SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ स्वद्रव्यप्रेषणाद्यपि युक्तमविश्वासस्यार्थमूलत्वाद्विश्वासस्य चनिर्थमूलत्वात् । यदाह-"न' विश्वसेदविश्वस्ते, विश्वस्तेपिन विश्वसेत् । विश्वासाद्भयमुत्पन, मूलादपि निकन्तति ॥ १॥" गुप्तमुक्तस्थापनिकया च को वा सुहृदपि न लोलुभ्यते । भण्यतेऽपि-"निक्षेपे पतिते हर्ये, श्रेष्ठी स्तौति स्वदेवताम् । यदीशो म्रियतामाशु, तुभ्यं दास्यामि याचितम् ॥१॥" अस्माभिरप्युक्तं-" अथ्यो नूणमणथ्यो, अग्गीव परं गिहीण तेण विणा । कहमवि न हु निन्वाहो, तातं जुत्तीइ रस्किज्जा ॥१॥" अत्र श्रेष्ठिधनेश्वरसम्बन्धः । यथा स स्वगृहसारमेकीकृत्य कोटि कोटि वर्णमूल्यान्यष्टौ रत्नानि स्वप्रियापुत्रादिभ्योऽपि प्रच्छन मित्रहस्ते न्यासीकृत्य धनार्जनार्थ विदेशे गतो, बहुकालं स्थितो, दुर्दैवादोकस्मिकमान्येनन्त्यिावस्था प्राप्तः । यतः-" अन्नह परिचिंतिज्जइ, सहरिस कुंदुजलेण हिअएण । परिणमइ तं तु अन्नह, कज्जारंभो विहिवसेणं ॥ १॥" तदा चासन्न सुजनैव्यादिस्वरूपं पृष्टः पाह, विदेशार्जितं मद्धनं भूयस्तरमपीतस्ततः स्थितं पुत्रादिभिर्दुग्रहं, परं मित्रहस्तन्यस्तं रत्नाष्टकं प्रियापुत्रादीनां दाप्यमित्युक्त्वा स मृतः । तैस्तत्स्वरूपे ज्ञापिते. 'पुत्रादिभिर्विनयस्नेहबहुमानदोदयाभयदर्शनाद्यनेकप्रकारैर्मागणेऽपि लुब्धेन मित्रेण तन्न मानितं नॉर्पितञ्च । व्यवहारकरणे साक्षिणो लिखिताद्यभिज्ञानस्य चाभावाद् भूपत्यमात्यादिभिरपि दापयितुं न शक्तं । यस्य तस्यापि साक्षिणः करणे चौरादिगृहीतमपि जातु पश्चादलते । यथा बहुवित्तवणिजा' धुर्तेन विदेशे मार्गे तस्करघाटीमिलने जोत्कारकरणे तैव्यं मार्गितं । तेनोक्तं, साक्षिणं कृत्वा सर्व गृह्णन्तु । पुनरवसरे भवद्भिर्ममार्ण्यमहं च न मार्यः । ततस्तैवैदेशिको मुग्धोऽयमिति मत्वाऽरण्यमार्जारं करं साक्षीकृत्य सर्वस्वं लात्वा मुक्तः । स परंपरया तत्स्थानाधवगत्य स्वग्रामं गतः । कियति काले तद्वासग्रामसत्काः सतस्कराः केऽपि बहु वस्तु लात्वा तत्रागताः। तेन स्वद्रव्यमार्गणे मिथ: कलहे न्यायकरादिभिः 'साक्षी कोऽप्यस्ति ? इति पृष्टे वणिजा कृष्णमार्जरमेकं सरडिमध्ये क्षिप्त्वोक्तं, 'एष साक्षी' तस्करैरुक्तं, 'विलोक्यते'। भोः कीदृशः साक्षी ? ततस्तेन स दर्शितः तैरुक्तं, ' एष स न कृष्णत्वात्, स तु कर्बुरोऽभूत् ' इति स्वमुखेनैव माननान्यायकरादिबलेन सर्व स्वद्रव्यं पश्चादगृहीतं तेनेति साक्षिकरणे कथानकम् । तस्मात्स्थापनिका गुप्तकृत्या न मोच्या न मासा वा, किन्तु कियत्स्वजनसमक्षम मोच्या ग्राह्या च । न च धनिकानुमतिं विना सा चालपितुमपि युज्यते, किं पुनर्वाणिज्यादौ व्यापारयितुं । जातु न्यासकृदन्यत्र मृतस्तदा तत्सुतादेः सार्पणीया । तत्सुताधभावे तु सर्वसमक्षं धर्मस्थाने व्ययितव्या । नाप्युद्धारनिक्षेपादि समग्रायव्ययटिप्पनादौ स्वल्पमप्यालस्यं कुर्यात् । यत उक्तं" ग्रन्थिबन्धे परीक्षायां, गणने गोपने व्यये । लेख्यके च कृतालस्यो, नरः शीघ्रं विनश्यति ॥१॥" भ्रान्तिबहुलो हि जन्तुष्टिप्पनादि विना भ्रान्तौ मुधा कर्मबन्धादि दोषोऽपि । योगक्षेमादिसिद्ध्यर्थ च रविरिवेन्दुना राजादिः कश्चिन्नायकोऽप्यनुसरणीयोन्यथा पदे पदे पराभवादिभावात् । उक्तश्च-" सुहृदामुपकारकारणाद् द्विषतां चाप्यपकारकारणात् । नृपसंश्रय इष्यते बुधैर्जठरं को न बिभर्ति केवलम् ॥१॥" मंत्रिवस्तुपालसाधुपेथडाद्यैरपि नृपाश्रयेणैव प्रासादाद्यनेकतत्तत्पुण्यकृत्यानि चक्रिरे । तथा युतधातुवादादि दूरतः परिवर्जयेत् । यतः-"जुधाउवाओ, अंजणसिद्धी रसायणे तण्डा । जस्किणि विवरपवेसो, दइवे रुटे । मई होई ॥१॥" यथा तथा शपथादिकं च न विदध्याद्विशिष्य च देवगुर्वादिविषयं । तदभिहितं-" अलिएणवि सच्चेणवि, चेइअसम्म करेइ 'जो मूढो । सो वमइ बोहिबीअं, अणंतसंसारिओ होइ ॥ १॥" नापि परमतिभूत्वादिसटे पविशेत् । यत्कासिक:-" अनीश्वरस्य द्वे भार्ये, पथि क्षेत्रं द्विधा कृषिः। प्रातिभाव्यं च साक्ष्यञ्च, पञ्चानाः स्वयं कृताः॥१॥" तथा मुख्यवृत्त्या निवासग्रामे एव वाणिज्यादि कार्य । तथा सति कुटुम्बावियोगगृहकार्यधर्मकार्याधसीदत्तादयो गुणाः । तथा निर्वाहाभावे निवासदेशान्तर्व्यवहरेदेवमपि शीघ्रं शीघ्र निजस्थानागमनसंभवादिना प्रायः पूर्वोक्ता गुणाः । को हि नाम पामरोऽपि निजस्थाने निर्वाहसंभवे देशान्तरक्लेशमाश्रयेत् । उक्तमपि–“जीवन्तोऽपि मृताः पञ्च श्रूयन्ते किल भारत! दरिद्रो व्याधितो मूर्खः 'प्रवासी नित्यसेवकः ॥ १॥" अन्यथा च निर्वोहुमशक्तो यदि देशान्तरे व्यवहारं कुर्यात्तथापि न स्वयं नापि पुत्रादिभिः, किन्तु सुपरीक्षितवाणिपुत्रादिभिः । जातु स्वयमेव देशान्तरे यायात् तदापि सुमुहूर्तशकुननिमित्तदेवगुरुवन्दनादिमङ्गल्यविधिना बहुभाग्यवत्सार्थमध्यवर्ती निद्रादिप्रमादवर्जी कियाद्भिः स्वकीयज्ञातीयसुपरिचितादिभिः सहैव सुयत्नेनैव ब्रजेद व्यवहरेत्तिष्ठेच्च । भाग्यवता चैकेनापि सार्थस्य विघ्नं टलति । “ यथैकविंशतिः पुरुषाः वर्षासु ग्रामान्तरे यान्तः , सायं देवकुले स्थितास्तदा विद्युद् द्वारमागत्योगत्य याति, तैश्च भीत्योक्तं, 'कोऽप्यात्मसु निर्भाग्योऽस्ति इत्येकैको देवकुलात्परितो भ्रान्त्वा आयातु ' तथा कृत्वा विंशतिः प्रविष्टाः । एकविंशे बलादहिः कृष्टे विंशतेर्मूर्भि विद्युत्पपात । तेष्वेक एव भाग्यवांस्ततो भाग्यवत्सार्थो ग्राह्यः। लभ्यदेयनिध्यादि च सर्व पितृभ्रातृपुत्रादीनां च सर्वदापि ज्ञापयेत्, विशिष्य च प्रस्थानावसरे, अन्यथा दुर्दैवात्तस्यायुः समाप्तौ सत्यपि विभवे पित्रादीनां मुधा दारिद्यादिदुःखं कृतं स्यात्, स्वकीयांश्च सर्वानपि यथाईचिन्ताकरणशिक्षाप्रदानपूर्व सबहुमानं संभाष्यैव प्रतिष्ठते । उक्तश्च-" अवमन्य माननीयानिर्भ य॑ स्त्री च कमपि संताड्य । बालमपि रोदयित्वा जिजीविषुर्नैव निर्गच्छेत् ॥ १॥" आसन्नं च विशेषपर्वोत्सवादि कृत्वा व्रजति । यतः-" उत्सवमशनं स्नानं प्रगुणं चोपेक्ष्य मङ्गलमशेषम् । असमापिते च सूतकयुगेऽङ्गानत्तौ च'नो यायात् ॥ १॥" श्रीश्राद्धविधिप्रकरणम् 73
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy