________________
र्नापि भोगाङ्गैरसंतोषजुषः सुखम् ॥९॥ सुभूमणिकमुखा मम्मणाद्याश्च जझिरे । हासाप्रहासापत्याद्याश्चासन्तोषेण दुःखिताः॥१०॥ प्रोक्तमपि-असन्तोषवतः सौख्यं न शक्रस्यान चक्रिणः । जन्तोः सन्तोषभाजो यदभयस्येव 'जायते ॥ ११ ॥ उपर्युपरि पश्यन्तः सर्व एव दरिद्रति । अघोऽधः पश्यतः कस्य महिमा नोपजायते ॥ १२ ॥ तत्सौख्यपोषिसन्तोषसाधनाय घनादिकम् । परिग्रह परिमितीकुरुष्वापि यदृच्छया ॥ १३ ॥ धर्मः स्वल्पोऽपि नियमपूर्वोऽनन्तफलप्रदः । अनल्पोऽपि विना तेन स्यादल्पफलदः पुनः ॥ १४ ॥ कूपेऽल्पायामाप सरौ वहन्त्यां नित्यमक्षयि । नीरं नीरन्ध्रनीरौघैः पूर्णे सरस नो पुनः ॥ १५ ॥ विधुरेऽपि निजं धर्म न त्यजेनियमे सति । जातु त्यजति सौस्थ्येऽपि विना तु नियमार्गलाम् ।। १६ ॥ उपात्त एव नियमे धर्मे स्याद् दृढतापि च । पशूनामपि मुस्थैर्य दामन्यामेव संभवेत् ॥ १७ ॥ धर्मे दाढ्य फलं वृक्षे जलं नद्या बलं भटे । खलेऽसत्यं जले शैत्यं घृतं भोज्ये च जीवितम् ॥ १८ ॥ तद्धर्मनियमे धर्मदृढत्वे च दृढं बुधैः । यतितव्यं यथाभीष्टसुखपाप्तिः सुखं भवेत् ॥ १९ ॥ रत्नसारः कुमारस्तां निशम्य 'सुगुरोर्गिरम् । सम्यक्त्वपूर्व जग्राह परिग्रहमिति व्रतम् ।।२०।। तद्यथारत्नानां लक्षमेकं मे दश लक्षाश्च काञ्चनम् । मुक्तानां विद्रुमाणां च प्रत्येकं मूढकाष्टकम् ॥ २१ ॥ बदनाणकसङ्ख्यायां त्वष्टौ कनककोटयः । भारायुतं च रूप्यादेः शतं धान्यस्य मूढकाः ॥ २२ ॥ शेषक्रयाणकं भारलक्षं षद् गोकुलानि च । गृहाट्टानां पञ्चशती'यानानां च चतुःशती ॥ २३ ॥ हयाः सहस्रं हस्तीन्द्राः शतमेकमितोऽधिकम् । न सङ्ग्राह्यं न च ग्राह्यं राज्यं व्यापारिताऽपि च ॥ २४ ॥ पश्चौतिचारसंशुदं' स पश्चममणुव्रतम् । प्रतिपद्येति सश्रद्धः श्राद्धधर्ममपालयत् ॥ २५ ॥ सुहृद्भिः सह सत्याहस भ्रमन् 'समयान्तरे । रोलंबरोलनामानं जगामाराममादृतः ॥२६ ॥ आरामश्रियमुत्पश्यः पश्यन् क्रीडागिरि गतः। दिव्यगीतरवं दिव्यनेपथ्यं दिव्यरूपभृत् ॥ २७ ॥ तस्मिन् किन्नरमिथुनं । हास्यं नरविग्रहम् । अदृष्ट पूर्व दृष्ट्वासौ विस्मितः स्मितवार्गवक् ॥ २८ ।। युग्मम् ।। यद्येष मोऽमयों वा'तत्किमैश्वमुखस्ततः । न नरो न सुरः किन्तु तिर्यङ् दीपांतरोद्भवः ।। २९ ।। किं वा कस्यापि देवस्य वाहनं संभवेदिदम् । इत्यांकाभणत् कर्णाम्रेडदूनो नु किन्नरः॥ ३०॥ कुमार! कु विचारान्मां विडंवयसि किं मुधा । स्वैरै विलासवान् विश्वेऽप्यहं हि व्यन्तरः सुरः।। ३॥ त्वमेव तिर्यप्रायोऽसि यत्पित्रापि बहिष्कृतः । देवानामपि दुष्पापाद्धृत्यवद्दिव्यवस्तुनः ॥ ३२ ॥ रे रे ! द्वीपान्तरे दूरे प्राप्तः पित्रा तव कचित् । समरान्ध कारनामा'नीलाभस्तुरगोत्तमः।। ३३ ।। शवक्रमुखः कणेदुबेलश्चश्वलस्थितिः। स्कन्धागेल: सरोषश्च कुनरेन्द्र इवैष च॥३४॥ तथाप्ययं विश्वजनस्पृहणीयस्तु कौतुकम् । सर्वाङ्गीणसमग्रदिहेतुर्नेतुर्निजस्य च ।। ३५ ।। यतः-निर्मासं मुखमण्डले परिमितं मध्ये लघु कर्णयोः, स्कन्धे बन्धुरमप्रमाणमुरसि स्निग्धञ्च रोमोद्गमे । पीनं पश्चिमपार्थयोः पृथुतरं पृष्ठे प्रधानं जवे,राजा वाजिनमारुरोह सकलैर्युक्तं प्रशस्तैर्गुणैः ॥ ३६ ॥ अश्वारोहमनःस्प दिवैकदिवसेन सः । योजनानां शतं याति जवनः पवनादपि ॥ ३७॥ संपत्प्ररोहेऽत्र महारोहेऽश्वारोहतां वहन् । प्रामोत्यंहो ! सप्तमेऽहि वस्तु विश्वेऽप्यनुत्तरम् ॥ ८ ॥ त्वमरे स्वगृहस्यापि रहस्यं नावबुध्यसे । झंमन्यत्वेन मामेवं 'मुधैव च विभाषसे ॥३९ । ज्ञास्यते तव धीरत्वं वीरत्वं विज्ञता च चेत् । तमा
पसीति मी: खेऽगात् किन्नरः किन्नरीयुतः ॥ ४० ॥ तदपूर्वतरं श्रुत्वा कुमारो' गृहमागमत । अत्युच्चैर्वश्चितंमन्यो मन्युमामुन्मनायितः ।। ४१ ॥ मध्येऽगारं गवो' द्वारं दत्वा मश्चकाश्रितः । जगदे सविषादेन पित्रा किं वत्स ! बाधते ॥ ४२ ॥ यः कश्चिद् व्याधिरोधिर्वा ब्रूहि तं तत्पतिक्रियाम् । कुर्वेऽवश्यं न सूक्तानामप्यर्थः स्फुटतां विना ॥४३॥ तद्वाक्यतुष्टस्तवारं झटित्युद्याव्य' सोऽब्रवीत् । यथावृत्तं यथाचित्तं पित्रे चित्रेण सोऽर्यवक् ॥ ४४ ॥ अस्मादिश्वोत्तमादश्वादिश्वायामयमिच्छया । सश्चरिष्णुश्चिरं मास्मान् वियोगार्त्तान् व्यधान्मुधा ॥ ४५ ॥ इत्याद्यांशय तुरगो गोपितः प्राक् प्रयत्नतः । अर्घ्य एव त्विदानीं ते कुर्याः किन्तु यथोचितम् ॥ ४६ ।। इत्युदित्वा ददौ सोऽस्मै तं तुरङ्ग सरङ्गहृत् । याश्चायामपि नार्य चेद्दत्तः स्नेहे तदानलः' ॥४७॥ सोऽप्युचर्ममदे तेन निधानेनेव निर्धनः । अभीष्टस्य विशिष्टस्य प्राप्तौ माघति वा न कः ॥ ४८ ।। मणीखचितसौवर्णवर्यपर्याणमौर्यधीः । कुमारोऽथ तमारुक्षेदुदयादिमिवांशुमान् ॥४९॥ स समानवयाशीलैः सवयःवरैर्वृतः । आरूढरङ्गत्तुरगैर्निरगामगरादहिः ॥५०॥ उच्चैरुच्चैःश्रवस्तुल्यमतुल्योत्तमलक्षणम् । वाह्याल्यां वाहयामास स बाहेन्द्रं सुरेन्द्रवत् ॥ ५१ ॥ धोरितं बल्गितं प्लुत्युत्तेजिते च गती: क्रमात् । चतस्रस्तेन दक्षेण' साक्षेप खेल्यते स्म 'सः ॥५२॥ स पञ्चमी गति शुक्लध्यानेनेवामुना पुनः। नीयमानः परान्सर्वान् सिद्धजीव इवांमुचत् ।। ५३ ॥ अत्रान्तरे श्रेष्ठ्यगारे कीरराद' पञ्जरस्थितः। अवधार्य कार्यसारं वमुसारं सुधीर्जगौ॥ ५४ ॥ भ्राता'तात ! ममेदानीं रखसारकुमारराट् । तं तुरङ्गममारूढः मोढवेगः प्रयात्ययम् ॥ ५५॥ कौतूहलेकरसिकः कुमारश्चश्चलाशयः। जडीलः प्रबलोत्फाल: तुरङ्गश्च 'कुरङ्गवत् ॥ ५६ ॥ अतिविद्युदिल पुनः । न'जानीमः परीणामः कार्यस्यार्य ! कथं त्विति ॥ ५७ ॥ भाग्यैकसिन्धोर्मद्वन्धोंर्न यद्ययशुभं कचित् । तदप्यनिष्टाशकीनि' स्वान्तानि स्नेहलात्मनाम् ।। ५८ ॥ याति यत्रापि पञ्चास्यः स्यात्तत्रापि प्रभुत्वभाक् । सिंही तदपि ही मनोरनिष्टाशङ्कयार्निभृत् ॥ ५९ ॥ सत्यप्येवं यथाशक्ति प्राग्यत्नकरणं वरम् । पालिबन्धस्तडागेऽपि सज्ज एव मुयौक्तिकः॥६०॥ तत्तात! तावकीनः स्यांचादेशस्तदा द्रुतम् । यामि स्वामिन् ! कुमारस्य शुदिहेतोः पदातिवत् ॥ ६१॥ कदाचिद्विषमायां च दशायां'
श्रीश्राद्धविधिप्रकरणम्
87