यख्यत्सखे ! खेदं माकार्षीईर्षमांवह । आसन्नशकुनांन्नूनमद्य स्याचस्य सङ्गमः ।। १९४ ।। अथ च - शिखामणीयितशिखाजुषं प्रेक्षकमुत्पुषम् । कमनी - यकळापश्रीसकळ 'कळभाषिणम् ॥ १९५ ।। शिखण्डिनः परान् स्वश्रीविशेषेण शिखण्डिनः । कुर्बाणं' वज्रिणोऽर्वाणं न्यत्कुर्वाणं' स्ववेगतः ।। १९६ ।। शिखण्डिवरमारूढा दिव्यं दिव्यतनुद्युतिः । श्रीधर्माराधनमाझा प्रज्ञप्तीव सुरीश्वरी ॥ १९७ ॥ पद्मिनीव समग्राङ्गपद्मसौरभ्यवर्षिणी । प्रस्फुरच्चारुतारुण्या लावण्यामृतसारणी ।। १९८ ।। सर्वाङ्गदिव्याभरणैर्दिशस्तेजोमयीरिव । तवाना का सुमुखी समुपेयुषी ॥ १९९ ॥ पञ्चभिः कुलकम् ॥ श्रीनाभेयविभुं भक्त्याभिवन्द्य स्वककेकियुक् । नर्त्तितुमारेभे रंभेव भुवमीयुषी ॥ २०० ॥ प्रशस्तैर्हस्तकैर्नैकाङ्गहारैः करणैरपि । भावैश्च विविधैर्हृद्यं' नर्सकीव' ननर्च ' सा' ॥ २०१ ॥ कुमारकीरयोश्चिचे तथा तत्र चमत्कृते । सर्व विस्मृत्य संप्राप्ते यथा तन्मयतामिव ॥ २०२ ॥ रूपसारं कुमारं तं ' सापि प्रेक्ष्य मृगेक्षणा | सोल्लासा सविलासीसीच्चमत्कृतिमयी चिरम् ॥ २०३ ॥ भणिता च कुमारेण करभोरु ! भवेन्न चेत् । मनागपि मनः खेदस्तदा पृच्छामि किञ्चन ।। २०४ || ओमित्युक्तवती सापि तेन पृष्टा' विशिष्टवाक् । आमूलचूलमूचे स्वं' - त्तान्तमिति तान्तिहृत् ।। २०५ ॥ कनकश्रीभिः कनकपुर्यामहर्यसंपदि । कनकध्वजरूपोऽभूत्स्वकुळे कनकध्वजः || २०६ ॥ तृणान्यंयमृती चक्रे यः प्रसत्तिस्पृशा दृशा । यद्वैरिणो रणेऽजीवंस्तान्यास्वाद्यान्यथा कथम् १ ।। २०७ ।। सारमन्तः पुरे तस्य प्रशस्यगुणभूषणा | सुरेन्द्रसुन्दरी मूर्त्त्या कान्ता कुसुमसुन्दरी ॥ २०८ ॥ सन्यिदा प्रमदारत्नं प्रमदाप्तिकरं परम् । स्वप्नं सुखस्वप्नेऽप्यस्वप्नेव स्फुटं यथा ॥ २०९ ॥ मैनांकङ्कमुत्सृज्य रतिप्रीतिप्रदायि मे । रतिप्रीतिद्वयं प्रीतिरङ्गादुत्सङ्गमागमत् ॥ २१० ॥ द्राग् विबुद्धा विबुद्धांब्जलोचना' वचनातिगम् । पूर्यते स्म प्रीतिपूरैर्वारिपूरैरिवापगा ॥ २१९ ॥ सापि स्वप्नं यथादृष्टं गत्वाभाषिष्ट 'भूभुजे । सोऽप्येवमूचिवान् स्वप्नफलं स्वप्नविचारवित् ॥ २१२ ॥ सारं साराङ्गशावाक्षि ! कन्या युग्मं जगत्यपि । भावि भविता येन स्रष्टुः सृष्टेः प्रकृष्टता || २१३ ॥ सा श्रुत्वेति कनीलाभेऽभूद्भूरिप्रमोदभाग् । द्वावपीष्टौ प्रकृष्टौ चेत्पुत्रो वा पुत्रिकापि वा ।। २१४ ॥ सा ततः प्राप्ततद्गर्भा क्रमाद्गर्भानुभावतः । वपुः पाण्डिमैदभेन लेभे निर्मळतां किल ।। २१५ ।। मालिन्यं' जलगर्भायाः कादम्बिन्या भवेद्यदि । तस्या' अजडगर्भायास्तर्हि युक्तैव शुभ्रता ।। २१६ ।। युगपद्युगलं पुत्रयोः सुषुवे । सुखेन सा । सम्यग् नीतिरिव द्वैतमद्वैतं कीर्त्तिपद्मयोः || २१७ || अशोकमञ्जरीत्याख्यां प्रथमायाः क्षमापतिः । द्वितीयस्यास्तुतिलकमञ्जरीति व्यरीरचत् ।। २१८ ।। पञ्चभिः पञ्चभिस्तत्र धात्रीभिः परिलालिते । मेराविव कल्पलते ववृधाते क्रमेण ते ।। २१९ ।। कलाकलापं सकलं कलयामासतुश्च ते । स्वल्पैर्दिनैर्विलम्बः स्याद्धी साध्ये धीमतां हि कः ? ।। २२० ।। रूपसंपत्त 1 90 श्रीश्राद्धविधिप्रकरणम्
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy