SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ रत्नावली संप्रति हृता, अद्यापि सर्वस्वं हरिष्यति । बहुभवेषु वैरं निर्यातयिष्यति । वैरविपाकस्य अहह ! दुस्सहदुरन्तत्वं । आलदानादनमित्रेणालं प्राप्त । पुण्याकृष्टसुदृष्टिमुरैस्तद्व्यन्तरात्मसह्य रत्नावली मोचिता" । श्रुत्वेति संविग्नौ नृपधनमित्रौ ज्येष्ठपुत्रं स्वपदे न्यस्य प्रव्रज्य सिद्धौ । इति धनमित्रकथा ।। इति सप्तमगाथार्थः । मज्झण्हे जिणपूआ, सुपत्तदाणाइजुत्ति भुंजित्ता। पच्चकाइ अ गीअत्थअंतिए कुणइ सज्झायं ॥८॥ मध्याहे पूर्वोक्तविधिना विशिष्य च 'प्रधानशाल्योदनादिनिष्पन्ननिःशेषरसवतीढौकनादिना । द्वितीयवारजिनपूजासुपात्रदानादियुक्त्यनतिक्रमेण भुक्त्वा भोजनं कृत्वेत्यनुवादः । माध्याक्षिकपूजाभोज नयोश्च न कालनियमस्तीवबुभुक्षो हि 'बुभुक्षाकालो भोजनकाल ' इति रूढेमध्याह्लादर्वागपि गृहीतप्रत्याख्यानं तीरयित्वा देवपूजापूर्वकं भोजनं कुर्वन्न दुष्यति । आयुर्वेदेवेवमुक्तं-" याममध्ये न भोक्तव्यं यामयुग्मं न लमयेत् । याममध्ये रसोत्पत्तियुग्मादूर्ध्वं बलक्षयः ॥ १॥" सुपात्रदानादियुक्तिश्चेयं । भोजनवेलायां सभक्तिसाधून निमन्त्र्य तैः सह गृहमायाति । स्वयमागच्छतो वा मुनीन् दृष्ट्वा संमुखं गमनादिकं करोति । ततः सविनयं संविग्नभाविताभावितक्षेत्रसुभिक्षदुर्भिक्षादिकालसुलभदुर्लभादिदेयद्रव्य३आचार्योपाध्यायगीतार्थतपस्विबालवृद्धग्लानसहासहादिपुरुषाद्यपेक्षया स्पर्धामहत्वमत्सरस्नेहलज्जाभयदाक्षिण्यपरानुवर्त्तनामत्युपकारेच्छामायाविलम्बानादरविप्रियोक्तिपश्चात्तापादिदानदोषवर्जमेकान्तात्मानुग्रहबुद्ध्या द्विचत्वारिंशद्भिक्षादोषाधदूषितनिःशेपनिजांनपानवस्त्रादेर्भोजनाद्यनुक्रमेण स्वयं स्वहस्तपात्रधरणादिना । पार्चे स्थित्वा भार्यादिपार्थाद्वा दानं दत्ते । द्विचत्वारिंशद भिक्षादोषाः पिण्डविशुद्धयादिभ्योऽभ्यूह्याः । ततो वन्दित्वा स्वगृहद्वारादि यावदनुव्रज्य च निवर्तते । साध्वभावे. वनभ्रष्टिवत्साध्वागमनं जातु स्यात्तदा कृतार्थः स्यामिति दिगालोकं कुर्यात् । तथा चाहुः-"जं साहूण न दिन, कहिं पि तं सावया न भुजति । पत्ते भोअणसमए, दारस्सालोअणं कुज्जा ॥ १॥ संथरणमि असुदं, दुहवि गिण्हत दितयाणऽहियं । आउरदिटुंतेणं, तं चेव हिअं असंथरणे ॥ २॥" 'संथरणमि त्ति' संस्तरणे साधूनां निर्वाहे सति, असंस्तरणे अनिर्वाहे दुर्भिक्षग्लानाद्यवस्थायामित्यर्थः । तथा,-" पहसंतागलाणेसु, आगमगाहीसु तहय कयलोए । उत्तरपारणगंमि अ, दिन्नं सुबहुप्फलं होइ ॥१॥ एवं देसं तु खित्तं तु विआणित्ता य'सावओ । फासुअं एसणिज्जं च देइ' जं जस्स 'जुग्गयं ॥२॥ असणं पाणगं चेव, खाइमं साइमं तहा । ओसहं भेसजं चेव, फासुअं एसणिजयं ॥३॥" औषधमेकमेव द्रव्यं, भेषजं तु बहौषधसंयोगः । साधुनिमन्त्रणभिक्षाग्रहणादिविधिविशेषो मत्कृतश्राद्धमतिक्रमणसूत्रहत्तेरवधार्यः। इदं च सुपात्रदानमतिथिसंविभाग उच्यते । यदागमः-" अतिहिसंविभागो नाम नायागयाणं कप्पणिज्जाणं अन्नपामाईणं' दव्वाणं देसकालसद्धासकारकम्मजुयं पराए भत्तिए आयाणुग्गहबुद्धीए संजयाणं दाणं । " इति सुपात्रदानं च दिव्यौदारिकाद्यद तभोगाभीष्टसर्वसुखसमृद्धिसाम्राज्यादिसंयोगमाप्तिपूर्वकनिविलंबनिर्वाणशर्ममाप्तिफलं । यतः-" अभयं' सुपत्तदाणं, अणुकंपाउचिअकित्तिदाणं च । दोहि वि मुस्को भणिओ, तिन्नि वि भोगाइअं दिति ॥ १ ॥" पात्रता त्वेवमुक्ता-" उत्तमपत्तं साहू, मज्झिमपत्तं च सावया भणिआ । अविरयसम्मदिट्ठी, जहन्नपत्तं मुणेअव्वं ॥ १ ॥" तथा-" मिथ्यादृष्टिसहस्रेषु वरमेको ह्यणुव्रती । अणुव्रतिसहस्रेषु' वरमेको महाव्रती ॥२॥ महाव्रतिसहस्रेषु वरमेको हि तात्विकः । तात्विकस्य (केन) समं पातं 'न भूतं न भविष्यति ॥३॥ सत्पात्रं महती श्रद्धा काले देयं यथोचितम् । धर्मसाधनसामग्री बहुपुण्यैरवाप्यते ॥ ४ ॥ अनादरो विलंबश्च वैमुख्यं विप्रियं वचः । पश्चात्तापश्च पश्चापि सदानं दूषयन्त्यमी ॥ ५ ॥ भिउडी'उद्धालोअणं अंतोवन्ना' परंमुहंठाणं । मोणं 'कालविलंबो नकारो छव्विहो होइ ॥ ६॥ आनन्दाश्रूणि रोमाञ्चो बहुमानः प्रियं वचः । किश्चानुमोदना पात्रदानभूषणपञ्चकम् ।। ७॥" सुपात्रदाने परिग्रहपरिमाणनियमपालने च रत्नसारकुमारकथा । यथा "रत्नविशाला नगरी गरीयः संपदा पदम् । यथार्थनामा समरसिंहस्तत्र नरेश्वरः ॥१॥ व्यवहारी दुःस्थदुःखापहारी तत्र चाभवत् । वसुसारः श्रिया सारः प्रियांस्य च वसुन्धरा ॥२॥ रत्नसारगुणश्रेणी रत्नसारस्तयोः सुतः। सवयोभिः समेतोऽसौ'समेतो वनमन्यदा॥३॥ विनयन्धरसूरीन्द्रान् प्रेक्षावान् प्रेक्ष्य तत्र च । नत्वानाक्षीत्पभोऽत्रापि पाप्यते मुखिता'कथम् ! ॥४॥ मुमुक्षुमुख्या आचख्युर्दक्ष ! सन्तोषपोषतः। भवेत्रापि भवेज्जीवः सुखी न त्वन्यथा कचित् ।। ५॥ सन्तोषश्च भवेद् द्वेधा देशतस्सर्वतस्तथा । तत्र स्याद्देशसन्तोषः सौख्याय गृहमेधिनाम् ॥६॥ परिग्रहपरिमाणग्रहणे गृहिणां पुनः। देशसन्तोषपोषः स्यादतुच्छेच्छानिवृत्तितः॥७॥ सर्वसन्तोषपोषस्तु यतीनामेव संभवेत् । अनुत्तरसुरेभ्योऽयंत्राय॑नुत्तरसौख्यदः॥८॥ उक्तं च पञ्चमाथे-“एगमासपरिआए समणे वाणमंतराणं १दोमासपरिआए भवणवईणं २ एवं तिचउप्पंचछसत्तअट्ठनवदसएगारसमासपरिआए असुरकुमाराणं ३ जोइसिआणं ४ चंदसूराणं ५सोहम्मीसाणं ६ सणंकुमारमाहिंदाणं ७ बंभलंतगाणं ८ सुक्कसहस्सोराणं ९ आणयाइ चऊण १० गेविज्जाणं ११ जाव बारसमासपरिआए समणे अणुत्तरोववाइयदेवाणं १२ तेउलेसं वीईवयइ ति॥" इह तेजोलेश्या चित्तमुखलाभलक्षणा चारित्रस्य परिणतत्वे सतीति शेषः । प्राज्यैनं हि महाराज्यैर्धनै तिघनैरपि । समग्रै 86 श्रीश्राद्धविधिप्रकरणम
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy