SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ एवमन्यदपि शास्त्राद्यनुसारेण यथोचितं चिन्तनीयं । तथा चाह-"क्षीरं भुक्त्वा रतं कृत्वा, स्नात्वाहत्य गृहाङ्गनाम् । वात्म निष्ठीव्य' चाक्रोशं, श्रुत्वा च प्रचळेनहि ॥१॥ कारयित्वा नरः क्षौरमश्रुमोक्षं विधाय च । गच्छेद् ग्रामान्तरे नैव, शकुनापाटवेन च ॥ २॥ कार्याय चलितः स्थानाद्वहन्नाडिपदं पुरः । कुर्वन् वाञ्छितसिद्धीनां भाजनं जायते नरः ।। ३॥ रोगिवृद्धद्विजान्धाना, धेनुपूज्यक्षमाभुजाम् । गर्भिणीभारभुग्नानां, दत्वा मार्ग व्रजेद्बुधः ॥ ४ ॥ धान्यं पक्कमपकं वा, पूजाई मन्त्रमण्डलम् । न त्यक्तोद्वर्तनं लयं, स्नानांभोऽमुक्शबानि च ॥५॥ निष्ठ्यत श्लेष्मविण्मूत्र, ज्वलद्वद्विभुजङ्गमान् । मनुष्यमायुधं धीमान् , कदाप्युल्लवयन च ॥६॥ नदीतीरे गवां गोष्टे, क्षीरवृक्षे जलाश्रये । आरामेषु च कूपादाविष्टबन्धुं विसर्जयेत् ॥७॥ क्षेमार्थी वृक्षमूलं 'न, निशीथिन्यां समाश्रयेत् । नासमाप्ते नरो दूरं, गच्छेदुत्सवसूतके ॥ ८ ॥ नासहायो नचाज्ञातै व दासैः समं तथा । नातिमध्यंदिने नार्द्धरात्रे मार्गे बुधो व्रजेत ॥ ९॥ रैरारक्षकैः कर्णेजपैः कारुजनैस्तथा । कुमित्रैश्च समं गोष्टी, चर्या चकिालिकीं त्यजेत् ॥ १० ॥ महिपाणां खराणाञ्च, धेनूनां चाँधिरोहणम् । खेदस्पृशापि नो कार्यमिच्छता श्रियमात्मनः ॥ ११ ॥ गजात्करसहस्त्रेण, शकटात्पञ्चभिः करैः । शृङ्गिणोऽश्वाच्च गन्तव्यं, दरेण दशभिः करैः॥१२॥ नाशम्बलश्चलेन्मार्गे. भृशं सुप्यान वासरे । सहायानां च विश्वास, विदधीत 'न धीधनः ॥ १३ ॥ एकाकिना न गन्तव्यं, यदि कार्यशतं भवेद । पश्य कर्कटमात्रेण, ब्राह्मणः परिरक्षितः॥ १४ ॥ एकाकिना न गन्तव्यं, कस्याप्येकाकिनो गृहे । नैवापरपथेनापि, विशेत्कस्यापि वेश्मनि ॥ १५॥ न जीणों नावमारोहेनद्यामेको विशेन च । न चातुच्छमतिर्गच्छेत्सोदर्येण समं पथि ॥१६॥ न जलस्थलदुर्गाणि, विकटामटवीं न च । न चांगाधानि तोयानि, विनोपायं विलयेत् ॥१७॥ भूयांसः कोपना यत्र, भूयांसः सुखलिप्सवः । भूयांसः कृपणा यत्र, स सार्थः स्वार्थनाशकः॥१८॥ सर्वे यत्र च नेतारः, सर्वे पण्डितमानिनः । सर्वे महत्त्वमिच्छन्ति, तद्वन्दमवसीदति ॥ १९॥ बद्ध्यवध्याश्रये द्यूतस्थाने परिभवास्पदे । भाण्डागारे न गन्तव्यं, परस्यान्तःपुरे न च ॥ २० ॥ अमनोज्ञे श्मशाने च, शून्यस्थाने चतुष्पथे । तुषशुष्कतृणाकीर्णे, विषमावकरोपरे ॥ २१ ॥ वृक्षाग्रे पर्वताग्रे च, नदीकूपतटे स्थितिम् । न कुर्याद्भस्म केशेषु, कपाळाङ्गारकेषु च ॥ २२ ॥ कालकृत्यं न मोक्तव्यमतिखिन्नैरपि ध्रुवम् । नाप्नोति पुरुषार्थानां, फलं क्लेशजितः पुमान् ॥ २३ ॥ भवेत्परिभवस्थानं, पुमान् प्रायो निराकृतिः । विशेषाडम्बरस्तेन, न मोच्यः सुधिया कचित् ॥२४॥" देशान्तरगतश्च विशिष्य यथाहाडम्बरसर्वाङ्गीणधर्मनिष्ठो भूयात्तथैव महत्त्वबहुमानविलोक्यमानकार्यसिद्ध्यादिसंभवात् । विदेशे च बहुबहुलाभाप्तावपि नातिबहु तिष्ठेद्वद्दु स्थितौ गृहसूत्रवैसंस्थुल्यादिदोषापत्तेः, काष्ठश्रेष्ठयादेरिव । समुदितक्रयविक्रयादिमारंभे चाँविनेनाभिमतलाभादिकार्यसिद्ध्यर्थ पञ्चपरमेष्ठिस्मरणश्रीगौतमादिनामग्रहणकियत्तद्वस्तुश्रीदेवगुर्वायुपयोगित्वकरणादि कर्त्तव्यं, धर्मप्राधान्येनैव सर्वत्र साफल्यभावात् । धनार्जनार्थमुपक्रमं कुर्वाणेन च सप्तक्षेत्रीव्ययादिधर्ममनोरथा निरन्तरं महान्त एव कर्त्तव्याः । ऊचुश्च-" उच्चैर्मनोरथाः कार्याः, सर्वदैव मनस्विना । विधिस्तदनुमानेन, संपदे यतते यतः ।। १॥ यत्नः कामार्थयशसां, कृतोऽपि विफलो भवेत् । धर्मकर्मसमारंभसङ्कल्पोऽपि न निफलः ॥२॥" लाभसम्भवे च तदनुरूपं तान् मनोरथान् सफलीकुर्यात् । यतः-" ववसायफलं विवो, विवहस्स फलं मुपत्तविणिओगो। तयभावे ववसाओ, विहवोवि अ दुग्गइनिमित्त ॥१॥" एवञ्च निजऋद्धधर्मादित्वं स्यादन्यथा तु पापर्दित्वं । उक्तं च-"धम्मिट्टी भोगिडी, पाविठ्ठी इअ तिहा भवे इडी) सा भन्नइ धम्मिट्टी, जा दिज्जइ धम्मकजेस॥१॥ सा भोगिट्टी गिजड. सरीर भोगमि जीइ उवओगो। जा दाणभोगरहिआ, सा पाविडी अणत्यफला ॥२॥ पाविडी पाविज्जइ, फलेण पावस्स पुव्वविहिअस्स । पावेण भाविणा वा, इत्यत्थे सुणह दिटुंतं ॥३॥" वसन्तपुरे चत्वारो मित्राणि क्षत्रियब्राह्मणवणिक्स्वर्णकाराः। देशान्तरेऽर्थार्थ गताः । रात्रावुधाने स्थिताः। तत्र शाखायां लम्बमानं स्वर्णपुरुषं ददृशुः । एकेनोक्तं, 'अर्थः,' स्वर्णपुरुषेणोक्तं, 'अर्थः पुनरनर्थपदः' तत् श्रुत्वा सर्वैर्मीत्या त्यक्तः । स्वर्णकारेणोक्तं 'पत,' पश्चात्पतितः। तेनाङ्गलिं कर्त्तयित्वा गायां क्षिप्तः सर्वैरपि दृष्टः । तेषां मध्ये द्वयं भोजनानयनाय पुरान्तर्गतं । द्वयं तु बहिः स्थितं । मध्यगतद्वयेन बहिस्थतन्मारणाय विषान्नमानीतं । बहिःस्थितेन मध्यादागच्छद द्वयं खड्नेन हत्वा विषानं भुक्तं । सर्वे मृताः एषा पापर्द्धिः । अतो देवपूजान्नदानादिकैः प्रत्यहं पुण्यैः सङ्गपूजासाधर्मिकवात्सल्यादिकैरवसरपुण्यैश्च निजर्दिः पुण्योपयोगिनी कार्या । यद्यप्यवसरपुण्यानि बहुव्ययसाध्यत्वेन महान्ति प्रत्यहं पुण्यानि च लघूनि तथापि प्रत्यहं पुण्येषु निरन्तरं भवत्सु भूयस्तरं फलं, तत्पूर्वकमेवावसरपुण्यकरणस्यौचित्यात् । न च धनस्तोकत्वादिना धर्मकार्यविलम्बादि कार्य । यदुवाच-“देयं स्तोकादपि स्तोकं, न व्यपेक्षो महोदयः । इच्छानुसारिणी शक्तिः, कदा कस्य भविष्यति ॥ १ ॥ श्वःकार्यमद्य कुर्वीत, पूर्वाहे चापराह्निकम् । न हि मृत्युः प्रतीक्षेत, कृतं चास्य नवा कृतम् ॥२॥" अर्थार्जनार्थमपि यथाई प्रत्यहं प्रयतते । यतः-" वणिग् वेश्या कविर्भहस्तस्करः कितवो द्विजः। यत्रापूर्वार्थलाभो न, मन्यते तदहवृथा ॥१॥"न च स्वल्पसंपदैव तदुद्यमानिवर्तते । यन्माष:-"संपदा सुस्थितंमन्यो, भवति स्वल्पयापि यः। कृतकृत्यो विधिर्मन्ये, न वर्द्धयति तस्य ताम् ॥१॥" नाप्यतितृष्णां कुर्यात् । यल्लोकेऽप्युक्तं-“अतिलोभो न कर्तव्यो, लोभं नैव परित्यजेत् । अतिलोभाभिभूतात्मा, सागरः सागरं गतः ॥१॥" न च यावदित्यं कस्यापि माप्तिसं 74 श्रीश्राद्धविधिप्रकरणम
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy