________________
मुचितं । दुःखितानां दीननार्थान्धबधिरव्याधितादीनां दया यथाशक्ति तत्प्रतीकारश्च । ये किलानन्तरोक्ते लौकिकेऽप्युचिताचरणमात्रे कर्मणि 'न कर्मठास्ते' कथं 'लोकोत्तरे 'लोकोत्तरनर सूक्ष्ममतिग्राह्ये च 'जैने धर्मे प्रवीणाः स्युस्तस्मादवश्यं धर्मार्थिभिरुचितचरणनिपुणैर्भाव्यं । अन्यत्राप्यूचे – “ सव्वत्थ उचिअकरणं, गुणाणुराओ रई अ जिणवयणे । अगुणेसु अ मज्झत्थं, सम्मदिट्ठिस्स लिंगाई ॥ १ ॥” “मुंचति न मज्जायं, जलनिहिणो नाँचला वि हु चलति । न कयावि उत्तमनरा, उचिआ - चरणं विलंघंति ।। ४५ ।। तेणं चिअ जयगुरुणो, तित्थ्यरा वि हु गिहत्थभावंमि । अम्मापिऊणमुचिअं, अनुट्ठाणाइ कुव्वंति ॥ ४६ ॥ इति नवधौचित्यं ।
अवसरे चोचितं वचनमपि महते गुणाय । यथा मल्लिकार्जुनं जित्वा चतुर्दशरैकोटिमुक्ताषण्मूढकचतुदर्श भारमित-द्वात्रिंशद्वैकुम्भशृङ्गार कोटीशाटीमाणिक्यपट-विषापहशुक्त्यादितत्कोशढौकनतुष्टः कुमारनृपो मन्त्रि - आंबडाय राजपितामह - बिरुदकोटीद्रव्यचतुर्विंशतिजात्याश्वादि ददे । स तु तत्सर्वं गृहादर्वार्थिभ्यो ददौ । पैशुन्याद्राज्ञः कोपे किं मत्तोऽप्यधिकं दत्से १ इत्युक्तौ तव पिता द्वादशग्रामस्वामी मम त्वष्टादशदेशस्वामीत्युचितोत्या तुष्टो नृपः पुत्रपदं द्विगुणं च प्रसादं तस्मै ददौ । तदवादिष्म - “ दाने याने माने, शयनासनपानभोजने वचने । सर्वत्रन्यत्रापि हि भवति महारसमयः समयः ।। १ ।। ” अतः समयक्षता सर्वत्रौचित्यबीजं - “ औचित्यमेकमेकत्र, गुणानां कोटिरेकतः । विषायते गुणग्राम, औचित्यपरिवर्जितः ।। १ ।।” इत्युक्तेः । सर्वमनौचित्यं च त्याज्यं । येन च कृतेन मूर्खत्वव्यपदेशस्तदप्यनुचितमिति परिहार्य । तदपि लौकिकशास्त्रोक्तं बहूपकारित्वात् प्रदर्श्यते । यथा—
44
शृणु मूर्खशतं राजंस्तं तं भावं विवर्जय । येन त्वं राजसे लोके ' दोषहीनो मणिर्यथा ॥ १ ॥ सामर्थ्य विगतोद्योगः स्वश्लाघी प्राज्ञपर्षदि । वेश्यावचसि विश्वासी प्रत्ययी दम्भडम्बरे ॥ २ ॥ द्यूतादिवित्तबद्धाशः कृष्याधायेषु संशयी । निर्बुद्धिः प्रौढकार्यार्थी विविक्तरसिको वणिक् ॥ ३ ॥ ऋणेन स्थावरक्रेता ! स्थविरः कन्यकावरः। व्याख्याता चांश्रुते ग्रन्थे प्रत्यक्षार्थेऽप्यपह्नवी ॥ ४ ॥ चपलापतिरीर्ष्यालुः शक्तशत्रुर्रशङ्कितः । दत्वा धनान्यनुशयी ' कविना हठपाठकः ।। ५ ।। अप्रस्तावे पटुर्वक्ता प्रस्तावे मौनकारकः । लाभकाले कलहकृन्मन्युमान् भोजनक्षणे ॥ ६ ॥ कीर्णा - र्थः स्थूललाभेन लोकोक्तौ क्लिष्टसंस्कृतः । पुत्राधीने घने दीनः पत्नीपक्षार्थयाचकः ॥ ७ ॥ भार्याखेदात्कृतोद्वाहुः पुत्रको पात दन्तकः । कामुकस्पर्धया' दाता' गर्ववान्मार्गणोक्तिभिः ॥ ८ ॥ धीदर्पान हितश्रोता ' कुलोत्सेकादैसेवकः । दत्वार्थान् दुर्लभान् कामी दत्वा शुल्कर्ममार्गगः ॥ ९ ॥ लुब्धे भूजि लाभार्थी न्यायार्थी दृष्टशास्तरि । कायस्थे स्नेहबद्धाशः क्रूरे मन्त्रिणि निर्भयः ॥ १० ॥ कृतघ्ने प्रतिकार्यार्थी नीरसे गुणविक्रयी । स्वास्थ्ये वैद्यक्रियाशोषी रोगी पथ्यपराङ्मुखः ॥ ११ ॥ लोभेन स्वजनत्यागी 'बाचा मित्रविरागकृत् । लाभकाले कृतालस्यो महर्द्धिः कलहप्रियः ।। १२ ।। राज्यार्थी गणकस्योच्या मूर्खमन्त्रे कृतादरः । शूरो दुर्बलबाधायां दृष्टदोषाङ्गनारतिः ॥ १३ ॥ क्षणरागी गुणाभ्यासे सञ्चयेऽन्यैः कृतव्ययः । नृपानुकारी मौनेन 'जने राजादिनिन्दकः ॥ १४ ॥ दुःखे दर्शितदैन्यार्त्तिः सुखे विस्मृतदुर्गतिः । बहुव्ययोऽल्परक्षायै परीक्षायै विषाशनः ॥१५॥ दग्धार्यो धातुवादेन रसायनरसः क्षयी । आत्मसंभावनास्तब्धः क्रोधादात्मवधोद्यतः ॥ १६ ॥ नित्यं निष्फलसञ्चारी युद्धक्षी शराहतः । क्षयी शक्तविरोधेन स्वल्पार्थः स्फीतडम्बरः ।। १७ ।। पण्डितोऽस्मीति वाचालः ' सुभटोऽस्मीति निर्भयः । उद्वेजनोऽतिस्तुतिभिर्मर्मभेदी स्मितोक्तिभिः ॥ १८ ॥ दरिद्रहस्तन्यस्तार्थः सन्दिग्धेऽर्थे कृतव्ययः । स्वव्यये ' लेख्यकोद्वेगी दैवांशा त्यक्तपौरुषः ।। १९ ।। गोष्ठीर तिर्दरिद्रश्च क्षैन्यविस्मृतभोजनः । गुणहीनः कुलश्लाघी गीतगायी खरस्वरः || २० || भार्याभयानिषिद्धार्थी कार्पण्येनांप्तदुर्दशः । व्यक्तदोषजनश्लाघी सभामध्यार्द्धनिर्गतः ॥ २१ ॥ दूतो विस्मृतसन्देशः कासर्वांश्चौरिकारतः । भूरिभोज्यव्ययः कीर्तेः श्लाघायै स्वल्पभोजनः ।। २२ ।। स्वल्पभोज्येऽतिरसिको विक्षिप्तश्छद्मचादुभिः । वेश्यासपत्नकलही द्वयोर्मन्त्रे तृतीयकः ॥ २३ ॥ राजप्रसादे स्थिरधरन्यायेन विवर्द्धिषुः । अर्थहीनोऽर्थकार्यार्थी जने गुह्यप्रकाशकः ॥ २४ ॥ अज्ञातमतिभूः कीर्त्यै हितवादिनि मत्सरी । सर्वत्र विश्वस्तमना 'न' लोकव्यवहारवितु ॥ २५ ॥ भिक्षुकोष्णभोजी च गुरुव शिलिक्रियः । कुकर्मण्यपि निर्लज्जः स्यान्मूर्खश्च सहासगीः ॥ २६ ॥” इति मूर्खशतम् ।
अन्यदप्येवंविधं कुशोभाकृत्याज्यं । उक्तं च विवेकविलासादौ ।
66
“ विजृम्भणक्षुतोद्गारहास्यादीन् पिहिताननः । कुर्यात्सभासु नो नासाशोधनं हस्तमोटनम् ॥ १ ॥ कुर्यात्पर्यस्तिकां' नैव' न च पादप्रसारणम् । न निद्रां विकथां नापि सभायां कुक्रियां न च ॥ २ ॥ प्रस्तावेऽपि कुलीनानां हसनं स्फुरदोष्टकम् । अट्टहासोऽतिहासश्च सर्वथनुचितौ पुनः ॥ ३ ॥ स्वाङ्गवाद्यं तृणच्छेदं व्यर्थे भूमेर्विलेखनम् । नैव कुर्यान्नखैर्दन्तनखानामपि घर्षणम् ॥ ४ ॥ न गर्वः सर्वथा कार्यो भट्टादीनां प्रशंसया । व्युत्पन्नश्लाघया कार्य: स्वगुणानां तु' निश्चयः ॥ ५ ॥ अवधार्या विशेषोक्तिः परवाक्येषु 'कोविदैः । नीचेन स्वं प्रति प्रोक्तं यत्तना॑नु॒वदेत्सुधीः ॥ ६ ॥ कालत्रयेऽपि यत्किश्चिदात्मप्रत्ययवर्जितम् । एवमेतदिति स्पष्टं न वाच्यं चतुरेण तत् ॥ ७ ॥ प्रारभ्यते ' नरैर्यच्च
1
श्रीश्राद्धविधिप्रकरणम्
83