SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ णतादर्शनाद घृतपात्रस्याधः कृष्णचित्रककुण्डलिकां निश्चित्य केनापि च्छद्मना तां गृहीतवान् । एवं कपटकूटतुलामानव्यवहारादिभिः पापानुबन्धिपुण्यबलेन व्यवसायपरस्य रङ्कष्ठिनो मिलितं बहु द्रव्यं । एकदा कश्चित्स्वर्णसिद्धिकर्ता मिलितः। सोऽपि कपटवृत्त्या वञ्चितो गृहीता सुवर्णसिद्धिः । एवं त्रिविधसिद्ध्यानेककोटिधनेश्वरो जातः । परमन्यायार्जितविभवपरिशीलनेन पूर्व निर्धनस्य पश्चादनसंपच्युत्सेकतया च' कापि तीर्थे। सत्पात्रेऽनुकंपास्थाने वा स्वश्रियो न्यासो दूरे तिष्ठतु, प्रत्युत सकललोकोच्चाटननवनवकरवर्द्धनांहङ्कारपोषाऽन्यधनिस्पर्धामत्सरादिभिस्ता रमां कालरात्रिरूपां लोकायादर्शयत् । अथान्यदा स्वसुतारत्नखचितककृतिकायां राज्ञा स्वपुत्रीकृत मार्गितायां पश्चात्मसभमपहृतायां तद्विरोधात्स्वयं म्लेच्छमण्डले गत्वा कनककोटीर्दत्वा मुद्गलान् समानयत् । तैर्देशभङ्गे कृते रकेन राज्ञः सूर्यमण्डलागच्छत्तुरगरक्षकान् रहोदानविभेद्य कूटप्रपञ्चः कारितः। पुरा हि राजा सूर्यवरमाप्तं दिव्यतुरगमारोहति तदनु सङ्केतितपुरुषैः पञ्चशब्दवादनं क्रियते । तुरगो व्योम्नि याति । तमारूढो नृपो वैरिणो हन्ति । सङ्ग्रामसमाप्तौ तुरगः सूर्यमण्डलं प्रविशति । तदा च रभेदितपश्चशब्दवादकै राज्ञस्तुरगारोहणात्पूर्वमेव पञ्चशब्दनादः कृतः । तुरगः समुड्डीय गतः । शिलादित्यनृपः किङ्कर्त्तव्यतामूढस्तैर्निजघ्ने । तदनु सुखेन वलभीभङ्गः सूत्रितः । उक्तञ्च-" पणसयरीवासाई, तिमिसयाई अइक्कमेऊणं । विक्कमकालाउ तओ, वलहीभंगो समुप्पन्नो ॥१॥" मुद्गला अपि निर्जले पातयित्वा मारिताः । इति रङ्गश्रेष्ठिसंबन्धः । एवमन्यायवित्तविलासितं ज्ञात्वा न्यायेनार्थार्जने यतनीयं । यतः -" विहाराहारव्याहारव्यवहारास्तपस्विनाम् । गृहिणां तु व्यवहार, एव शुद्धो विलोक्यते ॥ १॥" व्यवहारशुद्ध्यैव च सर्वोऽपि धर्मः सफलः । यद्दिनकृत्यकृत्-" ववहारसुद्धि धम्मस्स, मूलं सव्वनुभासए । ववहारेणं तु सुदेणं, अत्यसुद्धी जओ भवे ॥१॥ सुद्धणं चेव अत्येणमाहारो होइ सुद्धओ। आहारेणं तु सुद्धणं, देहसुद्धी जो भवे ॥२॥ सुद्धणं चेव देहेणं, धम्मजुग्गो अ जायई । जं जं कुणइ किच्चं तु, तं तं से सफलं भवे ।। ३ ।। अन्नहा अफलं होइ, जं जं किच्चं तु सो करे । ववहारसुद्धिरहिओ अ, धम्मं खिसावए जओ ॥४॥ धम्मखिंसं कुणंताणं, अप्पणो अ परस्स य । अबोही परमा होइ, इअ सुत्ते विभासि ॥५॥ तम्हा सव्वपयत्तेणं, तं तं कुज्जा विअरुणो । जेण धम्मस्स खिसं तु, न करे अबुहो जणो॥६॥" लोकेऽप्याहारानुसारेण पिण्डप्रकृतिबन्धो दृश्यते । यथा तुरङ्गमा बाल्ये महिष्याः पीतपयस्काः पयसि पतन्ति । गवां पीतदुग्धाः पानीयात् दूर एव तिष्ठन्ति । तथा मनुष्योऽपि बाल्याद्यवस्थाभुक्ताहारानुसारिप्रकृतिर्जायते । अतो व्यवहारशुख्यै सम्यगुपक्रम्यं । इति व्यवहारशुद्धि स्वरूपं ॥ तथा देशादिविरुद्धपरित्यागो, देशकालनृपादिविरुद्धवर्जनं । यदुक्तं हितोपदेशमालायां-" देसस्स य कालस्स य, निवस्स लोगस्स तहय धम्मस्स । वजंतो पडिकूल, धम्म सम्मं च लहइ नरो॥१॥" तत्र सौवीरेषु कृषिकर्म, लाटेषु सुरासन्धान देशविरुदं । अन्यदपि यद्यत्र देशे शिष्टजनैरनाचीर्ण तत् तत्र देशविरुद्धं । जातिकुलाद्यपेक्षया वानुचितं देशविरुद्धं, यथा ब्राह्मणस्य दिविक्रयश्च । उक्तं हि तत्समये-"तिलवल्लघुता तेषां, तिलवच्छयामता पुनः । तिलवच्च निपीड्यन्ते, ये तिलव्यवसायिनः॥१॥" कुलमपेक्ष्य च चौलुक्यानां मद्यपानं देशविरुद्धं । अन्यदेशिकानां पुरस्तद्देशनिन्दाविधानादि वा देशविरुद्धं १। कालविरुद्धं त्वेवं शीतत्तौ हिमालयपरिसरेऽत्यन्तशीते, ग्रीष्म वत्यन्तजाङ्गले मरुस्थले, वर्षास्वत्यन्तपिच्छलपङ्काकुलेष्वपरदक्षिणसमुद्रपर्यन्तभागेषु, तथातिदुर्भिक्षे, मिथोनृपयविरोधे, धाव्यादिना मार्गरोधे, दुरुत्तारमहारण्ये, यामिनीमुखादिभयवेलायां वा तादृक्सामर्थ्यसहायादिदृढबलं विना प्रस्थानं प्राणधननाशाद्यनर्थकृत्करोति । यद्वा फाल्गुनमासाद्यनन्तरं तिलपीलनतिलव्यवसायतिलभक्षणादि, वर्षासु वा तन्दुलीयकादिपत्रशाकग्रहणादि, बहुजीवाकुलभूमौ शकटखेटनादि वा महादोषहेतुं करोति, तच्च । राजादेर्दोषग्रहणं, राज्ञः संमतानामसंमाननं, राज्ञोऽसंमतानां सङ्गतिर्वैरिस्थानेषु लोभाद्गति(रिस्थानागतैः सह व्यवहारादि, राज्ञः प्रसादे स्वच्छन्देन राजकृत्येष्वपि विधिनिषेधकरणं, नागराणां प्रतिकूलाचरणं, स्वामिद्रोहादि च राजविरुद्धं । दुस्सहोदकं भुवनभानुकेवलिजीवरोहिण्यादेरिव । सा हि नैष्ठिक्यधीतस्वाध्यायलक्षापि विकथारसान्मुधा राड्या दुःशीलतादिवादिनी रुष्टनृपेण मान्योत्तमश्रेष्ठिपुत्रीत्वादिना जिहाच्छेदादिभिः खण्डशोऽकृता देशनिर्वासनादिदुःखिनी नानाभवेषु जिहाच्छेदादि सेहे ३ । लोकस्यनिन्दा, विशिष्य च गुणसमृद्धस्य । इयमात्मोत्कर्षश्च लोकविरुद्धौ । यतः-"संतेहिं असंतेहिं अ, परस्स किं पिएहिं दोसेहिं । अथ्यो जसो न लाइ, सोवि अमित्तो कओ होइ ॥१॥ सुहवि उज्जममाणं, पंचेव करिति रित्तयं समणं । अप्पथुई परनिंदा, जिनोवत्थी कसाया य ॥२॥ जइ संति गुणा नणु, अभणिआवि काहिंति अत्तउक्करिसं । अह तेवि न संति मुहा, अनुक्करिसेण किं तेण ॥३॥ मित्ता हसंति निदंति, बंधवा गुरुजणा उविखंति । पिअरोपि न बहु मन्नति, अप्पबहुमाणिणं पुरिसं ॥४॥ परपरिभवपरिवादादात्मोत्कर्षाच्च बध्यते कर्म । नीचैर्गोत्रं प्रतिभवमनेकभवकोटिदुर्मोचम् ॥५॥ परनिन्दा महापापं, परपापान्यहो यतः । अकर्तृत्वेऽपि लुम्पन्ति, तत्कत्री जरतीं यथा ॥६॥" सुग्रामे सुन्दरोगी, धर्मी, यात्रिकादीनां भोजनवासस्थानायुपकारी । तत्मातिवेश्मिकी जरद्विषी तं निन्दति, यात्रिका विदेशे म्रियन्ते, तमासादिलोभात्तानेष सत्यापयतीत्यादि । अन्यदा क्षुत्तृषार्तः कार्पटिको गृहेऽभावादाभीर्याः तक्रमानाय्य पायितो मृतः, आभीराशिरःश्रीश्राद्धविधिप्रकरणम् 77
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy