________________
स्थतक्रभाण्डे शकुनिकाधृताहिमुखपतितगरलेन । विपी हृष्ठोचे, 'अहो! धर्मित्वं तदा खे स्थिता हत्या दध्यौ, “ दाता शुद्धः, सोशः परवशश्च, शकुनिका सर्पाशना, आभीर्यज्ञा, तत्कस्य लगामि?" इति ध्यात्वा विमी विवेश। तया सा श्यामा कुब्जा कृष्टिनी जज्ञे । इत्यसद्दोषोक्तौ लौकिकज्ञातम् । सदोषोक्तौ राज्ञोऽग्रे वैदेशिकानीतत्रिकपालीपरीक्षा पण्डितकता। यथा-एकस्य कर्णे क्षिप्तं सूत्रं मुखे निर्गतं तस्य श्रुतपलापिनो मूल्यं काणकपाका । अन्यस्यान्यकर्णे निर्गतं तस्य श्रुतविस्मृतस्य लक्षं । तृतीयस्य गले गतं तस्य हृदि श्रुतस्थितेनं मूल्यं । तथा ऋजूनामुपहासो, गुणवत्सु मत्सरः, कृतघ्नत्वं, बहुजनविरुदैः सह सङ्गतिः, जनमान्यानामवज्ञा, सदाचाराणां व्यसनोपनिपाते तोषः, शक्तौ तदप्रतीकारो, देशाधुचिताचारलङ्कन, वित्ताद्यनुसारेणात्युद्भटातिमलिनवेषादिकरणं, एवमादिलोकविरुद्धमिहाप्यपकीयादिकृत । यदुवाच वाचकमुख्यः-"लोकः खल्वाधारः, सर्वेषां धर्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं, धर्मविरुदं च संत्याज्यम् ॥१॥" तत्यागे च जनानुरागस्वधर्मसुखनिर्वाहादयो गुणाः । आह च-“एआई परिहरंतो, सव्वस्स जणस्स वल्लहो होइ । जणवल्लहत्तणं पुण, नरस्स समत्ततरुबीअं ति ॥ ४॥" तथा मिथ्यात्वकृत्यं, निर्दयं गवादेस्ताडनवन्धनादि, निराधारं यूकादेरातपे च मत्कुणादेः क्षेपः, शीर्षे महाकङ्कतक्षेपः, लिक्षास्फोटनादि, उष्णकाले त्रिः शेषकाले च द्विदृढवृद्गलनकसंखारकसत्यापनादियुक्त्या जलगालने धान्येन्धनशाकताम्बूलफलादिशोधनादौ च सम्यग्मवृत्तिः । अक्षतपूगखारिकवाल्हउलिफलिकादेर्मुखे क्षेपः। नालकेन धारया वा जलादेः पानं । चलनोपवेशनशयनस्नानवस्तुमोचनग्रहणरन्धनखण्डनपेषणघर्षणमलमूत्रश्लेष्मगण्डूषादिजलाबूलत्यागादौ सम्यगयतना, धर्मकर्मण्यनादरो, देवगुरुसाधर्मिकेषु विद्वेषः, चैत्यादिद्रव्यपरिभोगो, निर्धर्मसंसर्गो, धार्मिकादीनामुपहासः, कषायबहुलता, बहुदोषक्रयविक्रयः, खरकर्मसु पापमयाधिकारादौ च प्रवृत्तिः, एवमादि धर्मविरुद्धं । इह मिथ्यात्वादीनि प्रायोऽर्थदीपिकायां विवृतानि । देशकालादिविरुद्धानामपि धर्मवतां आचरणे धर्मनिन्दोपपत्तेधर्मविरुद्धव ५। तदेवं पञ्चविधं विरुद्ध श्रादेन परिहार्यमिति देशादिविरुद्धत्यागः॥
___ तथोचितस्योचितकृत्यस्याचरणं करणं उचिताचरणं । तच्च पित्रादिविषयं नवविधमिहापि स्नेहदृद्धिकीर्त्यादिहेतुहितोपदेशमालागतगाथाभिः प्रदर्यते । “सामन्नेमणुअत्ते, जे केई पाउणंति इह कित्ति । तं मुणह निविअप्पं, उचिआचरणस्स महप्पं ॥१॥तं पुण पिइमोइसहोअरेसुपर्णइणिअवैच्चसँयणेसु । गुरुजणनायरपरेतिथिएसु पुरिसेण कायव्वं ॥२॥" तत्र पितृविषयं कायवागमनांसि प्रतीत्य त्रिविधमौचित्यं क्रमेणाह-"पिउणो तणुसुस्सूसं, विणएणं किंकरव्व कुणइ सयं । वयणंपि से पहिच्छइ, वयणाओ अपडिअं चेक ॥३॥" तनुशुश्रूषां चरणक्षालनसंवाहनोत्थापननिवेशनादिरूपा देशकालसात्म्यौचित्येन भोजनशयनीयवसनाङ्गरागादिसंपादनरूपां च विनयेन नतु परोपरोधावज्ञादिभिः स्वयं करोति, नतु भृत्यादिभ्यः कारयति । यतः- “गुरोः पुरो निषण्णस्य, या शोभा जायते सुते । उच्चैः सिंहासनस्थस्य, शतांशेनापि सा कुतः ॥१॥" 'अपडिअंति' वदनादपतितमुच्चार्यमाणमेवादेशः 'प्रमाणमेष करोमीति' सादरं प्रतीच्छति पितृवचनप्रमाणीकरणाथै । राज्याभिषेकसमये एव वनवासार्थोपस्थितश्रीरामवत् न पुनरनाकर्णितशिरोधूननकालक्षेपार्द्धविधानादिभिरवजानाति । “चित्तं पिहु अणुअत्तइ, सव्वपयत्तेण सव्वकज्जेमु । उवजीवइ बुद्धिगुणे, निअसणावं पयासेइ ॥४॥" स्वबुद्धिविचारितमवश्यविधेयमपि कार्य तदेवारभते, यत् पितुर्मनोऽनुकूलमिति भावः। बुद्धिगुणान् शुश्रूषादीन् सकललौकिकलोकोत्तरव्यवहारगोचरांश्चोपजीवत्यभ्यस्यति । बहुदृश्वानो हि पितृप्रभृतयः सम्यगाराधिताः
कार्यरहस्यानि । तदाह-"तत्तदत्मेक्षमाणानां पुराणैरागमैर्विना। अनुपासितवृद्धानां, प्रज्ञा नातिप्रसीदति ॥१॥ यदेकः स्थविरो वेत्ति, न तत्तरुणकोटयः । यो नृपं लत्तया हन्ति, वृद्धवाक्यात्स पूज्यते ॥२॥श्रव्यं वाक्यं हि वृद्धानां, प्रष्टव्या ये बहुश्रुताः। इंसयूथं बने बद्धं, वृद्ध बुद्ध्या विमोचितं ॥३॥" सद्भावं चित्ताभिप्रायं । “आपुच्छिउं पयट्टइ, कराणज्जेस निसेहिओ ठाइ । खलिए खरंपि भणिओ, विणीअयं न हु विलंघेइ ॥ ५॥ सविसेसं परिपूरइ, धम्माणुगए मणोरहे तस्स । एमाइ उचिअकरणं, पिउणो जणणीइवि तहेव ॥ ६॥" तस्य पितुरितरानपि मनोरथान् पूरयति, श्रेणिकचिल्लणादेरभयकुमारवत् । धर्मानुगतास्तु देवपूजासद्गुरुपर्युपास्तिधर्मश्रवणविरतिमतिपत्यावश्यकमवृत्तिसप्तक्षेत्रीवित्तव्ययतीर्थयात्रादीनानाथोद्धरणादीन् मनोरथान् सविशेष बहादरेणेत्यर्थः । कर्तव्यमेव चैतत्सदपत्यानामिह लोकगुरुपु पितृषु । नचाहद्धर्मसंयोजनमन्तरेणात्यन्तदुष्पतिकारेषु तेष्वन्योऽस्त्युपकृतिप्रकारः । तथा च स्थानाङ्गसूत्र-“तिण्डं दुप्पडिआरं समपाउसो, तंजहाअम्मापिउणो, भट्टिस, धम्मायरियस्स । संपाओविअणं केइ पुरिसे अम्मापिअरं सयपागसहस्सपागेहिं तिल्लेहिं अनंगित्ता सुराभिणा गंधट्टएणं उवहिता तिहिं उदगेहिं मज्जावित्ता सव्वालंकारविभूसियं करिता मणुनथालीपागसुद्धं अट्ठारसवंजणाउलं भोअणं भोआवित्ता जावज्जीवं पिट्ठवडंसिआए परिवहिज्जा । तेणावि तस्स अम्मापिउस्स दुप्पडिआरं भवइ । अहेणं सेतं अम्मापिअरं केवलिपनत्ते धम्मे आघवइत्ता पत्रवइत्ता ' परूवइत्ता' ठावइत्ता भवइ । तेणामेव तस्स अम्मापिउस्स मुप्पडिआरं भवइ ' समणाउसो १ । केइ महच्चे दरिदं समुक्कसिज्जा, तएणं से दरिद्दे समुकिटे समाणे पच्छापुरं चणं विउलभोगसमिइ समणागए आवि विहरिज्जा, तएणं से महच्चे अनया कयाइ दरिदी हुए समाणे तस्स दरिदस्स अंतियं हव्वमगच्छिज्जा,
78
श्रीश्राद्धविधिप्रकरणम