SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ च ॥ ३६ ॥ द्धो ज्ञातिस्तथा मित्रं 'दरिद्रो यो भवेदिह । गृहे वासयितव्यास्ते' गृहवृद्धिमभीप्सता ॥ ३७॥, अपमानं पुरस्कृत्य मानं कृत्वा च ' पृष्ठतः । स्वार्थमभ्युद्धरेत्माज्ञः स्वार्थभ्रंशो हि मूर्खता ॥ ३८॥ न स्वल्पस्य कृते भूरि नाशयेन्मतिमान्नरः । एतदेव च पाण्डित्यं । यत्स्वल्पाद भूरिरक्षणम् ॥ ९॥ आदौनस्य। प्रदानस्य कर्त्तव्यस्य च कर्मणः । क्षिप्रेमक्रियमाणस्य' कालः पिबति तद्रसम् ॥ ४०॥ नाभ्युत्थानक्रिया' यत्र 'नालापो मधुराक्षरः । गुणदोषकथा नैव तस्य हर्ये' न गम्यते ॥४१॥ अनाहूतः प्रविशति 'अपृष्टो बहु भाषते । अदत्तमोसनं भुते स पार्थ ! पुरुषाधमः ।। ४२ ॥ अशक्तः कुरुते कोपं निर्धनो मानमिच्छति | अगुणी च गुणद्वेषी पृथिव्यां लकुटत्रयम् ॥ ४३ ॥ मातापित्रोरभरकः क्रियामुद्दिश्य याचकः । मृतशय्यापतिग्राही न भूयः पुरुषो भवेत् ॥ ४४ ॥ बलीयसा समाक्रान्तो वैतसी वृत्तिमश्रियेत् । वाञ्छन्नभ्रंशिनी लक्ष्मी नाभौजङ्गीं । कथञ्चन ॥४५॥ क्रमाद्वेतसवृत्तिस्तु प्राप्नोति महतीं श्रियम् । भुजङ्गत्तिापन्नो' वधमहति केवलम् ॥ ४६॥ कूर्मः सडोचमोसाद्य प्रहारानपि मर्षयेत् । काले काले च'मतिमानुत्तिष्ठेत्कृष्णसर्पवत् ॥४७॥ बलिनापि न बाध्यन्ते लघवोऽप्येंकसंश्रयाः । विपक्षेणापि मरुता यथैकस्था न वीरुधः ।। ४८ ।। उच्छेदयन्ति विद्वांसो वर्द्धयित्वारिमेकदा । गुडेन 'वर्द्धितः श्लेष्मा' यतो निःशेपतां व्रजेत ॥४९॥ सर्वस्वहरणे शक्तं 'शद्वं' बुद्धियुता नराः। तोषयन्र्त्यल्पदानेन । वाडवं'सागरो यथा ॥ ५० ॥ शत्रमुत्पाटयेत्माजस्तीक्ष्णं तीक्ष्णेन शत्रुणा । पादलग्नं करस्थेन' कण्टकेनेव · कण्टकम् ॥ ५१ ॥ अविमृश्य स्वपरयोः ' शक्तिमुत्तिष्ठते तु' यः। सोऽद्धशद्धे शरभवत् । प्रोल्ललनङ्गभङ्गभाक् ।। ५२ ॥ उपायेन हि तन्कुर्याद्यन्न शक्य पराक्रमैः । काक्या कनकसूत्रेण कृष्णसर्पो निपातितः ॥ ५३ ॥ नखिनां च 'नदीनां च शृहिणां शस्त्रपाणिनाम् । विश्वासो नैव कर्तव्यः। स्त्रीषु'राजकुलेषु 'च' ॥ ५४॥ सिंहादेकं बकादेकं शिक्षेच्चत्वारि कुर्कुटात् । वायसात्पश्च शिक्षेत षद् शुनस्त्रीणि गदेभात् ॥ ५५ ॥ प्रभूतकायमल्पं वा यो नरः कर्तुमिच्छति । सर्वारम्भेण'तत्कुर्यात् सिंहस्यैकं पदं यथा ॥५६। वकवच्चिन्तयेदान् सिंहवच्च पराक्रमम् । तृकंचर्चावलुपेत शशवच पलायनम् ।। ५७ ।। प्रागुत्थानं च' युदं च संविभागं च बन्धुषु । स्त्रियमीक्रम्य भुञ्जीत शिक्षेच्चत्वारि कुर्कुटात ॥ ५८ ॥ गूढं च मैथुनं धार्य ' काले चालयसङ्ग्रहः । अप्रमादमविश्वासं पञ्च शिक्षेत वायसात् ।। ५९ ।। बहाशी चाल्पसन्तुष्टः सुनिद्रो लघुचेतनः । स्वामिभक्तश्च शूरश्च षडेते। श्वानतो। गुणाः ॥६०॥ आरूढं तु वहेद्भारं 'शीतोष्णं न च विन्दते । सन्तुष्टश्च भवन्नित्यं त्रीणि शिक्षेत गर्दभात ॥ ६१॥" इत्याद्यन्यदपि नीतिशास्त्रायुक्तं सर्वमौचित्यं सुश्रावकेण सम्यक् चिन्त्यं । यतः-" हितमहितमुचितमनुचितमवस्तु वस्तु स्वयं न'यो वेत्ति । स पशुः शृङ्गविहीनः । संसारवने परिभ्रमति ॥१॥ नो वक्तुं'न विलोकितुं न हसितुं न क्रीडितुं'नेरितुं, न स्थातुं न परीक्षितुं न पणितुं नो राजितुं नार्जितुम् । नो दातुं न विचेष्टितुंन पठितुं नानन्दितुं नैधितुं, यो 'जानाति जनः स जीवति कथं निर्लज्जचूडामणिः ॥२॥ भोक्तुं परिधातुं प्रजल्पितम् । वेचियः स्वपरस्थाने । विदुषां स नरोऽग्रणी ॥३॥" इत्यलं प्रसङ्गेन ॥ व्यवहारशुक्ष्यादित्रयेणार्थचिन्तायां ज्ञातं । यथा-"विनयपुरे इभ्यवसुभद्रापुत्रो धनमित्रो बाल्ये पित्रोद्भृत्या धनहान्या नि:स्वो दुःखी यौवने कन्याया अप्राप्तौ हिया धनार्जनार्थ गतः । खन्यवादधातुवादरसमन्त्रजलस्थलयात्राविविधवाणिज्यनृपादिसेवादावपि धनामाप्याऽत्युद्विग्नो गजपुरे केवलिनं माग्भवं पप्रच्छ । सोऽप्यूचे विजयपुरे गङ्गदत्तो गृहपतिः, कृपणो मत्सरी दानलाभादावन्येषामपि विघ्नकृत, सुन्दरश्राद्धे न मुनिपाचे नीतः। किश्चिद्भावाद्'दाक्षिण्याच'प्रत्यहं चैत्यवन्दना-पूजादि धर्मकरणं स्वीचक्रे । कार्पण्यादिना च पूजादौ शिथिलश्चैत्यवन्दनाभिग्रहं पालितवान् । तत्पुण्येनेभ्यपुत्रस्त्वं जातोऽस्माकं मिलितश्च । प्राग्दुष्कृतच्चिातिनिःस्वो दुःखी च-" यद्यथा क्रियते कर्म तत्तथैवोपभुज्यते । सहस्रगुणमप्येवं ज्ञात्वा कुर्याद्यथोचितम् ॥ १॥" ततः स प्रबुद्धो गृहिधर्म प्रपेदे, दिननिशाद्ययामयोधर्म एव कार्य इत्यभिग्रहं च। ततः श्राद्धगृहे उत्तीर्णः । पातौलिकेन सह पुष्पाणि भागेनावचित्य गृहे चैत्ये चाहन्तं भक्त्यार्चति, द्वितीययामादौ तस्य व्यवहारशुद्धिदशादिविरुद्धत्यागौचित्याचरणादिविधिना व्यवहरतोऽकृच्छेण भोजनादि स्यात् । एवं यथा यथा धर्मे स्थैर्य तथा तथाधिकाधिकधनमर्जयति धर्मे च व्ययति । क्रमात् पृथग् गृहे स्थितो'धर्मिष्ठतया महेभ्यदत्ता कन्यां परिणिन्ये । अन्यदोच्चलति गोकुले गुडतैलादि विक्रेतुं गतो गोकुलाधिपमैङ्गारधिया त्यक्तनिधिस्वर्ण दृष्ट्वा ‘स्वर्णमिदं' कस्मात् त्यज्यते ' ? इत्यूचे । तेनोक्तं-'माग् वयं पित्रा स्वर्णोक्त्या वञ्चितास्त्वमपि वश्चयसे' १ तेनोक्तं अहं कूटं न ब्रुवे'। सोऽप्याह,-' तर्हि गुडादि दत्वा त्वमेव गृहाण'। ततस्तेन तथा कृतं । त्रिंशत्सहस्रमानेन तेनन्येिनापि वहर्जितेन'स महेभ्यो जज्ञे । अहो तद्भवेऽपि 'धर्ममाहात्म्यं । अन्येाः सुमित्रमहेभ्यगृहे कर्मवशादेकाकी स गतः। तदा कोटिमूल्यरत्नैः कृतं हारं 'बहिमुक्त्वा किश्चित् कार्येण सुमित्रो मध्ये गत्वा पश्चादागतो हारमदृष्ट्वान्यिाभावात्त्वयैवात्त इत्युक्त्वा तं राजकुले निन्ये । तेन जिनार्चासदृष्टिसुरकायोत्सर्गपूर्व दिव्यप्रारंभे 'तु रत्नावली सुमित्रस्य ओटितः पतिता । सर्वेषां विस्मयः । ज्ञानी पृष्टः प्राह-“ गङ्गदत्तो गृहपतिस्तद्भार्या मगधा 'श्रेष्ठिपन्याः प्रच्छन्न'लक्षमूल्यं रत्नं जगृहे । तया बहु बहु मार्गणे भार्यामोहाद्गङ्गदत्तः 'तव स्वैरेवात्तं ' इत्योलं ददौ । ततः सा खिन्ना तापसीभूय व्यन्तरो जज्ञे । मगधा तु मृत्वा सुमित्रः, गङ्गदत्तस्तु धनमित्रः । तेन व्यन्तरेण क्रुधा सुमित्रस्याष्टौ पुत्रा निहताः। श्रीश्राद्धविधिप्रकरणम् 85
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy